ओङ्कारादिनिरासेन ब्रह्मादाने हेत्वन्तरमाह —
अन्येति ।
प्रतिज्ञाभ्यां सूत्रं योजयति —
अन्यभावेति ।
हेत्वर्थं प्रश्नपूर्वकमाह —
किमित्यादिना ।
अन्यभावाद्व्यावृत्त्याक्षरस्याभावत्वं विधेयमिति भ्रमव्यावृत्त्यर्थमभिप्रेतमर्थमाह —
एतदिति ।
प्रधानमन्यदित्युक्तम् । इहेति प्रकृतोदाहरणम् ।
प्रधानस्यापि रूपादिराहित्याददृष्टत्वादियोगादुक्तश्रुतौ कुतोऽक्षरस्य ततो व्यावृत्तिः, तत्राह —
तत्रेति ।
एतेन सूत्रेणाक्षरत्वं जीवस्यापि निरस्तमित्याह —
तथेति ।
अक्षरमतःशब्दार्थः ।
इतश्च जीवस्य नाक्षरशब्दतेत्याह —
अचक्षुष्कमिति ।
उपाधिसम्बन्धनिषेधेऽपि तद्वतो निषेधाभावाद्युक्तं तस्याक्षरत्वमित्याशङ्क्याह —
नहीति ।
अनन्यथासिद्धलिङ्गसङ्गियोगवृत्त्या ज्ञेयब्रह्मपरमक्षरब्राह्मणमित्युपसंहरति —
तस्मादिति ॥ १२ ॥