ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॥ १ ॥
आनुमानिकमपि अनुमाननिरूपितमपि प्रधानम् , एकेषां शाखिनां शब्दवदुपलभ्यते; काठके हि पठ्यते — ‘महतः परमव्यक्तमव्यक्तात्पुरुषः परः’ (क. उ. १ । ३ । ११) इति; तत्र य एव यन्नामानो यत्क्रमाश्च महदव्यक्तपुरुषाः स्मृतिप्रसिद्धाः, त एवेह प्रत्यभिज्ञायन्ते । तत्राव्यक्तमिति स्मृतिप्रसिद्धेः, शब्दादिहीनत्वाच्च न व्यक्तमव्यक्तमिति व्युत्पत्तिसम्भवात् , स्मृतिप्रसिद्धं प्रधानमभिधीयते । अतस्तस्य शब्दवत्त्वादशब्दत्वमनुपपन्नम् । तदेव च जगतः कारणं श्रुतिस्मृतिन्यायप्रसिद्धिभ्य इति चेत् , नैतदेवम् — न ह्येतत्काठकवाक्यं स्मृतिप्रसिद्धयोर्महदव्यक्तयोरस्तित्वपरम् । न ह्यत्र यादृशं स्मृतिप्रसिद्धं स्वतन्त्रं कारणं त्रिगुणं प्रधानम् , तादृशं प्रत्यभिज्ञायते । शब्दमात्रं ह्यत्राव्यक्तमिति प्रत्यभिज्ञायते । स च शब्दः — न व्यक्तमव्यक्तमिति — यौगिकत्वात् अन्यस्मिन्नपि सूक्ष्मे सुदुर्लक्ष्ये च प्रयुज्यते । न चायं कस्मिंश्चिद्रूढः । या तु प्रधानवादिनां रूढिः, सा तेषामेव पारिभाषिकी सती न वेदार्थनिरूपणे कारणभावं प्रतिपद्यते । न च क्रममात्रसामान्यात्समानार्थप्रतिपत्तिर्भवति, असति तद्रूपप्रत्यभिज्ञाने । न ह्यश्वस्थाने गां पश्यन्नश्वोऽयमित्यमूढोऽध्यवस्यति । प्रकरणनिरूपणायां चात्र न परपरिकल्पितं प्रधानं प्रतीयते, शरीररूपकविन्यस्तगृहीतेः । शरीरं ह्यत्र रथरूपकविन्यस्तमव्यक्तशब्देन परिगृह्यते । कुतः ? प्रकरणात् परिशेषाच्च । तथा ह्यनन्तरातीतो ग्रन्थ आत्मशरीरादीनां रथिरथादिरूपककॢप्तिं दर्शयति — ‘आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥’ (क. उ. १ । ३ । ३)‘इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ (क. उ. १ । ३ । ४) इति । तैश्चेन्द्रियादिभिरसंयतैः संसारमधिगच्छति, संयतैस्त्वध्वनः पारं तद्विष्णोः परमं पदमाप्नोति इति दर्शयित्वा, किं तदध्वनः पारं विष्णोः परमं पदमित्यस्यामाकाङ्क्षायाम् , तेभ्य एव प्रकृतेभ्यः इन्द्रियादिभ्यः परत्वेन परमात्मानमध्वनः पारं विष्णोः परमं पदं दर्शयति — ‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥’ (क. उ. १ । ३ । १०)‘महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः’ (क. उ. १ । ३ । ११) इति; तत्र य एवेन्द्रियादयः पूर्वस्यां रथरूपककल्पनायामश्वादिभावेन प्रकृताः, त एवेह परिगृह्यन्ते, प्रकृतहानाप्रकृतप्रक्रियापरिहाराय । तत्र इन्द्रियमनोबुद्धयस्तावत्पूर्वत्र इह च समानशब्दा एव । अर्थास्तु ये शब्दादयो विषया इन्द्रियहयगोचरत्वेन निर्दिष्टाः, तेषां चेन्द्रियेभ्यः परत्वम् , इन्द्रियाणां ग्रहत्वं विषयाणामतिग्रहत्वम् इति श्रुतिप्रसिद्धेः । विषयेभ्यश्च मनसः परत्वम् , मनोमूलत्वाद्विषयेन्द्रियव्यवहारस्य । मनसस्तु परा बुद्धिः — बुद्धिं ह्यारुह्य भोग्यजातं भोक्तारमुपसर्पति । बुद्धेरात्मा महान्परः — यः, सः ‘आत्मानं रथिनं विद्धि’ इति रथित्वेनोपक्षिप्तः । कुतः ? आत्मशब्दात् , भोक्तुश्च भोगोपकरणात्परत्वोपपत्तेः । महत्त्वं चास्य स्वामित्वादुपपन्नम् । अथवा — ‘मनो महान्मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरः । प्रज्ञा संविच्चितिश्चैव स्मृतिश्च परिपठ्यते’ इति स्मृतेः, ‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै’ (श्वे. उ. ६ । १८) इति च श्रुतेः , या प्रथमजस्य हिरण्यगर्भस्य बुद्धिः, सा सर्वासां बुद्धीनां परमा प्रतिष्ठा; सेह महानात्मेत्युच्यते । सा च पूर्वत्र बुद्धिग्रहणेनैव गृहीता सती हिरुगिहोपदिश्यते, तस्या अप्यस्मदीयाभ्यो बुद्धिभ्यः परत्वोपपत्तेः । एतस्मिंस्तु पक्षे परमात्मविषयेणैव परेण पुरुषग्रहणेन रथिन आत्मनो ग्रहणं द्रष्टव्यम्, परमार्थतः परमात्मविज्ञानात्मनोर्भेदाभावात् । तदेवं शरीरमेवैकं परिशिष्यते तेषु । इतराणीन्द्रियादीनि प्रकृतान्येव परमपददिदर्शयिषया समनुक्रामन्परिशिष्यमाणेनेहान्त्येनाव्यक्तशब्देन परिशिष्यमाणं प्रकृतं शरीरं दर्शयतीति गम्यते । शरीरेन्द्रियमनोबुद्धिविषयवेदनासंयुक्तस्य ह्यविद्यावतो भोक्तुः शरीरादीनां रथादिरूपककल्पनया संसारमोक्षगतिनिरूपणेन प्रत्यगात्मब्रह्मावगतिरिह विवक्षिता । तथा च ‘एष सर्वेषु भूतेषु गूढोऽत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः’ (क. उ. १ । ३ । १२) इति वैष्णवस्य परमपदस्य दुरवगमत्वमुक्त्वा तदवगमार्थं योगं दर्शयति — ‘यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि’ (क. उ. १ । ३ । १३) इति । एतदुक्तं भवति — वाचं मनसि संयच्छेत् वागादिबाह्येन्द्रियव्यापारमुत्सृज्य मनोमात्रेणावतिष्ठेत । मनोऽपि विषयविकल्पाभिमुखं विकल्पदोषदर्शनेन ज्ञानशब्दोदितायां बुद्धावध्यवसायस्वभावायां धारयेत् तामपि बुद्धिं महत्यात्मनि भोक्तरि अग्र्यायां वा बुद्धौ सूक्ष्मतापादनेन नियच्छेत् महान्तं त्वात्मानं शान्त आत्मनि प्रकरणवति परस्मिन्पुरुषे परस्यां काष्ठायां प्रतिष्ठापयेदिति । तदेवं पूर्वापरालोचनायां नास्त्यत्र परपरिकल्पितस्य प्रधानस्यावकाशः ॥ १ ॥
आनुमानिकमिति ; काठके हीति ; तत्रेति ; तत्रेति ; स्मृतीति ; शब्दादीति ; तस्येति ; तदिति ; नैतदिति ; नहीति ; नहीति ; स्वतन्त्रमित्यादि ; शब्देति ; स चेति ; न चेति ; या त्विति ; न चेति ; असतीति ; नहीति ; प्रकरणेति ; कुत इति ; प्रकरणादिति ; तथाहीति ; अतीतेति ; आत्मानमिति ; बुद्धिमिति ; मन इति ; इन्द्रियाणीति ; विषयानिति ; आत्मेति ; इन्द्रियेति ; तैश्चेति ; किमिति ; तेभ्य इति ; तत्रेति ; तत्रेति ; अर्था इति ; तेषां चेति ; विषयेभ्यश्चेति ; मनसस्त्विति ; बुद्धेरिति ; आत्मेति ; भोक्तुश्चेति ; महत्त्वं चेति ; अथवेति ; महानिति ; मतिरिति ; ब्रह्मेति ; पूरिति ; बुद्धिरिति ; ख्यातिरिति ; ईश्वर इति ; प्रज्ञेति ; संविदिति ; चितिरिति ; स्मृतिश्चेति ; परिपठ्यत इति ; य इति ; सर्वासामिति ; सा चेति ; तस्या इति ; एतस्मिन्निति ; परमार्थत इति ; तदेवमिति ; इतराणीति ; शरीरेति ; अविद्यावत इति ; भोक्तुरिति ; तथाचेति ; दृश्यते त्विति ; अग्र्ययेति ; सूक्ष्मेति ; वैष्णवस्येति ; तदिति ; एतदिति ; वागादीति ; मनोऽपीति ; तामिति ; महान्तं त्विति ; परस्यामिति ; चेति ; तदेवमिति ॥ १ ॥ ;

न चानेककारणवैयर्थ्यं, कल्पभेदेन व्यवस्थानादित्याह —

आनुमानिकमिति ।

अपिशब्दादेकशब्दाच्च ब्रह्माङ्गीकारेण पूर्वपक्षो विचारश्चायं क्वाचित्क इति सूचितम् ।

अव्यक्तपदं प्रधानपरं शरीरपरं वेति स्मार्तक्रमश्रौतपारिशेष्याभ्यामुभयप्रत्यभिज्ञया संशये प्रसिद्धजीवोक्तिभङ्गेनाप्रसिद्धब्रह्मोक्तिवदप्रसिद्धप्रधानोक्तिपरमेव काठकवाक्यमिति पूर्वपक्षयन्नुपलब्धिमुदाहरति —

काठके हीति ।

अत्र प्रधानस्याशब्दत्वप्रतिपादनेन समन्वयदार्ढ्यादस्ति श्रुत्यादिसङ्गतिः । पूर्वपक्षे प्रधानस्यापि शब्दवत्त्वाद्ब्रह्मण्यन्वयानियतिः, सिद्धान्ते तस्याशब्दत्वाद्ब्रह्मण्यन्वयनियतिरिति फलभेदः ।

कथमत्र प्रधानमव्यक्तपदादुक्तमित्याशङ्क्य प्रधाने स्थानं मानमाह —

तत्रेति ।

स्मृतिः साङ्ख्यस्मृतिः । श्रुतिः सप्तम्यर्थः ।

अव्यक्तश्रुतिरपि प्रधाने मानमित्याह —

तत्रेति ।

साङ्ख्यस्मृतिसिद्धप्रधानस्याव्यक्तशब्देनोक्तौ तदीयां रूढिं हेतूकरोति —

स्मृतीति ।

पारिभाषिकत्वादव्यक्तशब्दस्यानिर्णायकत्वमाशङ्क्योक्तं —

शब्दादीति ।

रूढियोगाभ्यामव्यक्तशब्दस्य प्रधानवाचित्वे फलितमाह —

तस्येति ।

तथापि कारणत्वं तस्याशब्दमित्याशङ्क्याह —

तदिति ।

श्रुतिः ‘अजामेकाम्’ इत्याद्या । स्मृतिः साङ्ख्यीया । ‘विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्’ इत्याद्या च । ‘भेदानां परिमाणात्’ इत्यादिर्न्यायः । नच प्रकरणपारिशेष्याभ्यां शरीरमव्यक्तं, तस्य स्पष्टत्वेन तच्छब्दानर्हत्वात् । अतो जगत्कारणस्य प्रधानस्य शब्दवत्त्वान्न गतिसामान्यमित्यर्थः ।

स्थानादिभिरुक्तं प्रत्याह —

नैतदिति ।

तत्रादौ श्रुतिं निराह —

नहीति ।

कुतो न तदस्तित्वपरं स्मार्तप्रधानस्यैवात्र प्रत्यभिज्ञानात् , नेत्याह —

नहीति ।

यादृशमित्यस्य व्याख्यानम् —

स्वतन्त्रमित्यादि ।

साङ्ख्यस्मृतिसिद्धाव्यक्तशब्दस्य श्रुतावपि प्रयोगात्तेन प्रत्यभिज्ञातं प्रधानमित्युक्तमाशङ्क्याह —

शब्देति ।

शब्दस्यार्थव्याप्तेरर्थस्यापि प्रत्यभिज्ञानमाशङ्क्य यौगिकत्वात्तदेकार्थासिद्धिरित्याह —

स चेति ।

रूढ्या तन्मात्रसिद्धौ कुतो योगाद्दुर्बलादर्थान्तरं शङ्क्यते, तत्राह —

न चेति ।

परस्य प्रधाने रूढिरव्यक्तशब्दस्यास्तीत्याशङ्क्याह —

या त्विति ।

नहि परीक्षकाणां पारिभाषिकी प्रसिद्धिर्वेदार्थनिर्णयनिमित्तं, परीक्षकविप्रतिपत्त्या वेदार्थेऽपि तत्प्रसङ्गात् । लौकिकी प्रसिद्धी रूढिः । तथा ‘य एव च लौकिकाः शब्दास्त एव वैदिकास्त एव चैषामर्थाः’ इति न्यायादित्यर्थः ।

श्रूतिं दूषयित्वा स्थानं दूषयति —

न चेति ।

मात्रचोऽर्थं स्फुटयति —

असतीति ।

स्थानस्यापि नास्ति तद्रूपप्रत्यभिज्ञापेक्षा स्वत एव प्रमाणत्वेन निश्चायकत्वादित्याशङ्कया तद्रूपविपरीतप्रत्यभिज्ञासत्त्वमत्रेष्टमिति मत्वा विपरीतरूपज्ञाने स्थानादर्थासिद्धौ दृष्टान्तमाह —

नहीति ।

कथं तर्हीह विपरीतरूपप्रत्यभिज्ञेत्याशङ्क्य सूत्रभागमवतार्य विभजते —

प्रकरणेति ।

‘आत्मानं रथिनं विद्धि’ इत्यस्मिन्वाक्ये बुद्ध्यात्मनोर्मध्ये शरीरस्य श्रुतत्वात्तदेवत्रापि महच्छब्दितबुद्धिपुरुषमध्यस्थमव्यक्तशब्देन गृह्यते । श्रौतक्रमस्य स्मार्तक्रमाद्बलीयस्त्वादित्यर्थः ।

उभयोरपि स्थानत्वात्कुतः श्रौतं स्थानमास्थाय शरीरमेव ग्राह्यमित्याह —

कुत इति ।

प्रकरणाद्यनुगृहीतत्वेन श्रौतक्रमस्य प्राबल्यादित्याह —

प्रकरणादिति ।

तदुभयं वक्तुमुपक्रमते —

तथाहीति ।

तत्र प्रकरणं विविच्य दर्शयति —

अतीतेति ।

रूपकक्लृप्तिः सादृश्यकल्पना । आत्मनो भोक्तू रथित्वं शरीराख्यरथस्वामित्वम् ।

तत्र हि भोक्ता प्रधानं स्थूलं शरीरं भोगायतनत्वेन गुणतया रथवदवधेयमित्याह —

आत्मानमिति ।

विवेकाविवेकप्रधानवृत्तिभ्यां बुद्धिरेव शरीरद्वारा सुखदुःखे भोक्तानमुपनयतीति मत्वाह —

बुद्धिमिति ।

मनसाऽश्वरशनास्थानीयेन विवेकिना विषयेभ्यः श्रौत्रादीनि निगृह्यन्ते, तेनाविवेकिना तेषु प्रवर्त्यन्ते, तेन मनसो युक्तं प्रग्रहत्वमित्याह —

मन इति ।

असंयतानीन्द्रियाणि पुरुषं संसारानर्थं, संयतानि मुक्तिद्वारं प्रापयन्तीत्याह —

इन्द्रियाणीति ।

यथाश्वोऽध्वानमालक्ष्य चरत्येवमिन्द्रियहयाः ।

स्वार्थमुपलभ्य चरतीत्याह —

विषयानिति ।

शरीरादिषु मध्ये शब्दादीन्विषयानिन्द्रियहयगोचरानाहुरिति योजना ।

ननु मार्गे रथिनो रथाद्यपेक्षा न भोगे चिद्रूपतया स्वभावेनैव तद्योगादतो देहादीनां रथादिकल्पनावैषम्यं, तत्राह —

आत्मेति ।

आत्मा भोक्तेत्याहुरिति सम्बन्धः ।

तस्यासङ्गस्यार्थेन्द्रियासंनिकर्षे भोगायोगादिन्द्रियमनोयोगो यथा भवतीति क्रियाविशेषणेन तस्य भोक्तृत्वमुपपादयति —

इन्द्रियेति ।

यद्वात्मा देहः, देहेन्द्रियादिषु युक्तमात्मानं भोक्तेत्याहुरिति योजना ।

प्राकरणिकसम्बन्धस्याकाङ्क्षाधीनत्वात्पूर्ववाक्यस्थदेहस्याव्यक्तशब्दाकाङ्क्षां वक्तुं रथादिरूपककल्पनाफलं वदन्परमपदस्य प्रकरणिनो मुख्यस्याकाङ्क्षामवतारयति —

तैश्चेति ।

परमपदस्य स्वरूपे परत्वे चाकाङ्क्षामाह —

किमिति ।

आकाङ्क्षाद्वयशान्तयेऽनन्तरं ग्रन्थमादत्ते —

तेभ्य इति ।

पूर्ववाक्ये शरीरस्य प्रकृतत्वेऽपि प्रधानमेवात्राव्यक्तमित्याशङ्क्याह —

तत्रेति ।

प्रकरणं पदर्श्य परिशेषं दर्शयितुमारभते —

तत्रेति ।

पूर्वत्रानुक्तानामर्थानामिहोक्तिवत्प्रधानस्यापि स्यादित्याशङ्क्य तेषां विषयशब्देनोक्तेर्मैवमित्याह —

अर्था इति ।

अर्थशब्देन विषयोक्तिरयुक्ता, विषयाणामिन्द्रियेभ्योऽन्तरङ्गेभ्यो बाह्यतया परत्वायोगादित्याशङ्क्याह —

तेषां चेति ।

आन्तरत्वेन श्रेष्ठत्वाभावेऽपि तेषामतिग्रहतया ग्रहरूपेन्द्रियापेक्षया प्राधान्यस्य श्रुत्युक्तत्वात्परत्वम् । ‘अष्टौ ग्रहा अष्टावतिग्रहाः’ इति श्रुत्या घ्राणजिह्वावाक्चक्षुःश्रोत्रमनोहस्तत्वगिन्द्रियेभ्यो ग्रहेभ्यो गन्धरसनामरूपशब्दकामकर्मस्पर्शविषया अतिग्रहा उक्ताः । तत्र गृह्णन्ति वशीकुर्वन्ति पुरुषमिति ग्रहा इन्द्रियाणि । तेषामपि ग्राहकत्वं विषयाधीनमित्यतिग्रहा विषयास्तेनातिग्रहतया तेषां प्राधान्यमित्यर्थः ।

तर्हि कथमर्थेभ्यो मनसः परत्वं, तस्यापि ग्रहत्वेन घ्राणादिसाम्यादित्याशङ्क्य स्वगतविशेषणार्थेभ्यस्तस्य परत्वमाह —

विषयेभ्यश्चेति ।

तथापि कथं बुद्धेर्मनसः सकाशात्परत्वं, तयोर्भोक्तारं प्रत्यविशेषादित्याशङ्क्याह —

मनसस्त्विति ।

निश्चयद्वारा विषया भोक्तुरुपकुर्वन्ति निश्चयश्च बुद्धिरिति संशयात्मकमनसो बुद्धिप्राधान्यमित्यर्थः ।

बुद्ध्युपहितस्यात्मनस्ततो न परत्वं महत्त्वं चेत्याशङ्क्य यो रथित्वेन पूर्वत्रोक्तः सोऽत्र गृह्यत इत्याह —

बुद्धेरिति ।

तत्प्रत्यभिज्ञानं तत्र हेतूकुर्वंस्तद्धेतुमाह —

आत्मेति ।

यत्तु कथमस्य परत्वमिति, तत्राह —

भोक्तुश्चेति ।

यत्पुनर्न तस्य महत्त्वमिति, तत्राह —

महत्त्वं चेति ।

तर्हि ‘महतः परमव्यक्तम्’ इति न वक्तव्यं, किं त्वात्मनः परमिति, महच्छब्दस्यात्मवाचित्वादित्याशङ्क्याह —

अथवेति ।

सङ्कल्पविकल्परूपमननशक्त्या हैरण्यगर्भी बुद्धिर्मनः ।

तस्या व्यष्टिमनःसु समष्टितया व्याप्तिमाह —

महानिति ।

सङ्कल्पादिशक्तितया तर्हि सन्देहात्मत्वं, तत्राह —

मतिरिति ।

महत्त्वमुपपादयति —

ब्रह्मेति ।

भोग्यजाताधारत्वमाह —

पूरिति ।

निश्चयात्मत्वमाह —

बुद्धिरिति ।

कीर्तिशक्तिमत्त्वमाह —

ख्यातिरिति ।

नियमनशक्तिमत्त्वमाह —

ईश्वर इति ।

लोके यत्प्रकृष्टं ज्ञानं ततोऽनतिरेकमाह —

प्रज्ञेति ।

तत्फलमपि ततो नार्थान्तरविषयमित्याह —

संविदिति ।

चित्प्रधानत्वमाह —

चितिरिति ।

ज्ञातसर्वार्थानुसन्धानशक्तिमाह —

स्मृतिश्चेति ।

सर्वत्र विद्वत्प्रसिद्धिमनुकूलयति —

परिपठ्यत इति ।

श्रुतिरपि हिरण्यगर्भबुद्धौ वेदाविर्भावमीश्वरानुग्रहवशादभिवदन्ती तदीयां बुद्धिमुक्तलक्षणां विवक्षतीत्याह —

य इति ।

परत्वं तस्याः साधयति —

सर्वासामिति ।

तर्हि पूर्वत्रानुक्तहिरण्यगर्भबुद्धेरिव प्रधानस्यापीहोक्तिः स्यात् , नेत्याह —

सा चेति ।

हिरुगिति पृथक्त्वोक्तिः ।

कथं बुद्धेरेव परा बुद्धिरित्याशङ्क्य सर्वासामित्यत्रोक्तं स्फुटयति —

तस्या इति ।

व्यष्टिबुद्ध्याश्रयत्वात्परा समष्टिबुद्धिरिति बुद्धेरित्यादिना तदुक्तिरविरुद्धेत्यर्थः ।

तर्हि पूर्वाक्तस्य रथिनोऽनुक्तिवदिह शरीरस्यापि च रथस्य स्यादित्याशङ्क्याह —

एतस्मिन्निति ।

ननु पुरुषोक्त्या न रथिग्रहस्तस्य जीवत्वात्पुरुषस्य परमात्मत्वात् , तत्राह —

परमार्थत इति ।

परिशेषमुपसंहरति —

तदेवमिति ।

प्रकरणपरिशेषाभ्यामव्यक्तं शरीरमिति प्रतिज्ञातं निगमयति —

इतराणीति ।

देहादिषु रथादिकल्पनाफलालोचनायामपि शरीरमेवाव्यक्तमित्याह —

शरीरेति ।

सुखादिर्वेदना ।

देहादिसंयोगे हेतुः —

अविद्यावत इति ।

तत्संयोगफलमाह —

भोक्तुरिति ।

देहादिव्यतिरेकबोधाधीनमात्मनो ब्रह्मत्वाधिगतिफलम् । नच प्रतियोगिनो देहादेरग्रहे तद्व्यतिरेकधीः । तथाचेन्द्रियादिवदेव शरीरमपि ग्राह्यमित्यव्यक्तशब्दस्य तदर्थतेत्यर्थः ।

प्रत्यग्ब्रह्मधीरिहाभीष्टेति कथं दृष्टिरित्याशङ्क्यात्मनो दुर्बोधत्वोक्त्या तद्धीहेतुविधेरित्याह —

तथाचेति ।

अप्रकाशस्वभावत्वं व्यासेधति —

दृश्यते त्विति ।

श्रवणादिपरिपाकानन्तर्यमाह —

अग्र्ययेति ।

सूक्ष्मार्थविषयतया सूक्ष्मत्वम् , तन्निष्ठानामेवोक्तबुद्धिद्वारा तद्दर्शनं न बहिर्मुखानामित्याह —

सूक्ष्मेति ।

वाक्यतात्पर्यमाह —

वैष्णवस्येति ।

कुतस्तर्हि तद्धीरित्याशङ्क्यानन्तरवाक्यमवतारयति —

तदिति ।

ब्रह्मात्मधीसाधनविधायि वाक्यं व्याकरोति —

एतदिति ।

वागिति द्वितीयालोपस्य छान्दसत्वाद्वाचमित्युक्तम् । वाचो ग्रहणं बाह्येन्द्रियोपलक्षणमित्युपेत्य वाक्यार्थमाह —

वागादीति ।

तथा च सति मनसि सङ्कल्पादिसम्भवान्नैकरसब्रह्मधीरित्याशङ्क्याह —

मनोऽपीति ।

बुद्धेरपि विषयप्रावण्यात्तस्यां सत्यां न ब्रह्मधीरित्याशङ्क्याह —

तामिति ।

महत्यात्मनि पृथगवस्थिते नैक्यधीरित्याशङ्क्याह —

महान्तं त्विति ।

तस्याधिष्ठानान्तरं नेति सूचयति —

परस्यामिति ।

प्रकरणात्परिशेषाच्चाव्यक्तपदं शरीरमेव दर्शयतीति पूर्वत्र व्याख्यातं दर्शयति —

चेति ।

विधान्तरेऽपि पुनर्व्याख्यायाधुना सूत्रार्थमुपसंहरति —

तदेवमिति ॥ १ ॥