ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
स्वाप्ययात् ॥ ९ ॥
तदेव सच्छब्दवाच्यं कारणं प्रकृत्य श्रूयतेयत्रैतत्पुरुषः स्वपिति नाम, सता सोम्य तदा सम्पन्नो भवति; स्वमपीतो भवति; तस्मादेनं स्वपितीत्याचक्षते; स्वं ह्यपीतो भवति’ (छा. उ. ६ । ८ । १) इतिएषा श्रुतिः स्वपितीत्येतत्पुरुषस्य लोकप्रसिद्धं नाम निर्वक्तिस्वशब्देनेहात्मोच्यतेयः प्रकृतः सच्छब्दवाच्यस्तमपीतो भवत्यपिगतो भवतीत्यर्थःअपिपूर्वस्यैतेर्लयार्थत्वं प्रसिद्धम् , प्रभवाप्ययावित्युत्पत्तिप्रलययोः प्रयोगदर्शनात्मनःप्रचारोपाधिविशेषसम्बन्धादिन्द्रियार्थान्गृह्णंस्तद्विशेषापन्नो जीवो जागर्तितद्वासनाविशिष्टः स्वप्नान्पश्यन्मनःशब्दवाच्यो भवति उपाधिद्वयोपरमे सुषुप्तावस्थायामुपाधिकृतविशेषाभावात्स्वात्मनि प्रलीन इवेति स्वं ह्यपीतो भवति’ (छा. उ. ६ । ८ । १) इत्युच्यतेयथा हृदयशब्दनिर्वचनं श्रुत्या दर्शितम् वा एष आत्मा हृदि, तस्यैतदेव निरुक्तम्हृद्ययमिति; तस्माद्धृदयमिति’ (छा. उ. ८ । ३ । ३); यथा वाशनायोदन्याशब्दप्रवृत्तिमूलं दर्शयति श्रुतिःआप एव तदशितं नयन्ते’ (छा. उ. ६ । ८ । ३) तेज एव तत्पीतं नयते’ (छा. उ. ६ । ८ । ५) इति एवं स्वमात्मानं सच्छब्दवाच्यमपीतो भवति इतीममर्थं स्वपितिनामनिर्वचनेन दर्शयति चेतन आत्मा अचेतनं प्रधानं स्वरूपत्वेन प्रतिपद्येतयदि पुनः प्रधानमेवात्मीयत्वात्स्वशब्देनैवोच्येत, एवमपि चेतनोऽचेतनमप्येतीति विरुद्धमापद्येतश्रुत्यन्तरं प्राज्ञेनात्मना सम्परिष्वक्तो बाह्यं किञ्चन वेद नान्तरम्’ (बृ. उ. ४ । ३ । २१) इति सुषुप्तावस्थायां चेतने अप्ययं दर्शयतिअतो यस्मिन्नप्ययः सर्वेषां चेतनानां तच्चेतनं सच्छब्दवाच्यं जगतः कारणम्, प्रधानम् ॥ ९ ॥

प्रधानं न सच्छब्दवाच्यमित्यत्र चित्प्रतिबिम्बानां चिदात्मनि बिम्बे लयादिति व्यधिकरणो हेतुरित्याशङ्क्य प्रकरणानुसन्न्धानपूर्वकं सूत्रं व्याचष्टे —

तदेवेति ।

यत्र सुप्तौ पुंसः स्वपितीत्येतन्नाम भवति तदा पुरुषः सता सम्पन्नस्तेनैकीभूत इति योजना ।

प्रकरणेनैक्यप्रमितेः सच्छब्दलक्ष्यस्यैव चिद्बिम्बत्वान्न व्यधिकरणतेति सतश्चित्त्वं सूचयति —

स्वमिति ।

तत्र लौकिकप्रसिद्धिमाह —

तस्मादिति ।

तच्छब्दार्थं स्फुटयति —

स्वं हीति ।

उक्तश्रुतेस्तात्पर्यमाह —

एषेति ।

नामनिरुक्तिश्रुत्यक्षराणि व्याचष्टे —

स्वशब्देनेति ।

कथं भिन्नविषया गतिरात्मानमेव विषयीकुर्यादित्याशङ्क्योपसर्गाल्लयधीरित्याह —

अपिपूर्वस्येति ।

प्रसिद्धिमेव प्रकटयति —

प्रभवेति ।

एतेर्धातोर्गत्यर्थस्यापूर्वस्य लयार्थत्वेऽपि कथमनाद्यनन्तस्य लयः स्यादित्याशङ्क्य तदीयलयस्यौपाधिकत्वं वक्तुं जागरितमनुवदति —

मन इति ।

बुद्धिपरिणामा एवोपाधयस्तैरस्यार्थविशेषयोगाच्चक्षुरादीन्द्रियैस्तानेव स्थूलानर्थान्पश्यञ्जीवस्तद्विशेषेण स्थूलदेहेनैक्यारोपमापन्नो जागर्तीति व्यवह्रियत इत्यर्थः ।

स्वप्नमुपन्यस्यति —

तद्वासनेति ।

जाग्रद्वासनाभिर्विचित्राभिर्विशिष्टो मनोमात्रोपाधिर्जीवः स्वप्नानुच्चावचान्वासनामात्रदेहाननुभवन् ‘एवमेव खलु सोम्यैतन्मनः’ इति मनःशब्दवाच्य इति मनोद्वारा लक्ष्यो भवतीत्यर्थः ।

तथापि कुतोऽस्य लयोक्तिरित्याशङ्क्याह —

स इति ।

स्थूलं सूक्ष्मं चोपाधिद्वयं, तत्कृतो विशेषो गन्तृत्वद्रष्टृत्वादिः ।

स्वपितिनामनिरुक्तेरर्थवादत्वान्न श्रुतार्थतेत्याशङ्क्य तद्याथार्थ्यार्थं दृष्टान्तद्वयमाह —

यथेत्यादिना ।

तस्य हृदयशब्दस्यैतदेव निरुक्तं निर्वचनम् । ‘अशनापिपासे मे सोम्य विजानीहि’ इत्युपक्रम्याशितस्यान्नस्य द्रवीकरणेन नयनाज्जरणादापोऽशनायाः । छान्दसमेकवचनम् । एवमशनायाशब्दस्याप्सु प्रवृत्तौ मूलं दर्शयति - ‘आप एव तदशितं नयन्ते’ इति श्रुतिः । द्रावकोदकपाननयनात्तस्य शोषणादुदन्यं तेजः । आकारश्छान्दसः । एवमुदन्यशब्दस्य तेजसि प्रवृत्तौ निमित्तं ‘तेज एव तत्पीतं नयते’ इति श्रुतिर्दर्शयतीति योजना ।

दृष्टान्तयोरर्थं दार्ष्टान्तिके योजयति —

एवमिति ।

प्रधानस्य व्यापित्वादव्यापिजीवलयस्थानत्वयोगादुक्तहेतोरन्यथासिद्धिमाशङ्क्य चितोऽचित्त्वापत्तिरयुक्तेत्याह —

नचेति ।

स्वशब्दस्यात्मीयेऽपि शक्तत्वात्प्रधाने प्रवृत्तेरन्यथासिद्धितादवस्थ्यमाशङ्क्योक्तं स्फोरयति —

यदीति ।

स्वशब्दस्यात्मा मुख्योऽर्थस्तत्सम्बन्धादात्मीयो लक्ष्य इति तद्ग्रहस्यानौचित्यमेवमपीत्युक्तम् । मृदात्मनो घटस्य मृद्येव लयादात्मीये जलादावदृष्टेरित्यर्थः ।

स्वपितिनामनिरुक्तिश्रुत्यनुग्राहकत्वेन बृहदारण्यकश्रुतिं पठति —

श्रुत्यन्तरं चेति ।

तस्य तात्पर्यमाह —

सुषुप्तेति ।

हेतोरन्यथासिद्ध्यभावे फलितमाह —

अत इति ॥ ९ ॥