मतान्तरमाह —
अनुस्मृतेरिति ।
व्याचष्टे —
प्रादेशेति ।
पूर्वेण विकल्पार्थो वाशब्दः ।
अभिव्यञ्जकस्थं परिमाणमभिव्यङ्ग्ये भातीत्येतद्दृष्टान्तेनाह —
यथेति ।
वैषम्यमाशङ्क्य प्रत्याह —
यद्यपीति ।
हृदयस्थं परिमाणं मनःप्रभवस्मृतावारोपितं स्मृत्यैक्येनाध्यस्तस्मर्यमाणेश्वरेऽध्यस्तमालम्बनमिति यथाकथञ्चिदित्युक्तम् ।
स्मृतिगतपरिमाणस्य हृदयद्वारारोपितस्य स्मर्यमाणो कथमारोपो विषयविषयित्वेन भेदादित्याशङ्क्य व्याख्यान्तरमाह —
प्रादेशेति ।
उपसंहरति —
एवमिति ॥ ३० ॥