जीवानुवादेन ब्रह्मताविधाने विरोधाभावात्प्राजापत्ये वाक्ये जीवस्याप्रतिपाद्यत्वान्न तदवष्टम्भेन दहरवाक्ये जीवाशङ्केत्युक्तम् । इदानीं दहरवाक्यशेषस्य गतिमाह —
अन्यार्थश्चेति ।
सूत्रव्यावर्त्याशङ्कामाह —
अथेति ।
वाक्यभेदप्रसङ्गं हेतूकृत्योक्तम् —
न जीवेति ।
प्रकृतो विशेषो दहराकाशस्तस्यापि नायमुपदेशस्तस्याजीवत्वादित्याह —
नेति ।
उत्तरत्वेन सूत्रमवतार्य व्याकरोति —
अत इति ।
अन्यार्थत्वमेवाकाङ्क्षाद्वारा स्फोरयति —
किं तर्हीति ।
सम्प्रसादपदे जीववादिनि श्रुते नेश्वरपरत्वं वाक्यस्येत्याक्षिपति —
कथमिति ।
व्याख्यया वाक्यस्य परस्मिन्नेव तात्पर्यमाह —
सम्प्रसादेति ।
तादात्म्यविषयत्वं सम्बन्धविषयत्वं चोभयरूपत्वं देहद्वयविषयत्वं वा ।
यत्तु जीवस्य नापहतपाप्मत्वादिति, तत्राह —
यदीति ।
जीवपरामर्शस्य गतिमुक्त्वा दहरश्रुतेः शङ्काद्वारा गतिमाह —
अल्पेति ॥ २० ॥