पूर्वपक्षबीजं दूषयति —
स्थानादीति ।
स्थानान्यादयो येषां नामरूपाणां तेषां व्यपदेसान्न परस्याक्षिस्थानत्वानुपपत्तिरिति योजना ।
यादसामम्भोधिरिव स्थानिनः स्थानं महद्दृष्टमिति शङ्कते —
कथमिति ।
व्योम्नः सूचीपाशादिवदक्ष्यादिस्थानत्वं महतोऽपि परस्य स्यादित्याह —
अत्रेति ।
एवंजातीयकशब्देन गुणजातं गृहीतम् ।
निर्गुणस्य गुणसम्बन्धोक्तिरप्ययुक्ता, तत्कथमनेकदुर्धटप्रकटनमेव समादिरित्याशङ्क्याह —
निर्गुणमिति ।
चकारार्थमाह —
सर्वेति ॥ १४ ॥