ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
जन्माद्यस्य यतः ॥ २ ॥
जन्म उत्पत्तिः आदिः अस्यइति तद्गुणसंविज्ञानो बहुव्रीहिःजन्मस्थितिभङ्गं समासार्थःजन्मनश्चादित्वं श्रुतिनिर्देशापेक्षं वस्तुवृत्तापेक्षं श्रुतिनिर्देशस्तावत्यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) इति, अस्मिन्वाक्ये जन्मस्थितिप्रलयानां क्रमदर्शनात्वस्तुवृत्तमपिजन्मना लब्धसत्ताकस्य धर्मिणः स्थितिप्रलयसम्भवात्अस्येति प्रत्यक्षादिसन्निधापितस्य धर्मिण इदमा निर्देशःषष्ठी जन्मादिधर्मसम्बन्धार्थायत इति कारणनिर्देशःअस्य जगतो नामरूपाभ्यां व्याकृतस्य अनेककर्तृभोक्तृसंयुक्तस्य प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयस्य मनसाप्यचिन्त्यरचनारूपस्य जन्मस्थितिभङ्गं यतः सर्वज्ञात्सर्वशक्तेः कारणाद्भवति, तद्ब्रह्मेति वाक्यशेषःअन्येषामपि भावविकाराणां त्रिष्वेवान्तर्भाव इति जन्मस्थितिनाशानामिह ग्रहणम्यास्कपरिपठितानां तुजायतेऽस्तिइत्यादीनां ग्रहणे तेषां जगतः स्थितिकाले सम्भाव्यमानत्वान्मूलकारणादुत्पत्तिस्थितिनाशा जगतो गृहीताः स्युरित्याशङ्क्येततन्मा शङ्कि; इति या उत्पत्तिर्ब्रह्मणः, तत्रैव स्थितिः प्रलयश्च, एव गृह्यन्ते यथोक्तविशेषणस्य जगतो यथोक्तविशेषणमीश्वरं मुक्त्वा, अन्यतः प्रधानादचेतनात् अणुभ्यः अभावात् संसारिणो वा उत्पत्त्यादि सम्भावयितुं शक्यम् स्वभावतः, विशिष्टदेशकालनिमित्तानामिहोपादानात्एतदेवानुमानं संसारिव्यतिरिक्तेश्वरास्तित्वादिसाधनं मन्यन्ते ईश्वरकारणवादिनः

'यतो वा इमानि’ इत्यादिवाक्यं ब्रह्म न लक्षयति, लक्षयति वेत्येकस्योभयहेतुत्वासम्भवसम्भवाभ्यां सन्देहे, श्रुतेरनुमानानुगुण्यादेकस्योभयहेतुत्वे दृष्टान्ताभावेनाशक्यानुमानत्वात् , एकतरहेतुत्वस्य लक्षणत्वे वस्तुपरिच्छेदात् , लक्ष्यस्याब्रह्मत्वान्न लक्षयतीति प्राप्ते, पुरुषमतिप्रभवत्वेनानुमानस्य सम्भावितदोषस्य अपौरुषेयत्वेनापास्तदोषागमानुग्राहकतर्कत्वात् , अतीन्द्रयेऽर्थे स्वतोऽप्रामाण्यात् , आगमिकोभयहेतुत्वे सुखादिदृष्टान्तेन सम्भावनामात्रहेतुत्वात् , वस्तुतोऽपरिच्छेदाल्लक्ष्यस्य ब्रह्मत्वसिद्धेर्जगन्निमित्तोपादानं सच्चिदानन्दं ब्रह्मेति लक्षयतीति सिद्धान्तमाह —

जन्मादीति ।

पूर्वाधिकरणेनास्योत्थाप्योत्थापकत्वं सङ्गतिरुक्ता । अधीतिविध्युपादापितोपनिषद्वाक्यस्य स्पष्टब्रह्मलिङ्गस्य लक्षणद्वयवति ब्रह्मणि समन्वयोक्तेः श्रुतिशास्त्राध्यायपादसङ्गतयः । पूर्वाधिकरणस्य ब्रह्मलक्षणपरीक्षणात्तत्फलमेव पूर्वोत्तरपक्षयोरत्र फलम् ।

पदच्छेदः, पदार्थोक्तिः, पदविग्रह इति त्रयं व्याख्याङ्गं दर्शयति —

जन्मेति ।

जन्मस्थितिभङ्गं षष्ठ्योच्यते । तद्गुणसंविज्ञान इत्यत्र, तदा बहुव्रीह्यर्थो गृह्यते तस्य गुणत्वेन संविज्ञानं यत्र समासे स तथा । सर्वस्य विशेषणत्वे समासायोगात्तदर्थैकदेशस्तथा । तेन विशेष्यैकदेशं विशेषणं कृत्वा समास इत्यर्थः ।

तत्र फलमाह —

जन्मस्थितीति ।

जन्मादिरस्य स्थित्यादेरित्यतद्गुणसंविज्ञाने स्थितिभङ्गमात्रं जन्मादिशब्दार्थः स्यात् । ततश्चोभयकारणत्वलाभान्नोपलक्षणत्वं सिध्येत् । न च स्थितिलयमात्रहेतुत्वं तथा, जन्महेतोरन्यत्वे लक्ष्यस्य परिच्छेदादब्रह्मत्वात् । अतो जन्मनोऽपि विशेष्यान्तर्भावाद्धर्मजातस्य संहतिप्रधानस्य हेतुर्ब्रह्मेत्युपलक्षणसिद्धिरित्यर्थः । तादृग्धर्मजातं गृहीत्वा नपुंसकप्रयोगः ।

नन्वनादौ संसारे कथमादित्वं जन्मनो गृह्यते तत्राह —

जन्मनश्चेति ।

एतत्सूत्रलक्षितश्रुतौ जन्मादावुच्यते तदपेक्षं सूत्रेऽपि तस्यादित्वमित्यर्थः ।

श्रुत्यापि कथमुक्तमित्याशङ्क्याह —

वस्त्विति ।

वस्तुनो वृत्तं जनित्वा, स्थित्वा, लीयत इति स्वभावः, जन्मना लब्धात्मकस्य स्थित्यादियोगात् । अतो नानादेः संसारस्यादिर्जन्म किन्तु प्रतिवस्तु तस्यादित्वमिति, तदपेक्षं श्रुतिसूत्रयोस्तदादित्वमित्यर्थः ।

श्रुतिनिर्देशं विशदयति —

श्रुतीति ।

अनुकूलो जन्मादित्वस्येति शेषः । तत्र हेतुर्यत इति ।

वस्तुवृत्तं विभजते —

वस्त्विति ।

जन्मादित्वस्यानुगुणं वस्तुवृत्तमिति विवक्षित्वा हेतुमाह —

जन्मनेति ।

इदमः संनिहितवाचित्वात्प्रत्यक्षमात्रपरामर्शित्वमाशङ्क्य प्रतीतिमात्रं संनिधिरिति गृहीत्वा प्रातिपदिकार्थमाह —

अस्येति ।

सर्वस्य जगतो न जन्मास्ति, विजयादेरनादित्वात् , इत्याशङ्क्य वियदधिकरणन्यायेन विभक्त्यर्थमाह —

षष्ठीति ।

जगतो जन्मादेर्वा ब्रह्मासम्बन्धान्न लक्षणतेत्याशङ्क्याह —

यत इति ।

न जगज्जन्मादि वा ब्रह्मलक्षणं किन्तु तत्कारणत्वं तच्चाज्ञाते ब्रह्मणि सम्भावितमित्यर्थः ।

सूत्रपदान्येवं व्याख्याय पूर्वसूत्राद्ब्रह्मपदानुषङ्गेण तच्छब्दाध्याहारेण च वाक्यार्थमाह —

अस्येत्यादिना ।

प्रधानादिहेतुत्वनिरासेन ब्रह्महेतुत्वं सम्भावयितुं कार्यप्रपञ्चं श्रुतिसिद्धं द्वैराश्येन विशिनष्टि —

नामेति ।

तृतीयेत्थम्भावे । घटादौ स्वनामरूपगर्भविकल्पपूर्वकव्याक्रियादृष्टेः जगतोऽपि तथात्वानुमानादचेनाभावकर्तृकत्वमयुक्तम् । विमतं चेतनभावकर्तृकं, नामरूपात्मकत्वात् , घटादिवदित्यर्थः ।

तर्हि चेताना भावाश्च जीवभेदा नामरूपे बुद्धावालिख्य जगज्जनयिष्यन्ति किं ब्रह्मणेत्यशङ्क्याह —

अनेकेति ।

न चान्यतरस्यार्थिकत्वादुभयग्रहणानर्थक्यं, ऋत्विगादीनां कर्तृत्वेऽप्यभोक्तृत्वात् , पित्रादीनां च श्राद्धादौ भोक्तृत्वेऽप्यकर्तृत्वात् । तथा च जीवानामपि स्रष्टव्यकोटिनिवेशाज्जगत्कर्तृत्वायोग्यतेत्यर्थः ।

सेवादिफलवद्व्यवहितफलत्वात् , कर्मफलस्येश्वरप्रदातृकत्वानुमानात् , तदात्मकं जगदीश्वरकर्तृकमित्याह —

प्रतिनियतेति ।

प्रतिनियतानि देशकालनिमित्तानि येषां क्रियाफलानां तदाश्रयो जगत्तस्येति विग्रहः । प्रतिनियतो देशः, स्वर्गफलस्य मेरुपृष्ठम् । ग्रामादेर्भूमण्डलम् । कालोऽपि स्वर्गस्य प्रतिनियतो देहपातादूर्ध्वं, पुत्रफलस्य बाल्यादूर्ध्वम् । निमित्तमपि प्रतिनियतमुत्तरायणमरणादि स्वर्गादेः । ग्रामादेस्तु राजप्रसादादि । न चेदमीदृशं जगदसर्वज्ञो निर्मातुमर्हतीत्यर्थः ।

विचित्रकार्यत्वाच्च जगतो विशिष्टबुद्धिमत्कर्तृकत्वं प्रासादादिवदनुमेयमित्याह —

मनसेति ।

एतेन कर्तुः सर्वशक्तित्वं सम्भावितम् ।

कल्पितकारणत्वेन सजातीयप्रधानादेर्विजातीयाच्च कार्याद्ब्रह्मव्यवच्छेदकतया जगद्धेतुत्वे तटस्थलक्षणे स्थिते ब्रह्मणः स्वरूपलक्षणं विवक्षन्विशिनष्टि —

सर्वज्ञादिति ।

अद्वितीयत्वं, सत्यचिदात्मत्वं, स्वतन्त्रतया निरतिशयसुखत्वं, विशेषणाभ्यां विवक्षितम् ।

नन्वन्येऽपि परिणामादयो विकारा जन्मादीत्यादिग्रहणेन किं न गृह्यन्ते तत्राह —

अन्येषामिति ।

अजातस्यास्थितस्यानष्टस्य च परिणामाद्ययोगात् , तेषां तदधीनत्वात्तद्ग्रहणेनैव ग्रहात् , जन्मस्थितिनाशानामेवात्रोपादानमित्यर्थः ।

ननु निरुक्तकारस्य ‘जायते, अस्ति, वर्धते, विपरिणमते अपक्षीयते, विनश्यति ‘ इति सूत्रं मूलीकृत्य जन्मादिशब्देन षण्णामपि विकाराणां ग्रहणे नान्तर्भावोक्तिक्लेशस्तत्राह —

यास्केति ।

जन्मादिसूत्रस्य नैरुक्तोक्तिमूलतयानेन तदुक्तविकारग्रहे तद्वाक्यस्य पौरुषेयत्वान्मूलमानापेक्षत्वात् , आगमस्य तन्मूलत्वे सूत्रस्यैव तत्सिद्धौ नैरुक्तोक्तिमूलतानर्थक्यादध्यक्षं तदुक्तिमूलं वाच्यं तच्च महाभूतसर्गादूर्ध्वं सम्भावितं भैतिकविकारगोचरं, ततो यथोक्ताध्यक्षाधीननैरुक्तोक्तिमूलत्वे सूत्रस्य जन्मादिषट्कं जगतो यतः तद्ब्रह्मेत्युक्ते भूतपञ्चकस्य भौतिकविकारहेतुत्वात्तदेव ब्रह्मेति लक्ष्येत । न भूतपञ्चकस्य जन्मादयो मूलकारणाद्ब्रह्मणो गृह्येरन् , एतत्सूत्रमूलभूतनैरुक्तसूत्रस्य तदगोचरत्वात् । तस्मान्मूलकारणं ब्रह्म न लक्षितमित्याशङ्कां निरसितुुं ब्रह्मणः सकाशादुत्पत्तिर्या जगतः श्रुता, यौ च तस्मिन्नेव तस्य स्थितिलयौ श्रृतौ ते जन्मादिशब्देन गृह्यन्ते, तेन तद्विषये ‘यतो वा ‘ इत्यादिवाक्ये बुद्धिस्थे जगज्जन्मादिकारणं ब्रह्म लक्षितं भवतीत्यर्थः । न चैवमपि जन्मैव सूत्र्यतां तन्नान्तरीयकतया स्थितिभङ्गं सेत्स्यतीति युक्तं, जन्ममात्रस्य निमित्तादपि सम्भवात् , त्रिभिरस्योपादानतासूचनादन्यत्र स्थितिलयायोगात् । न च लयाधारत्वादेवोपादानत्वे जन्मस्थितिवचनानर्थक्यं, प्रकृतिविकाराभेदेनाद्वैतसिद्धये त्रयाणामादेयत्वात् । अन्यथा ब्रह्मणो जगदुपादानत्वे तदुत्पत्तिस्थित्योरन्योऽधिष्ठाता, कुम्भोद्भवे कुम्भकारवत् , राजस्थेम्नि राजवच्चेत्याशङ्क्येत तन्मा शङ्कीति त्रयाणां ग्रहणमिति भावः ।

युक्तिं विना लक्षणस्यातिव्याप्त्यसमाधेरर्थादनेन सापि सूत्रितेति तामुपन्यस्यति —

नेत्यादिना ।

नामरूपाभ्यामित्यादिनोक्तविशेषणचतुष्टयविशिष्टस्येत्याह —

यथोक्तेति ।

सर्वज्ञं सर्वशक्तिसमन्वितमित्युक्तं स्मारयति —

यथोक्तविशेषणमिति ।

उक्तस्य जगतो नोक्तमीश्वरं मुक्त्वान्यस्मादुत्पत्त्यादि सम्भावयितुं शक्यमिति सम्बन्धः ।

ननु सर्वे विकाराः सुखदुःखमोहसामान्यप्रकृतिकाः, तदन्वितस्वभावात्वात् । ये यदन्वितस्वभावास्ते तत्प्रकृतिकाः यथा मृदन्वितस्वभावाः शरावादयो मृत्प्रकृतिका इत्यनुमानात् , प्रधानाज्जगज्जन्मादि स्यादित्याशङ्क्याह —

न प्रधानादिति ।

तद्ध्यचेतनं जगदनभिज्ञं न तस्योत्पत्त्यादि कर्तुमीष्टे । अन्तर्बहिर्भावेन सुखादीनां पटादीनां चाध्यक्षेण भेदग्रहात् एकार्थज्ञाने चैकस्यैव ज्ञातुः सुखाद्यात्मत्वेन युगपत्तद्ग्रहापाताद्धेत्वसिद्धेर्न प्रधानकारणता रचनानुपपत्त्यधिकरणे चैतद्वक्ष्यतीति भावः ।

सर्वं कार्यद्रव्यं, स्वपरिमाणादणुतरपरिमाणसंयोगसचिवसमानजातीयानेकद्रव्यारब्धं, कार्यद्रव्यत्वात् , घटवदित्यनुमानात् , अणुभ्यो जगज्जन्मादि सम्भावितमित्याशङ्क्याह —

नाणुभ्य इति ।

दीर्घविस्तीर्णदुकूलारब्धरज्जुद्रव्यस्य ह्रस्वस्यापि कार्यद्रव्यत्वेनानैकान्त्यात् , वैशेषिकाधिकरणे चाणुकारणतानिराकरणात् , न तेभ्यो जगज्जन्मादीत्यर्थः ।

शून्यवादिनस्तु सर्वं कार्यम् , अभावपूर्वकं योग्यत्वे सत्यदृष्टपूर्वावस्थत्वात् , परकीयात्मवदिति व्यतिरेकिणा शून्यस्य जगद्धेतुतामाहुस्तान्प्रत्याह —

नाभावादिति ।

घटस्य पूर्वावस्था मृदध्यक्षेति हेत्वसिद्धेर्न शून्यस्य जगद्धेतुतेत्यर्थः ।

केचित्तु हिरण्यगर्भं संसारिणमेव आगमाज्जगद्धेतुमाचक्षते तान्प्रत्युक्तम् —

न संसारिणो वेति ।

आगमस्य वेदविरुद्धत्वे प्रामाण्यायोगान्नासौ जगद्धेतुरित्यर्थः ।

स्वभाववादं व्युदस्यति —

न चेति ।

उत्पत्त्यादि जगतः सम्भावयितुं न शक्यमिति सम्बन्धः । स्वभावादुत्पद्यत इति स्वयमेव स्वस्य निमित्तमिति वा निमित्तानपेक्षमिति वा विवक्षितम् । नाद्यः, स्वाश्रयत्वात् । न द्वितीयः, भावाभावयोरनिमित्तत्वे यौगपद्यापातात् । स्वतःसिद्धसामर्थ्यानां चार्थानां अन्योन्योपकार्योपकारकत्वस्याध्यक्षत्वादित्यर्थः ।

उक्तलक्षणव्यतिरेक्यनुमानादेवोक्तयुक्तिसहिताद्ब्रह्मणोऽस्तित्वादिसिद्धेः, शास्त्रयोनित्वाद्यधिकरणवैयर्थ्यमित्यशङ्क्याह —

एतदेवेति ।

युक्तिमदुक्तलक्षणमेव स्वतन्त्रमनुमानं सद्विशिष्टेश्वरनिश्चायकमिति यद्वैशेषिकादिमतं तदयुक्तम् । लक्षणं हि युक्तिमदपि सिद्धस्य ब्रह्मणः सजातीयादिव्यावर्तकं न तु तदीदृशमिति तत्स्वरूपनिश्चायकम् । कार्यलिङ्गकानुमानं च कारणसत्तामात्रे पर्यवस्यत्तदेकत्वादौ तटस्थम् । न च तदैक्यासिद्धौ तदीयं सर्वज्ञत्वादि ज्ञातुं शक्यम् । सोऽयं जगद्धेतौ नानात्वैकत्वस्पर्शी संशयो लाघवादुत्कटैककोटितां नीतो मूलकारणे विशिष्टे ब्रह्मणि सम्भावनेत्युच्यते । सम्भाविते तस्मिन्प्रमाणावकाशात् , उत्तराधिकरणार्थवत्तेति भावः ।