वृत्तिकृतामुदाहरणमाह —
अत्रेति ।
सर्वत्र सन्दिग्धं वाक्यमुदाहृत्य निर्णीयते, इदं त्वसन्देहान्नैवमिति दूषयति —
तदिति ।
शब्दभेदं विवृणोति —
यथेति ।
प्राणस्य पञ्चधा वृत्तिहेतुस्तत्साक्षी तस्य प्राण इत्युच्यते ।
राहोः शिर इतिवद्व्यपदेशमाशङ्क्य घटो घटस्येत्यदृष्टेर्नैवमित्याह —
नहीति ।
प्रकरणं प्रपञ्चयति —
यस्येति ।
तदेव दृष्टान्तेन स्पष्टयति —
यथेति ।
प्राणः परमात्मा बन्धमाश्रयः स्वरूपं यस्येति विग्रहः ।
वाक्ययोर्निश्चितार्थत्वे फलितमाह —
अत इति ।
त्वदुदाहरणेऽपि वाक्यशेषविरोधात्तुल्यमसन्दिग्धत्वमित्याशङ्क्याह —
प्रस्तावेति ॥ २३ ॥