ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
भेदव्यपदेशात् ॥ ५ ॥
भेदव्यपदेशश्चेह भवति — ‘तमेवैकं जानथ आत्मानम्इति ज्ञेयज्ञातृभावेनतत्र प्राणभृत् तावन्मुमुक्षुत्वाज्ज्ञातापरिशेषादात्मशब्दवाच्यं ब्रह्म ज्ञेयं द्युभ्वाद्यायतनमिति गम्यते, प्राणभृत् ॥ ५ ॥

सूत्रमुत्तरम् —

भेदेति ।

विभजते —

भेदेत्यादिना ।

इहेत्युदाहरणोक्तिः ।

तथापि ज्ञेयमायतनं प्राणभृदस्तु, नेत्याह —

तत्रेति ।

निर्धारणार्था सप्तमी ॥ ५ ॥