विशेषं च दर्शयति ॥ १६ ॥
नामादिषु प्रतीकोपासनेषु पूर्वस्मात्पूर्वस्मात् फलविशेषम् उत्तरस्मिन्नुत्तरस्मिन् उपासने दर्शयति — ‘यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति’ (छा. उ. ७ । १ । ५) ‘वाग्वाव नाम्नो भूयसी’ (छा. उ. ७ । २ । १) ‘यावद्वाचो गतं तत्रास्य यथाकामचारो भवति’ (छा. उ. ७ । २ । २) ‘मनो वाव वाचो भूयः’ (छा. उ. ७ । ३ । १) इत्यादिना । स च अयं फलविशेषः प्रतीकतन्त्रत्वादुपासनानाम् उपपद्यते । ब्रह्मतन्त्रत्वे तु ब्रह्मणोऽविशिष्टत्वात् कथं फलविशेषः स्यात् । तस्मात् न प्रतीकालम्बनानाम् इतरैस्तुल्यफलत्वमिति ॥ १६ ॥