मुक्तः प्रतिज्ञानात् ॥ २ ॥
योऽत्र अभिनिष्पद्यत इत्युक्तः, स सर्वबन्धविनिर्मुक्तः शुद्धेनैव आत्मना अवतिष्ठते । पूर्वत्र तु — ‘अन्धो भवति’ ‘अपि रोदितीव’ ‘विनाशमेवापीतो भवति’ — इति च अवस्थात्रयकलुषितेन आत्मना — इत्ययं विशेषः । कथं पुनरवगम्यते — मुक्तोऽयमिदानीं भवतीति ? प्रतिज्ञानादित्याह — तथा हि — ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि’ (छा. उ. ८ । ९ । ३) इति अवस्थात्रयदोषविहीनम् आत्मानम् व्याख्येयत्वेन प्रतिज्ञाय, ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ (छा. उ. ८ । १२ । १) इति च उपन्यस्य, ‘स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः’ (छा. उ. ८ । १२ । ३) इति च उपसंहरति । तथा आख्यायिकोपक्रमेऽपि ‘य आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) इत्यादि मुक्तात्मविषयमेव प्रतिज्ञानम् । फलत्वप्रसिद्धिरपि मोक्षस्य बन्धनिवृत्तिमात्रापेक्षा, न अपूर्वोपजननापेक्षा । यदपि अभिनिष्पद्यत इत्युत्पत्तिपर्यायत्वम् , तदपि पूर्वावस्थापेक्षम् — यथा रोगनिवृत्तौ अरोगोऽभिनिष्पद्यत इति, तद्वत् । तस्माददोषः ॥ २ ॥