ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ ४२ ॥
परमेश्वरोपदेशपरमेवेदं वाक्यम् , न शारीरमात्रान्वाख्यानपरम् । कस्मात् ? सुषुप्तावुत्क्रान्तौ च शारीराद्भेदेन परमेश्वरस्य व्यपदेशात् । सुषुप्तौ तावत् ‘अयं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्’ (बृ. उ. ४ । ३ । २१) इति शारीराद्भेदेन परमेश्वरं व्यपदिशति । तत्र पुरुषः शारीरः स्यात् , तस्य वेदितृत्वात् । बाह्याभ्यन्तरवेदनप्रसङ्गे सति तत्प्रतिषेधसम्भवात् । प्राज्ञः परमेश्वरः, सर्वज्ञत्वलक्षणया प्रज्ञया नित्यमवियोगात् । तथोत्क्रान्तावपि ‘अयं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जन्याति’ (बृ. उ. ४ । ३ । ३५) इति जीवाद्भेदेन परमेश्वरं व्यपदिशति । तत्रापि शारीरो जीवः स्यात् , शरीरस्वामित्वात् । प्राज्ञस्तु स एव परमेश्वरः । तस्मात्सुषुप्त्युत्क्रान्त्योर्भेदेन व्यपदेशात्परमेश्वर एवात्र विवक्षित इति गम्यते । यदुक्तमाद्यन्तमध्येषु शारीरलिङ्गात् तत्परत्वमस्य वाक्यस्येति, अत्र ब्रूमः — उपक्रमे तावत् ‘योऽयं विज्ञानमयः प्राणेषु’ इति न संसारिस्वरूपं विवक्षितम् — किं तर्हि ? — अनूद्य संसारिस्वरूपं परेण ब्रह्मणास्यैकतां विवक्षति । यतः ‘ध्यायतीव लेलायतीव’ इत्येवमाद्युत्तरग्रन्थप्रवृत्तिः संसारिधर्मनिराकरणपरा लक्ष्यते । तथोपसंहारेऽपि यथोपक्रममेवोपसंहरति — ‘स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु’ इति । योऽयं विज्ञानमयः प्राणेषु संसारी लक्ष्यते, स वा एष महानज आत्मा परमेश्वर एवास्माभिः प्रतिपादित इत्यर्थः । यस्तु मध्ये बुद्धान्ताद्यवस्थोपन्यासात्संसारिस्वरूपविवक्षां मन्यते, स प्राचीमपि दिशं प्रस्थापितः प्रतीचीमपि दिशं प्रतिष्ठेत । यतो न बुद्धान्ताद्यवस्थोपन्यासेनावस्थावत्त्वं संसारित्वं वा विवक्षितं — किं तर्हि ? — अवस्थारहितत्वमसंसारित्वं च । कथमेतदवगम्यते ? यत् ‘अत ऊर्ध्वं विमोक्षायैव ब्रूहि’ (बृ. उ. ४ । ३ । १४) इति पदे पदे पृच्छति । यच्च ‘अनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुषः’ (बृ. उ. ४ । ३ । १५) इति पदे पदे प्रतिवक्ति । ‘अनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ्शोकान्हृदयस्य भवति’ (बृ. उ. ४ । ३ । २२) इति च । तस्मादसंसारिस्वरूपप्रतिपादनपरमेवैतद्वाक्यमित्यवगन्तव्यम् ॥ ४२ ॥

उपक्रमोपसंहारपरामर्शानां जीवार्थतया तत्परे सन्दर्भे कथमीश्वरोक्तिरित्याह —

कस्मादिति ।

तत्र हेतुं सोपस्कारमवतारयति —

सुषुप्ताविति ।

सौषुप्तं भेदवादमुदाहरति —

सुषुप्तौ तावदिति ।

करशिरश्चरणादिमति शरीरे पुरुषशब्दात्कुतः शारीरात्परस्य भेदः, तत्राह —

तत्रेति ।

तस्य वेदितृत्वेऽपि प्रकृते वेदितृत्वं नापेक्ष्यं, तदा बाह्यान्तरार्थधीनिषेधादित्याशङ्क्याह —

बाह्येति ।

पुरुषस्य शारीरत्वेऽपि प्रकर्षेणाज्ञ इति व्युत्पत्त्या प्राज्ञशब्देनापि तस्यैवोक्तेर्भेदोक्तेरौपचारिकत्वान्न शारीरात्परस्य भेदोक्तिरित्याशङ्क्याह —

प्राज्ञ इति ।

योगाद्रूढेर्बलीयस्त्वं मत्वा हेतुमाह —

सर्वेति ।

औत्क्रान्तिकीमपि भेदोक्तिं दर्शयति —

तथेति ।

अन्वारूढोऽधिष्ठित उत्सर्जन्नानावेदनातः शब्दं कुर्वन्निति यावत् ।

शारीरशब्दस्य शरीरसम्बन्धिमात्रत्वात्प्राज्ञश्च प्रज्ञातिशयत्वात्कुतो भेदधीरित्याशङ्क्य रूढिबलीयस्त्वन्यायेनाह —

तत्रेत्यादिना ।

भेदोक्तिफलमाह —

तस्मादिति ।

पूर्वपक्षबीजमनुभाष्य दूषयति —

यदुक्तमिति ।

उपक्रमस्य संसार्यर्थत्वं निरस्यति —

उपक्रम इति ।

तस्य प्रश्नद्वारा विषयमाह —

किमिति ।

अनुवादमात्रमेवात्रेष्टं किं न स्यादित्याशङ्क्याह —

यत इति ।

बुद्धौ ध्यायन्त्यामात्मा ध्यायतीव चलन्त्यां चलतीव । वस्तुतो न ध्यायति न चलतीत्यर्थः ।

उपसंहारानुसारेणोपक्रमस्यैकस्मिन्वाक्ये नेयत्वात्तस्य संसार्यर्थत्वादुपक्रमस्य तदर्थतेत्याशङ्क्याह —

तथेति ।

तस्य परमार्थत्वं वाक्यार्थोक्त्या वक्ति —

योऽयमिति ।

परामर्शस्य संसारिगामित्वमुक्तमनूद्य पूर्वापरविरोधेन प्रत्याह —

यस्त्विति ।

बुद्धान्तो जागरितम् ।

संसारिस्वरूपबुद्धेर्वाक्याननुगुणत्वे हेतुमाह —

यत इति ।

अवस्थावत्त्वेन संसारित्वे दृष्टेऽपि तद्राहित्यमभिप्रेतमित्यत्र नियामकं पृच्छति —

कथमिति ।

एकस्मिन्वाक्ये प्रसिद्धाप्रसिद्धयोर्लिङ्गेषु प्रसिद्धार्थानुवादेनाप्रसिद्धार्थ एव प्रतिपाद्यो वाक्यस्यापूर्वार्थत्वायेति न्यायेन जीवलिङ्गैस्तदनुवादेन तस्य ब्रह्मता वाक्येनोच्यतेऽन्यथा प्रश्नायोगादित्याह —

यदिति ।

अतः कामादिविवेकानन्तरं विमोक्षाय तदौपयिकसाक्षात्कारायैव ब्रूहीति पुनः पुना राजा यस्मात्पृच्छति तस्मात्प्रश्नसामर्थ्यात्प्रतीचो ब्रह्मता प्रतिपाद्येत्यर्थः ।

न केवलं प्रश्नसामर्थ्यादेवम् , उत्तरसामर्थ्यादपीत्याह —

यच्चेति ।

तेन जाग्रद्भोगादिनानन्वागतोऽस्पृष्टो भवति, असङ्गत्वादिति प्रत्युक्तेरित्यर्थः ।

प्रतिवचनान्तरं दर्शयति —

अनन्वागतमिति ।

आत्मतत्त्वं पुण्यपापाभ्यामनाघ्रातमिति यावत् ।

तदा सुप्तौ हृदयस्य बुद्धेः सम्बन्धिनः शोकान्कामादीनशेषानतिक्रान्तो भवतीत्याह —

तीर्णो हीति ।

अनुवादमात्रस्य प्रश्नप्रत्युक्तिभ्यामयोगे फलितमाह —

तस्मादिति ॥ ४२ ॥