ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
भामतीव्याख्या
 
तन्वभावे सन्ध्यवदुपपत्तेः ॥ १३ ॥
यदा तनोः सेन्द्रियस्य शरीरस्य अभावः तदा, यथा सन्ध्ये स्थाने शरीरेन्द्रियविषयेष्वविद्यमानेष्वपि उपलब्धिमात्रा एव पित्रादिकामा भवन्ति, एवं मोक्षेऽपि स्युः । एवं हि एतदुपपद्यते ॥ १३ ॥

तन्वभावे सन्ध्यवदुपपत्तेः ॥ १३ ॥