न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ १४ ॥
अपि च ‘प्रजापतेः सभां वेश्म प्रपद्ये’ (छा. उ. ८ । १४ । १) इति नायं कार्यविषयः प्रतिपत्त्यभिसन्धिः, ‘नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म’ (छा. उ. ८ । १४ । १) इति कार्यविलक्षणस्य परस्यैव ब्रह्मणः प्रकृतत्वात् । ‘यशोऽहं भवामि ब्राह्मणानाम्’ (छा. उ. ८ । १४ । १) इति च सर्वात्मत्वेनोपक्रमणात् । ‘न तस्य प्रतिमाऽस्ति यस्य नाम महद्यशः’ (श्वे. उ. ४ । १९) इति च परस्यैव ब्रह्मणो यशोनामत्वप्रसिद्धेः । सा चेयं वेश्मप्रतिपत्तिर्गतिपूर्विका हार्दविद्यायामुदिता — ‘तदपराजिता पूर्ब्रह्मणः प्रभुविमितꣳ हिरण्मयम्’ (छा. उ. ८ । ५ । ३) इत्यत्र । पदेरपि च गत्यर्थत्वात् मार्गापेक्षता अवसीयते । तस्मात्परब्रह्मविषया गतिश्रुतय इति पक्षान्तरम् । तावेतौ द्वौ पक्षावाचार्येण सूत्रितौ — गत्युपपत्त्यादिभिरेकः, मुख्यत्वादिभिरपरः । तत्र गत्युपपत्त्यादयः प्रभवन्ति मुख्यत्वादीनाभासयितुम् , न तु मुख्यत्वादयो गत्युपपत्त्यादीन् — इति आद्य एव सिद्धान्तो व्याख्यातः, द्वितीयस्तु पूर्वपक्षः । न ह्यसत्यपि सम्भवे मुख्यस्यैवार्थस्य ग्रहणमिति कश्चिदाज्ञापयिता विद्यते । परविद्याप्रकरणेऽपि च तत्स्तुत्यर्थं विद्यान्तराश्रयगत्यनुकीर्तनमुपपद्यते — ‘विष्वङ्ङन्या उत्क्रमणे भवन्ति’ (छा. उ. ८ । ६ । ६) इतिवत् । ‘प्रजापतेः सभां वेश्म प्रपद्ये’ (छा. उ. ८ । १४ । १) इति तु पूर्ववाक्यविच्छेदेन कार्येऽपि प्रतिपत्त्यभिसन्धिर्न विरुध्यते । सगुणेऽपि च ब्रह्मणि सर्वात्मत्वसङ्कीर्तनम् ‘सर्वकर्मा सर्वकामः’ इत्यादिवत् अवकल्पते । तस्मादपरविषया एव गतिश्रुतयः ॥