ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ॥ ३० ॥
अथापि स्यात् — यदि पश्वादिव्यक्तिवद्देवादिव्यक्तयोऽपि सन्तत्यैवोत्पद्येरन् निरुध्येरंश्च, ततोऽभिधानाभिधेयाभिधातृव्यवहाराविच्छेदात्सम्बन्धनित्यत्वेन विरोधः शब्दे परिह्रियेत । यदा तु खलु सकलं त्रैलोक्यं परित्यक्तनामरूपं निर्लेपं प्रलीयते, प्रभवति चाभिनवमिति श्रुतिस्मृतिवादा वदन्ति, तदा कथमविरोध इति । तत्रेदमभिधीयते समाननामरूपत्वादिति । तदापि संसारस्यानादित्वं तावदभ्युपगन्तव्यम् । प्रतिपादयिष्यति चाचार्यः संसारस्यानादित्वम् — ‘उपपद्यते चाप्युपलभ्यते च’ (ब्र. सू. २ । १ । ३६) इति । अनादौ च संसारे यथा स्वापप्रबोधयोः प्रलयप्रभवश्रवणेऽपि पूर्वप्रबोधवदुत्तरप्रबोधेऽपि व्यवहारान्न कश्चिद्विरोधः, एवं कल्पान्तरप्रभवप्रलययोरपीति द्रष्टव्यम् । स्वापप्रबोधयोश्च प्रलयप्रभवौ श्रूयेते — ‘यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक्सर्वैर्नामभिः सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः शब्दैः सहाप्येति मनः सर्वैर्ध्यानैः सहाप्येति स यदा प्रतिबुध्यते यथाग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः’ (कौ. उ. ३ । ३) इति । स्यादेतत् — स्वापे पुरुषान्तरव्यवहाराविच्छेदात्स्वयं च सुप्तप्रबुद्धस्य पूर्वप्रबोधव्यवहारानुसन्धानसम्भवादविरुद्धम् । महाप्रलये तु सर्वव्यवहारोच्छेदाज्जन्मान्तरव्यवहारवच्च कल्पान्तरव्यवहारस्यानुसन्धातुमशक्यत्वाद्वैषम्यमिति । नैष दोषः, सत्यपि सर्वव्यवहारोच्छेदिनि महाप्रलये परमेश्वरानुग्रहादीश्वराणां हिरण्यगर्भादीनां कल्पान्तरव्यवहारानुसन्धानोपपत्तेः । यद्यपि प्राकृताः प्राणिनो न जन्मान्तरव्यवहारमनुसन्दधाना दृश्यन्त इति, तथापि न प्राकृतवदीश्वराणां भवितव्यम् । यथा हि प्राणित्वाविशेषेऽपि मनुष्यादिस्तम्बपर्यन्तेषु ज्ञानैश्वर्यादिप्रतिबन्धः परेण परेण भूयान् भवन् दृश्यते । तथा मनुष्यादिष्वेव हिरण्यगर्भपर्यन्तेषु ज्ञानैश्वर्याद्यभिव्यक्तिरपि परेण परेण भूयसी भवतीत्येतच्छ्रुतिस्मृतिवादेष्वसकृदनुश्रूयमाणं न शक्यं नास्तीति वदितुम् । ततश्चातीतकल्पानुष्ठितप्रकृष्टज्ञानकर्मणामीश्वराणां हिरण्यगर्भादीनां वर्तमानकल्पादौ प्रादुर्भवतां परमेश्वरानुगृहीतानां सुप्तप्रतिबुद्धवत्कल्पान्तरव्यवहारानुसन्धानोपपत्तिः । तथा च श्रुतिः — ‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै । तꣳ ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये’ (श्वे. उ. ६ । १८) इति । स्मरन्ति च शौनकादयः — ‘मधुच्छन्दःप्रभृतिभिऋषिभिर्दाशतय्यो दृष्टाः’(शौ॰ऋ॰अनु॰ ४) इति । प्रतिवेदं चैवमेव काण्डर्ष्यादयः स्मर्यन्ते । श्रुतिरपि ऋषिज्ञानपूर्वकमेव मन्त्रेणानुष्ठानं दर्शयति — ‘यो ह वा अविदितार्षेयच्छन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वाध्यापयति वा स्थाणुं वर्च्छति गर्तं वा प्रतिपद्यते’ इत्युपक्रम्य ‘तस्मादेतानि मन्त्रे मन्त्रे विद्यात्’(सा॰आ॰ब्रा॰ १-१-६) इति । प्राणिनां च सुखप्राप्तये धर्मो विधीयते । दुःखपरिहाराय चाधर्मः प्रतिषिध्यते । दृष्टानुश्रविकसुखदुःखविषयौ च रागद्वेषौ भवतः, न विलक्षणविषयौ — इत्यतो धर्माधर्मफलभूतोत्तरा सृष्टिर्निष्पद्यमाना पूर्वसृष्टिसदृश्येव निष्पद्यते । स्मृतिश्च भवति — ‘तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे । तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः ॥’, ‘हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते’(वि॰पु॰ १-५-६०,६१) इति । प्रलीयमानमपि चेदं जगच्छक्त्यवशेषमेव प्रलीयते । शक्तिमूलमेव च प्रभवति । इतरथा आकस्मिकत्वप्रसङ्गात् । न चानेकाकाराः शक्तयः शक्याः कल्पयितुम् । ततश्च विच्छिद्य विच्छिद्याप्युद्भवतां भूरादिलोकप्रवाहाणाम् , देवतिर्यङ्मनुष्यलक्षणानां च प्राणिनिकायप्रवाहाणाम् , वर्णाश्रमधर्मफलव्यवस्थानां चानादौ संसारे नियतत्वमिन्द्रियविषयसम्बन्धनियतत्ववत्प्रत्येतव्यम् । न हीन्द्रियविषयसम्बन्धादेर्व्यवहारस्य प्रतिसर्गमन्यथात्वं षष्ठेन्द्रियविषयकल्पं शक्यमुत्प्रेक्षितुम् । अतश्च सर्वकल्पानां तुल्यव्यवहारत्वात् कल्पान्तरव्यवहारानुसन्धानक्षमत्वाच्चेश्वराणां समाननामरूपा एव प्रतिसर्गं विशेषाः प्रादुर्भवन्ति । समाननामरूपत्वाच्चावृत्तावपि महासर्गमहाप्रलयलक्षणायां जगतोऽभ्युपगम्यमानायां न कश्चिच्छब्दप्रामाण्यादिविरोधः । समाननामरूपतां च श्रुतिस्मृती दर्शयतः — ‘सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो सुवः’ (ऋ. सं. १० । १९० । ३) इति । यथा पूर्वस्मिन्कल्पे सूर्याचन्द्रमःप्रभृति जगत् कॢप्तम् , तथास्मिन्नपि कल्पे परमेश्वरोऽकल्पयदित्यर्थः । तथा — ‘अग्निर्वा अकामयत । अन्नादो देवानाꣳ स्यामिति । स एतमग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निरवपत्’ (तै. ब्रा. ३ । १ । ४ । १) इति नक्षत्रेष्टिविधौ योऽग्निर्निरवपत् यस्मै वाग्नये निरवपत् , तयोः समाननामरूपतां दर्शयति — इत्येवंजातीयका श्रुतिरिहोदाहर्तव्या । स्मृतिरपि ‘ऋषीणां नामधेयानि याश्च वेदेषु दृष्टयः ।’, ‘शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः ॥(लि॰पु॰ ७०-२५८,२५९), ‘यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥’(वि॰पु॰ १-५-६६),‘यथाभिमानिनोऽतीतास्तुल्यास्ते साम्प्रतैरिह । देवा देवैरतीतैर्हि रूपैर्नामभिरेव च’(वा॰पु॰ ५०-६६) इत्येवंजातीयका द्रष्टव्या ॥ ३० ॥

महाप्रलये जातेरपि सत्त्वासिद्धेः शब्दार्थसम्बन्धानित्यत्वमाशङ्क्य प्रत्याह —

समानेति ।

सूत्रव्यावर्त्यामाशङ्कामाह —

अथापीति ।

अवान्तरलये शब्दार्थसम्बन्धानित्यत्वाभावेऽपीति यावत् ।

तत्र विरोधसमाधिमुक्तमङ्गीकरोति —

यदीति ।

अभिधातृशब्देनाध्यापकाध्येतारावुक्तौ । अभिधानाभिधेयव्यवहाराविच्छेदे सम्बन्धनित्यत्वमध्यापकाध्येतृपरम्पराविच्छेदे च वेदनित्यतेत्यविरोध इत्यर्थः ।

महाप्रलये तु नाविरोध इत्याह —

यदा त्विति ।

जगतो निरन्वयनाशेऽत्यन्तापूर्वस्य चोत्पत्तौ सम्बन्धनित्यत्वाद्यसिद्धिः, सम्बन्धिनोरभावे तदभावात् , अध्यापकाद्यभावे वाश्रयाभावात् , ब्रह्मणश्च केवलस्यातदाश्रयत्वात् । अतो महाप्रलये विरोधतादवस्थ्यमित्यर्थः ।

तं परिहर्तुं सूत्रं पातयति —

तत्रेति ।

तदिदं व्याकुर्वन्ननादित्वं संसारस्य प्रतिजानीते —

तदापीति ।

महाप्रलयमहासर्गाङ्गीकारेऽपीति यावत् ।

तत्र वक्ष्यमाणन्यायं हेतूकरोति —

प्रतिपादयिष्यतीति ।

तस्यानादित्वेऽपि महाप्रलयव्यवधानादस्मरणे वेदानां कुतस्तदीयो व्यवहारः, तत्राह —

अनादौ चेति ।

न कश्चिद्विरोधः, शब्दार्थसम्बन्धनित्यत्वादेरिति शेषः । स्वापे लये च प्राणमात्रावशेषानवशेषाभ्यां विशेषेऽपि कर्मविक्षेपसंस्कारसहिताविद्यावशेषतासाम्यादनयोः साम्यम् ।

कथं पुनःस्वापे प्रलयस्य प्रबोधे च प्रभवस्य श्रवणं, तदाह —

स्वापेति ।

यदेत्युपक्रमादथशब्दस्तदेत्यर्थः । प्राणः परमात्मा । सुषुप्तस्य परस्मिन्नेकीभावावस्था तदेत्युक्ता । एनं प्रकृतं प्राणं परमात्मानमन्तर्बहिरिन्द्रियाणि सविषयाणि स्वापे परमात्मनि लीनानीत्यर्थः ।

प्रबोधे तस्मादेव जगतो जन्मोदाहरति —

स इति ।

स सुषुप्तः पुरुषः । यथेत्यस्मात्प्रागुपक्रमवशात्तदेति द्रष्टव्यम् । एतस्मादात्मन इत्यत्रापादानं प्राणः परमात्मैव । सर्वे प्राणा वागादयस्तेभ्योऽनन्तरं तदनुग्राहका देवा अग्न्यादयस्तदनन्तरं लोकाः शब्दादिविषयाः । कल्पितस्याज्ञातसत्त्वाभावाद्दृष्ट्यदृष्टिभ्यामुत्पत्तिलयावुक्तौ ।

व्यावहारिकसत्त्वे त्वनास्थाश्रुतेरित्यनुसन्धानयोगायोगाभ्यां दृष्टान्तदार्ष्टान्तिकवैषम्यं शङ्कते —

स्यादिति ।

सर्वेषां यौगपद्येनास्वापात्तदा प्रबुद्धेभ्यः सुप्तानां पुनर्व्यवहाराग्रहात्कालविप्रकर्षस्य मरणस्य च वासनोच्छेदिनोऽभावात्तत्र स्मरणम् । इह तु विमतो न जन्मान्तरव्यवहारानुसन्धानार्हः, जनिमृतिव्ययहितत्वात् , अस्मदादिवदित्यनुमानान्न स्मरणम् , अतो दृष्टान्ते शब्दार्थसम्बन्धनित्यत्वाद्यविरुद्धं दार्ष्टान्तिके नैवमित्यर्थः ।

हिरण्यगर्भादीनामनुसन्धानसिद्धेर्न वैषम्यमित्याह —

नैष इति ।

तेषामस्मदादिसाम्यमाशङ्क्योक्तम् —

यद्यपीति ।

इतिशब्दो यद्यपीत्यनेन सम्बध्यते । तथापि न प्राकृतवदिति वक्तव्यम् ।

उक्तमर्थं दृष्टान्तेन साधयति —

यथेति ।

आ मानुषादा च स्थाणोर्ज्ञानादिप्रतिबन्धस्योत्तरोत्तरमुत्कर्षप्रतीतिं प्रमाणयति —

दृश्यत इति ।

आ मनुष्यादा च हिरण्यगर्भादुत्तरोत्तरज्ञानाद्याधिक्ये मानमाह —

इत्येतदिति ।

‘हिरण्यगर्भः समवर्तत’ इत्यादयः श्रुतिवादाः । ‘ज्ञानमप्रतिमं यस्य’ इत्यादयः स्मृतिवादाः ।

तेषामुक्तेऽर्थे तात्पर्यलिङ्गमभ्यासमाह —

असकृदिति ।

पूर्वकल्पीयेश्वराणां कल्पान्तरे मुक्तत्वात्कथं व्यवहितानुसन्धानं, तत्राह —

ततश्चेति ।

पुरुषविशेषाणां व्यवहितानुसन्धानयोगस्य स्थितत्वादिति यावत् ।

पुरुषविशेषानेवाह —

अतीतेति ।

ईश्वराणां तद्भावनाभाजां यजमानानामित्यर्थः । प्रादुर्भवतां हिरण्यगर्भादिभावेनेति शेषः ।

तेषां व्यवहितव्यवहारानुसन्धाने हेतुमाह —

परमेश्वरेति ।

हिरण्यगर्भस्य परानुग्रहे मानमाह —

तथा चेति ।

विपूर्वो दधातिः करोत्यर्थः । पूर्वं कल्पादौ प्रहिणोति ददाति । लटश्चोभयत्राविवक्षा । आत्माकारबुद्धौ प्रकाशत इति तथोक्तः । तत्त्वमस्यादिवाक्योत्थधीवृत्तिव्याप्यमित्येतत् । शरणं मुक्त्यालम्वनमित्यर्थः ।

न केवलमेकस्यैव प्रतिभानं येनाविश्वासः किन्तु तत्तच्छाखाद्रष्टारोऽपि बहवः सन्तीत्याह —

स्मरन्तीति ।

ऋग्वेदो दशमण्डलात्मको मण्डलानां दशतयमत्रास्तीति दाशतय्यस्तत्र भवा ऋचः ।

ऋग्वेदातिरिक्तेष्वपि वेदेषु काण्डसूक्तमन्त्रादिदृशो बौैधायनादिभिः स्मृता इत्याह —

प्रतीति ।

एवमेव मधुच्छन्दः प्रभृतिवदेवेत्यर्थः ।

किञ्चर्ष्यादिधीपूर्वमनुष्ठानं दर्शयन्ती श्रुतिस्तांस्तानृषीन्मन्त्रदृशो दर्शयतीत्याह —

श्रुतिरिति ।

तत्र तत्र प्रथममृष्यादिज्ञानं विनानुष्ठाने दोषमाह —

यो हेति ।

आर्षेयमृषिसम्बन्धं, छन्दो गायत्र्यादि, दैवतमग्न्यादि, ब्राह्मणं विनियोगो न विदितान्येतानि यस्य मन्त्रस्य तेन याजयति - यागं कारयत्यध्यापयत्यध्ययनं कारयति, स्थाणुं स्थावरं, गर्तं नरकम् । ऋष्याद्यज्ञाने दोषित्वं तच्छब्दार्थः । भूतप्रेतादीनां जन्मान्तरानुस्मरणदर्शनन्यायानुगृहीतानामृष्यादिषु स्मृत्यादिप्रमितकल्पान्तरीयवेदानुस्मरणसूचकश्रौतलिङ्गानां कल्पान्तरव्यवहारानुस्मरणसाधकत्वम् । न च कालविप्रकर्षस्य जन्मनाशयोश्च सर्वसंस्कारोच्छेदकत्वं, पूर्वाभ्यस्तस्मृत्यनुसन्धानाज्जातमात्रस्य हर्षादिदृष्टेरित्यर्थः ।

कल्पान्तरानुसन्धानेन व्यवहारप्रवर्तनयोगात्पूर्वकल्पतुल्यैवोत्तरकल्पप्रवृत्तिरित्युक्तम् । सम्प्रति सृष्टिनिमित्तादृष्टमहिम्नापि पूर्वसदृष्येवोत्तरसृष्टिरित्याह —

प्राणिनां चेति ।

कथमेतावता पूर्वसृष्टिसादृश्यमुत्तरसृष्टेरित्याशङ्क्याह —

दृष्टेति ।

अन्वयव्यतिरेकसिद्धत्वं दृष्टत्वम् । आगममात्रप्रतिपन्नत्वमानुश्रविकत्वम् । विशिष्टसंस्थानपश्वादिकामनया कृतं कर्म तादृशं पश्वादि भावयतीति दृष्टविषयरागाद्यधीनकर्मफलभूतसृष्टेः श्लिष्टं पूर्वसृष्टिसादृश्यमित्यर्थः ।

पूर्वोत्तरसृष्टिसादृश्ये मानमाह —

स्मृतिश्चेति ।

तेषां सृज्यमानानां प्राणिनामिति निर्धारणे षष्ठी । तेषां पौनःपुन्येन सृज्यमानतया सर्गस्य प्रवाहात्मनानादित्वं द्योत्यते ।

पूर्वकृतकर्मपारवश्यमुत्तरसृष्टौ किमिति प्राणिनामित्याशङ्क्याह —

हिंस्रेति ।

व्यवस्थया धर्माधर्मसंस्कृतत्वं कथं तेषामिष्टं, तत्राह —

तस्मादिति ।

सम्प्रतितनधर्मादिरुचिदृष्ट्या प्राचि भवेऽपि तत्तद्भावितत्वधीरित्यर्थः ।

यत्तु निर्लेपं प्रलीयते जगदिति, तत्राह —

प्रलीयमानमिति ।

ततश्चोपासनशक्तिनियमादपि पूर्वसदृश्येवोत्तरसृष्टिरित्यर्थः ।

कार्यस्य कारणमात्रत्वात्तन्नाशान्नोत्तरसृष्टेः सादृश्यमित्याशङ्क्याह —

शक्तीति ।

निरन्वयनाशेन नवस्योदये दोषमाह —

इतरथेति ।

शक्तिवैचित्र्याद्विचित्रसृष्टिमाशङ्क्याह —

न चेति ।

अविद्याशक्तेरेकस्यास्तत्तत्कार्ये शक्तिभेदकल्पने गौरवादात्माविद्यैव नः शक्तिरिति स्थितेरित्यर्थः ।

पूर्वोत्तरसृष्टिसादृश्ये फलितमाह —

ततश्चेति ।

विच्छिद्य महाप्रलयव्यवधानेनापीत्यर्थः । भूरादिलोकप्रवाहा भोगभूमयः । देवादिप्राणिसमूहो भोक्तृवर्गः । वर्णाश्रमादिव्यस्थास्तदीयधर्माधर्म इति भेदः ।

दृष्टान्तं स्पष्टयति —

न हीति ।

‘मनःषष्ठानीन्द्रियाणि’ इति स्मृतेः षष्ठमिन्द्रियं मनस्तस्य नासाधारणो विषयः, सुखादेरपि साक्षिमात्रगम्यत्वात्तत्तुल्यमत्यन्तासदिति यावत् । यद्वा षष्ठमिन्द्रियं ज्ञानेन्द्रियेषु कर्मेन्द्रियेषु वा नास्ति तद्विषयस्तु दूरापास्तस्तथा व्यवहारान्यथात्वं प्रतिकल्पमशक्यं कल्पयितुम् । न हि कस्याञ्चिदि सृष्टौ नेत्रश्रोत्रादेर्गोचरविपर्ययो दृष्टः । तथा सर्वकल्पेषु लोकलोकितद्धर्मनियमसिद्धिरित्यर्थः ।

उक्तमर्थं सङ्क्षिप्य निगमयन्प्रकृतसूत्राक्षराणि योजयति —

अतश्चेति ।

समाननामरूपाणां विशेषाणां प्रतिसर्गं सर्गेऽपि कुतो विरोधसमाधिः, तत्राह —

समानेति ।

प्रादुर्भवतां विशेषाणां समाननामरूपत्वे मानमाह —

समानेति ।

उक्तं व्याकर्तुं श्रुतिं व्याचष्टे —

यथेति ।

तत्रैव श्रुत्यन्तरमाह —

तथेति ।

भाविवृत्त्या यजमानोऽग्निरुच्यते, अग्नेरग्न्यन्तराभावात् ।

यजमानश्चैवं कामयित्वा किं कृतवानिति, तदाह —

स इति ।

कृत्तिकाभ्यः कृत्तिकानश्रत्रदेवतायै बहुवचनं नक्षत्रबहुत्वात् । अष्टाकपालमष्टसु कपालेषु पचनीयं निरवपन्निरुप्तवान् । उक्तपुरोडाशहविष्कामिष्टिं कृतवानित्यर्थः ।

उक्तश्रुतेस्तात्पर्यमाह —

नक्षत्रेति ।

‘मित्रो वा अकामयत चन्द्रमा वा अकामयत’ इत्येवंविधा श्रुतिरेवंजातीयका । पूर्वोत्तरसृष्ट्योः समाननामरूपत्वमिहेत्युक्तम् । स्मृतिरपीह द्रष्टव्येति सम्बन्धः । वेदेष्विति विषयसप्तमी । शर्वर्यन्ते प्रलयान्ते । ऋतुलिङ्गानि वसन्तादीनामृतूनां चिह्नानि नवकिसलयप्रसूनादीनि । पर्यये पर्याये पौनःपुन्येन परिवर्तने । ये चक्षुराद्यभिमानिनोऽतीता देवास्ते साम्प्रतैर्देवैरिह चक्षुराद्यभिमानिभिस्तुल्या इति योजना ॥ ३० ॥