ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
ज्ञेयत्वावचनाच्च ॥ ४ ॥
ज्ञेयत्वेन च साङ्ख्यैः प्रधानं स्मर्यते, गुणपुरुषान्तरज्ञानात्कैवल्यमिति वदद्भिः — न हि गुणस्वरूपमज्ञात्वा गुणेभ्यः पुरुषस्यान्तरं शक्यं ज्ञातुमिति । क्वचिच्च विभूतिविशेषप्राप्तये प्रधानं ज्ञेयमिति स्मरन्ति । न चेदमिहाव्यक्तं ज्ञेयत्वेनोच्यते । पदमात्रं ह्यव्यक्तशब्दः, नेहाव्यक्तं ज्ञातव्यमुपासितव्यं चेति वाक्यमस्ति । न चानुपदिष्टं पदार्थज्ञानं पुरुषार्थमिति शक्यं प्रतिपत्तुम् । तस्मादपि नाव्यक्तशब्देन प्रधानमभिधीयते । अस्माकं तु रथरूपककॢप्तशरीराद्यनुसरणेन विष्णोरेव परमं पदं दर्शयितुमयमुपन्यास इत्यनवद्यम् ॥ ४ ॥

प्रधानस्याव्यक्तशब्दावाच्यत्वे हेत्वन्तरमाह —

ज्ञेयत्वेति ।

तद्व्याख्यातुं पातनिकां करोति —

ज्ञेयत्वेनेति ।

गुणानां पुरुषाणां चान्तरं विवेकः, तस्यैव मुक्तिहेतुत्वेन ज्ञेयत्वमिष्टं न प्रधानस्येत्यशङ्क्यार्थान्तरस्यापि तदिष्टमित्याह —

नहीति ।

इति गुणत्रयसाम्यावस्थारूपप्रधानस्यापि ज्ञेयत्वमिति शेषः ।

तथापि विवेकगुणतया प्रधानस्य ज्ञेयत्वं न स्वप्रधानतयेत्याशङ्क्य प्रकृतिलयादिसिद्ध्यर्थं स्वप्रधानतयापि तज्ज्ञेयत्वमिष्टमित्याह —

क्वचिच्चेति ।

इहापि ज्ञेयत्वमव्यक्तशब्देनोक्तमित्याशङ्क्य सूत्रार्थमाह —

न चेति ।

तदेव स्पष्टयति —

पदेति ।

नन्वव्यक्तशब्दे प्रयुक्ते तदर्थस्यार्थादेव ज्ञेयत्वमज्ञाते शब्दाप्रयोगात् , नेत्याह —

न चेति ।

आर्थिकधियोऽपुमर्थत्वसम्भवाच्छाब्दमेव फलवज्ज्ञानं, न चाव्यक्ते तथाविधा धीरित्यर्थः ।

पञ्चम्यर्थमनूद्य चकारद्योत्यमाह —

तस्मादिति ।

त्वन्मतेऽप्युक्तनीत्याव्यक्तपदमनर्थकमित्याशङ्क्याह —

अस्माकं त्विति ।

परमपदस्य सर्वस्मात्परत्वज्ञानार्थं देहाद्युपन्यासोऽस्मत्पक्षे स्यादित्यव्यक्तशब्देन स्थूलदेहोक्तिरर्थवतीत्यर्थः ॥ ४ ॥