ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
आह — कोऽयमध्यासो नामेति । उच्यते — स्मृतिरूपः परत्र पूर्वदृष्टावभासः । तं केचित् अन्यत्रान्यधर्माध्यास इति वदन्ति । केचित्तु यत्र यदध्यासः तद्विवेकाग्रहनिबन्धनो भ्रम इति । अन्ये तु यत्र यदध्यासः तस्यैव विपरीतधर्मत्वकल्पनामाचक्षते । सर्वथापि तु अन्यस्यान्यधर्मावभासतां न व्यभिचरति । तथा च लोकेऽनुभवः — शुक्तिका हि रजतवदवभासते, एकश्चन्द्रः सद्वितीयवदिति ॥

शास्त्रारम्भहेतुविषयादिसाधकमध्यासमाक्षेपसमाधिभ्यां सङ्क्षिप्य तमेव लक्षणसम्भावनाप्रमाणैः स्फुटीकर्तुं चोदयति —

आहेति ।

शास्त्रस्य तत्त्वनिर्णयार्थतया वादत्वात् , तत्र गुरुशिष्ययोरधिकारात् , पुरस्थितमिव शिष्यं गृहीत्वा परोक्तिः । इत आरभ्य ‘कथं पुनः प्रत्यगात्मनी ‘ इत्यतः प्रागध्यासलक्षणपरं भाष्यम् , तस्मादाराभ्य ‘तमेतमविद्याख्यम् ‘ इत्यतः प्राक्तनं तत्सम्भावनायाः, एतदादि सर्वलोकप्रत्यक्ष इत्यन्तं तन्निर्णयायेति विभागः ।

समाधानभाष्येऽध्यासलक्षणनिर्देशेऽपि प्रसिद्धाध्यासलक्षणे निर्णीते प्रागुक्तलक्षणस्य तद्विशेषतया सिद्धिरिति मत्वा प्रसिद्धाध्यासं पृच्छति —

कोऽयमिति ।

किंशब्दस्याक्षेपेऽपि सम्भवादत्र सोऽपि विवक्ष्यते । आत्मन्यध्यस्तोऽनात्मेतिविशेषोक्तेः, असदृशयोश्चाधिष्ठानाधिष्ठेयत्वायोगात् , सम्भावनया विशेषाक्षेपात् , प्रश्नाक्षेपयोर्भिन्नार्थत्वादुपपत्तिरिति भावः ।

अध्याससाधारणस्वरूपधीहेतुत्वेन लक्षणस्याभ्यर्हितत्वात् , आक्षेपमुपेक्ष्य पृष्टमेवेति मत्वाह —

उच्यत इति ।

अत्र प्रश्नवाक्यस्थाध्यासपदानुषङ्गान्न साकाङ्क्षत्वम् । परत्रेत्युक्ते परस्येत्यार्थिकं, परत्र परावभास इत्येव लक्षणम् , तदुपपादकं स्मृतिरूपत्वम् , तत्साधनार्थं पूर्वदृष्टत्वम् । अध्यासद्वयेऽपि परत्रेति सामान्यतो धीयोग्यमधिष्ठानमुक्तम् । अर्थपक्षेऽवभास्यत इत्यवभासः परश्चासाववभासश्चेति । तथा ज्ञानपक्षेऽवभासनमवभासः परस्यावभासः परावभासः, तावत्युक्ते घटात्परस्य घटस्यावभासः, स चावभासमानोऽध्यासः स्यात्तन्निवृत्तये परत्रेति । न चैवमपि खण्डा गौरित्यादावतिव्याप्तिः, परत्रेत्यारोप्यात्यान्ताभाववतोऽभिधानात् , खण्डगवादीनां तादात्म्यवतां संसर्गशून्यत्वाभावात् । दोषसंस्कारसम्प्रयोगोत्थत्वादित्थमवभासः सम्भवतीति वक्तुं स्मृतिरूप इत्युक्तम् । स्मर्यत इति स्मृतिः - स्मर्यमाणोऽर्थः । ‘भावे ‘ ‘अकर्तरि च कारके संज्ञायाम् ‘ इति सूत्रद्वयमधिकृत्य ‘स्त्रियां क्तिन् ‘ इति सूत्रेण भावे, कर्तृव्यतिरिक्ते च कारके कर्मादौ संज्ञायामसंज्ञायां च क्तिन्विधानात् , अकर्तरि चेति चकारस्य संज्ञाव्यभिचारार्थत्वाङ्गीकारात् । स्मर्यमाणस्य रूपमिव रूपमस्येति स्मृतिरूपो न तु स्मर्यत एव, स्पष्टं पुरोविस्थितत्वेन भानात् । ज्ञानपक्षे स्मरणं स्मृतिः, भावे क्तिन्विधानात् । स्मृते रूपमिव रूपमस्येति स्मृतिरूपो न स्मृतिरेव पूर्वानुभूतस्य तथाऽभानात् , स्मृतिरूपता दोषादित्रयोत्थत्वात् , तादृग्धीविषयत्वाद्वा । अदृष्टरजतस्य रजतभ्रमादृष्टेः, तत्संस्काराभावाच्च संस्कारद्वारा स्मृतिरूपतोपयोगिपूर्वदृष्टत्वम् । तदेवं परत्र परावभास इत्येव लक्षणम् , अन्यदुक्तरीत्या तच्छेषमिति स्थितम् ।

अध्यासे वादिविप्रतिपत्तेः, उक्तं तल्लक्षणं कथमित्याशङ्क्य आरोप्यदेशादौ विवादेपि लक्षणसंवादान्न्यायतश्च तल्लक्ष्येऽनिर्वाच्यतासिद्धेः, सर्वत्रसिद्धान्तोऽयमिति विवक्षित्वा वादिविवादानुपन्यस्यन् , केषाञ्चिदन्यथाख्यातिवादिनामात्मख्यातिवादिनां चाभिप्रायमाह —

तं केचिदिति ।

अन्यत्र शुक्त्यादावन्यस्य कार्यत्वेन पारतन्त्र्याद्धर्मस्य रजतादेरध्यासस्तादात्म्यधीः । देशान्तरगतं हि रजतादि दोषात्पुरोवर्त्यात्मना भातीत्येवमुक्तमध्यासं केचिदन्यथाख्यातिवादिनो वदन्तीत्येकत्र । अपरत्र त्वन्यत्र बाह्ये शुक्त्यादावन्यस्य ज्ञानस्य धर्मो रजतादिस्तस्याध्यासः, बहिरिव तदभेदेन धीः, इत्यात्मख्यातिवादिनस्तमध्यासमाहुरिति योजना । पक्षद्वयेऽपि परत्र परावभासे संमतिरस्तीति भावः ।

अख्यातिमतमाह —

केचित्विति ।

वदन्तीत्यनुषज्यते । यत्र शुक्त्यादौ यस्य रजतादेरध्यासो लोके प्रसिद्धस्तयोस्तद्धियोश्च दोषवशाद्विवेकाग्रहे तत्कृतो रजतमिदमित्यादिसंसर्गव्यवहार इत्यख्यातिवादिनः । तैरपि संसर्गव्यवहाराय तद्धीरूपस्यावस्तुग्रहे तदभिन्नविवेकाग्रहायोगात् , तस्य तत्कृतत्वासम्भवात् , अविद्येतरदोषस्य भाति वस्तुन्यभानहेतुतानुपलम्भात् , अतः परत्र परावभासे तेषामप्यस्ति संमतिरिति भावः ।

केषाञ्चिदन्यथाख्यातिवादिनां माध्यमिकानां च मते दर्शयति —

अन्ये त्विति ।

यत्र शुक्त्यादौ यस्य रजतादेरध्यासः, तस्यैव शुक्त्यादेर्विपरीतधर्मत्वस्य रजतादिरूपत्वस्य, भावान्तरत्वेन शून्यत्वेन वा सत्ताहीनस्य, कल्पनां भासमानतामध्यासं भावान्तराभाववादिनः शून्यवादिनश्चाचक्षते । तथा च तत्रापि परत्र परावभासे संवादोऽस्तीत्यर्थः ।

मतान्तराण्युपन्यस्य स्वमतानुसारित्वं तेषां निगमयति —

सर्वथेति ।

सर्वेषु पक्षेषु प्रकारविशेषविवादेऽपि पुरोवर्तिनो रजतादित्वेनैव वेद्यतामध्यासो न व्यभिचरतीति युक्तमुक्तलक्षणस्याध्यास्य सर्वतन्त्रसिद्धान्तत्वम् । न च तस्य सत्त्वं, बाध्यत्वात् , अन्यत्र रजतादिसत्त्वस्यामानत्वात् । न च तदसत्त्वं, अपरोक्षत्वात् । नापि विरोधादेकस्य सदसत्त्वं, अतोऽनिर्वाच्यतेति भावः ।

न केवलं वादिनामेवायमध्यासः संमतोऽपि तु लौकिकानामपीत्याह —

तथा चेति ।

अनुपहितेदमंशे रजतादिसंस्कारसहिताविद्यया रजताद्यध्यासवत् , पू्र्वपूर्वाहङ्कारादिवासितानाद्यविद्यया चिदात्मन्यनुपहिते भवत्यहङ्काराद्यध्यास इति निरुपुाधिकाहङ्काराद्यध्यासे दृष्टान्तमाह —

शुक्तिकेति ।

सम्यग्धीसिद्धाधिष्ठानरूपाभिप्रायेण शुक्तिकाग्रहणं, सम्प्रयुक्तस्य मिथ्यारजतत्वभानधिया वत्करणम् । अनुभवप्रसिद्ध्यर्थो हिशब्दः । बिम्बप्रतिबिम्बयोः प्रतिबिम्बानां च मिथो भेदधीवज्जीवब्रह्मणोर्जीवानां च भेदधियः ।

सोपाधिकभ्रमस्य दृष्टान्तमाह —

एक इति ।

एकत्वग्रहो वद्ग्रहश्च पूर्ववत् । लक्षणप्रकरणमुपसंहर्तुमितिशब्दः ।