शङ्काभागं विभजते —
यदपीति ।
तस्य परममहत्त्वादित्यर्थः ।
जीवेऽपि कथमल्पा श्रुतिर्महत्त्वाविशेषात् , तत्राह —
जीवस्येति ।
तदुक्तमित्येतद्व्याचष्टे —
उक्तो हीति ।
तमेव स्मारयति —
परमेति ।
कुत्रेदं समाधानमुक्तं, तत्राह —
अर्भकेति ।
तथापि परस्य परममहतो नास्ति दहरत्वमित्यत्र किमायातं, तत्राह —
स एवेति ।
तदुक्तमित्यस्य व्याख्यान्तरमाह —
श्रुत्येति ।
तदेवं श्रुतिलिङ्गाभ्यां दहरवाक्यं ध्येये परस्मिन्नन्वितं, प्राजापत्यवाक्यं तु ज्ञेये परस्मिन्नन्वितमिति स्थितम् ॥ २१ ॥