ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥
अत्रोच्यते — नैव वयमिह वरप्रदानव्यतिरेकेण प्रश्नं कञ्चित्कल्पयामः, वाक्योपक्रमसामर्थ्यात् । वरप्रदानोपक्रमा हि मृत्युनचिकेतःसंवादरूपा वाक्यप्रवृत्तिः आ समाप्तेः कठवल्लीनां लक्ष्यते । मृत्युः किल नचिकेतसे पित्रा प्रहिताय त्रीन्वरान्प्रददौ । नचिकेताः किल तेषां प्रथमेन वरेण पितुः सौमनस्यं वव्रे, द्वितीयेनाग्निविद्याम् , तृतीयेनात्मविद्याम् — ‘येयं प्रेते’ इति ‘वराणामेष वरस्तृतीयः’ (क. उ. १ । १ । २०) इति लिङ्गात् । तत्र यदि ‘अन्यत्र धर्मात्’ इत्यन्योऽयमपूर्वः प्रश्न उत्थाप्येत, ततो वरप्रदानव्यतिरेकेणापि प्रश्नकल्पनाद्वाक्यं बाध्येत । ननु प्रष्टव्यभेदादपूर्वोऽयं प्रश्नो भवितुमर्हति । पूर्वो हि प्रश्नो जीवविषयः, येयं प्रेते विचिकित्सा मनुष्येऽस्ति नास्तीति विचिकित्साभिधानात् । जीवश्च धर्मादिगोचरत्वात् न ‘अन्यत्र धर्मात्’ इति प्रश्नमर्हति । प्राज्ञस्तु धर्माद्यतीतत्वात् ‘अन्यत्र धर्मात्’ इति प्रश्नमर्हति । प्रश्नच्छाया च न समाना लक्ष्यते । पूर्वस्यास्तित्वनास्तित्वविषयत्वात् , उत्तरस्य धर्माद्यतीतवस्तुविषयत्वात् । तस्मात्प्रत्यभिज्ञानाभावात्प्रश्नभेदः; न पूर्वस्यैवोत्तरत्रानुकर्षणमिति चेत् । न; जीवप्राज्ञयोरेकत्वाभ्युपगमात् । भवेत्प्रष्टव्यभेदात्प्रश्नभेदो यद्यन्यो जीवः प्राज्ञात्स्यात् । न त्वन्यत्वमस्ति, ‘तत्त्वमसि’ इत्यादिश्रुत्यन्तरेभ्यः । इह च ‘अन्यत्र धर्मात्’ इत्यस्य प्रश्नस्य प्रतिवचनम् ‘न जायते म्रियते वा विपश्चित्’ (क. उ. १ । २ । १८) इति जन्ममरणप्रतिषेधेन प्रतिपाद्यमानं शारीरपरमेश्वरयोरभेदं दर्शयति । सति हि प्रसङ्गे प्रतिषेधो भागी भवति । प्रसङ्गश्च जन्ममरणयोः शरीरसंस्पर्शाच्छारीरस्य भवति, न परमेश्वरस्य । तथा — ‘स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति । महान्तं विभुमात्मानं मत्वा धीरो न शोचति’ (क. उ. २ । १ । ४) इति स्वप्नजागरितदृशो जीवस्यैव महत्त्वविभुत्वविशेषणस्य मननेन शोकविच्छेदं दर्शयन्न प्राज्ञादन्यो जीव इति दर्शयति । प्राज्ञविज्ञानाद्धि शोकविच्छेद इति वेदान्तसिद्धान्तः । तथाग्रे — ‘यदेवेह तदमुत्र यदमुत्र तदन्विह । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (क. उ. २ । ४ । १०) इति जीवप्राज्ञभेददृष्टिमपवदति । तथा जीवविषयस्यास्तित्वनास्तित्वप्रश्नस्यानन्तरम् ‘अन्यं वरं नचिकेतो वृणीष्व’ इत्यारभ्य मृत्युना तैस्तैः कामैः प्रलोभ्यमानोऽपि नचिकेता यदा न चचाल, तदैनं मृत्युरभ्युदयनिःश्रेयसविभागप्रदर्शनेन विद्याविद्याविभागप्रदर्शनेन च ‘विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्त’ (क. उ. १ । २ । ४) इति प्रशस्य प्रश्नमपि तदीयं प्रशंसन्यदुवाच — ‘तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति’ (क. उ. १ । २ । १२) इति, तेनापि जीवप्राज्ञयोरभेद एवेह विवक्षित इति गम्यते । यत्प्रश्ननिमित्तां च प्रशंसां महतीं मृत्योः प्रत्यपद्यत नचिकेताः, यदि तं विहाय प्रशंसानन्तरमन्यमेव प्रश्नमुपक्षिपेत् , अस्थान एव सा सर्वा प्रशंसा प्रसारिता स्यात् । तस्मात् ‘येयं प्रेते’ इत्यस्यैव प्रश्नस्यैतदनुकर्षणम् ‘अन्यत्र धर्मात्’ इति । यत्तु प्रश्नच्छायावैलक्षण्यमुक्तम् , तददूषणम् । तदीयस्यैव विशेषस्य पुनः पृच्छ्यमानत्वात् । पूर्वत्र हि देहादिव्यतिरिक्तस्यात्मनोऽस्तित्वं पृष्टम् , उत्तरत्र तु तस्यैवासंसारित्वं पृच्छ्यत इति । यावद्ध्यविद्या न निवर्तते, तावद्धर्मादिगोचरत्वं जीवस्य जीवत्वं च न निवर्तते । तन्निवृत्तौ तु प्राज्ञ एव ‘तत्त्वमसि’ इति श्रुत्या प्रत्याय्यते । न चाविद्यावत्त्वे तदपगमे च वस्तुनः कश्चिद्विशेषोऽस्ति । यथा कश्चित्संतमसे पतितां काञ्चिद्रज्जुमहिं मन्यमानो भीतो वेपमानः पलायते, तं चापरो ब्रूयात् ‘मा भैषीः नायमहिः रज्जुरेव’ इति । स च तदुपश्रुत्याहिकृतं भयमुत्सृजेद्वेपथुं पलायनं च । न त्वहिबुद्धिकाले तदपगमकाले च वस्तुनः कश्चिद्विशेषः स्यात् — तथैवैतदपि द्रष्टव्यम् । ततश्च ‘न जायते म्रियते वा’ इत्येवमाद्यपि भवत्यस्तित्वनास्तित्वप्रश्नस्य प्रतिवचनम् । सूत्रं त्वविद्याकल्पितजीवप्राज्ञभेदापेक्षया योजयितव्यम् — एकत्वेऽपि ह्यात्मविषयस्य प्रश्नस्य प्रायणावस्थायां देहव्यतिरिक्तास्तित्वमात्रविचिकित्सनात्कर्तृत्वादिसंसारस्वभावानपोहनाच्च पूर्वस्य पर्यायस्य जीवविषयत्वमुत्प्रेक्ष्यते, उत्तरस्य तु धर्माद्यत्ययसङ्कीर्तनात्प्राज्ञविषयत्वमिति । ततश्च युक्ता अग्निजीवपरमात्मकल्पना । प्रधानकल्पनायां तु न वरप्रदानं न प्रश्नो न प्रतिवचनमिति वैषम्यम् ॥ ६ ॥

सूत्रावयवविरोधमग्रे परिहरिष्यन्नाद्यं पक्षमङ्गीकृत्याह —

अत्रेति ।

द्वितीयस्त्वनभ्युपगमादेव परास्त इत्याह —

नैवेति ।

प्रकृतो ग्रन्थः सप्तम्यर्थः । अतो न प्रधानोक्तिप्रसक्तिरिति शेषः ।

वरदानं विनाऽपूर्वप्रश्नकल्पनाभावे हेतुमाह —

वाक्येति ।

कथं वाक्योपक्रमः, तद्विरोधो वा प्रश्नान्तरोपगमे कथमित्याशङ्क्य वाक्योपक्रमं दर्शयति —

वरेति ।

उपक्रमानुसारित्वमुपसंहारस्यापि सूचयति —

आ समाप्तेरिति ।

आद्यन्तयोरेकरूपतया वाक्यवृत्तिमेव विशदयति —

मृत्युरिति ।

वरदानतदुपादानविषयाख्यायिकाद्योतनार्थमुभयत्र किलेत्युक्तम् ।

वरत्रयमेव विशेषतो बुभुत्समानं प्रकटयति —

नचिकेता इति ।

ननु पितुः सौमनस्यं वरो न भवति, तत्र प्रश्नाभावात् , किन्तु अग्निजीवपरात्मार्थाः प्रश्नरूपा वराः, तेषु प्रत्युक्तेरपि भावात् , तत्राह —

येयमिति ।

प्रेते सतीत्युपक्रमे सतीति शेषः ।

वाक्योपक्रमं दर्शयित्वा प्रश्नान्तरकल्पने तद्विरोधं दर्शयति —

तत्रेति ।

वाक्यबलात्प्रश्नैक्यमयुक्तं लिङ्गात्तद्भेदसिद्धेरिति शङ्कते —

नन्विति ।

प्रष्टव्यभेदं स्पष्टयति —

पूर्वो हीति ।

नहि तस्य परविषयत्वं, तत्रास्ति नास्तीति विचिकित्सायोगात्तस्य सदेकतानत्वादित्यर्थः ।

तथापि न प्रष्टव्यभेदः, द्वितीयेऽपि प्रश्ने जीवस्यैवोक्तेरित्याशङ्क्याह —

जीवश्चेति ।

कस्तर्हि द्वितीयप्रश्नार्थो न परो जीवादन्योऽस्ति, तत्राह —

प्राज्ञस्त्विति ।

धर्मादिगोचरत्वागोचरत्वाभ्यां तद्भेदधीरित्यर्थः ।

अर्थस्वभावालोचनया प्रश्नभेदमुक्त्वा प्रश्नस्वभावालोचनयापि तद्भेदमाह —

प्रश्नेति ।

वैषम्यं स्फोरयति —

पूर्वस्येति ।

आर्थे शाब्दे च वैषम्ये फलितमाह —

तस्मादिति ।

प्रष्टव्यभेदादुक्तं प्रश्नभेदं प्रत्याह —

नेति ।

तदेव व्यतिरेकद्वारा स्फोरयति —

भवेदिति ।

ननु प्राज्ञादन्यो जीवो वादिभिरिष्यते, नेत्याह —

नन्विति ।

कठश्रुतिमपेक्ष्यान्तरशब्दः ।

एतद्वाक्यगतलिङ्गेभ्योऽपि जीवपरयोरैक्यं वक्तुं क्रमेण लिङ्गान्युपन्यस्यति —

इहेति ।

यद्यपि परमात्मप्रश्नस्य प्रत्युक्तिं जन्मादिनिषेधेन मृत्युराह, तथापि कथमैक्यं, तत्राह —

सतीति ।

अप्रसक्तनिषेधस्यातिप्रसङ्गित्वात्प्रसङ्गे सत्येव निषेधो युक्तश्चेज्जीवस्यापि ब्रह्मवन्नित्यत्वाज्जन्माद्ययोगान्न तन्निषेधः स्यादित्याशङ्क्याह —

प्रसङ्गश्चेति ।

परस्मिन्नेवाविद्यया देहयोगाज्जन्मादिप्रसङ्गादध्यस्तात्तद्धर्मव्युदासेन जीवतत्त्ववेदनमेव परप्रश्नस्योत्तरं मन्वानस्तयोरैक्यं सूचयतीत्यर्थः ।

तत्रैव लिङ्गान्तरमाह —

तथेति ।

अन्तशब्दो मध्यवाची । येन साक्षिणा लोको भूयो भूयः पश्यति तमात्मानमिति सम्बन्धः ।

वाक्यतात्पर्यमाह —

स्वप्नेति ।

यद्यपि जीवतत्त्वधिया शोकोच्छित्तिस्तथापि कथं जीवप्राज्ञयोरैक्यं, तत्राह —

प्राज्ञेति ।

‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ इत्यादिदर्शनादिति शेषः ।

इतश्च तयोरैक्यमित्याह —

तथेति ।

इह देहे यच्चैतन्यं तदेवामुत्र परत्रादित्यादावसंसारि ब्रह्म, यच्चामुत्र तदेवेह देहेऽनुप्रविष्टमित्यन्योन्यैक्यमित्यर्थः ।

भेददृष्ट्यपवादाच्च तयोरैक्यमित्याह —

मृत्योरिति ।

यः कश्चिदिह ब्रह्मात्मनि नानेव मिथ्याभेदं पश्यति स मरणं प्राप्नोति । पुनः पुनर्म्रियते न पुमर्थभागित्यर्थः ।

जीवप्रश्रानन्तरं तत्तत्कामोक्तिपूर्वकं प्रलोभनेनातिदुर्लभत्वख्यापनादपि जीवो ब्रह्मात्मनाभीष्ट इत्याह —

तथेति ।

अधिकारित्वजिज्ञासनादपि जीवस्य ब्रह्मात्मना प्रतिपाद्यतेत्याह —

यदेति ।

‘नान्यं तस्मात्’ इत्यादिश्रुतेरचलनं नचिकेतसोऽवसीयते ।

वक्ष्यमाणविद्याया मुक्तिहेतुत्वख्यापनादपि जीवस्य ब्रह्मात्मतावदनमित्याह —

तदेति ।

‘अन्यच्छ्रेयोऽन्यदुतैव प्रेयः’ इत्याद्यभ्युदयनिःश्रेयसविभागोक्तिः । ‘दूरमेते विपरीते’ इत्यादिविद्याविद्याविभागगीरिति विभागः । त्वा त्वां बहवोऽपि कामा नालोलुपन्त श्रेयसो विच्छेदं न कृतवन्तस्ततो विद्यार्थिनं त्वां मन्येऽहमिति योजना । ‘त्वादृङ् नो भूयात्’ इति प्रश्नं प्रशंसन्यदुवाच तेनापीति सम्बन्धः ।

जीवप्रश्नस्य परमात्मवाक्येनोत्तरोक्तेरपि तयोरैक्यमित्याह —

तमिति ।

प्रशंसानुपपत्तिरपि प्रश्नयोरर्थैक्यं गमयतीत्याह —

यदिति ।

यद्विषयः प्रश्नो यत्प्रश्नस्तं विहायेति सम्बन्धः । प्रस्तुतप्रश्नवाची तच्छब्दः ।

प्रष्टव्यभेदाभावे फलितमाह —

तस्मादिति ।

प्रश्नस्वभावालोचनया प्रष्टव्यभेदमुक्तमनूद्य प्रत्याह —

यत्त्विति ।

विशेषमेव दर्शयति —

पूर्वत्रेति ।

विशेषोक्तिसमाप्तावितिशब्दः ।

जीवस्य धर्मादिमतो न तद्रहितब्रह्मैक्यमिति प्रष्टव्यभेदमाशङ्क्याह —

यावदिति ।

कथं तर्हि जीवस्याविद्यावतस्तद्धीनब्रह्मैक्यं, तत्राह —

तदिति ।

अविद्यानिवृत्त्युत्तरकालत्वादैक्यस्य तर्हि कृतकत्वेनानित्यत्वं, नेत्याह —

न चेति ।

उक्तं दृष्टान्तेन स्पष्टयति —

यथेत्यादिना ।

जीवब्रह्मैक्ये वरदानोपक्रमाविरोधमुक्त्वा जीवप्रश्नस्याव्यवहितप्रत्युक्तिमत्त्वं, लाभान्तरमाह —

ततश्चेति ।

जीवब्रह्मणोरैक्येन प्रश्नैक्ये कथं त्रयाणामिति सूत्रं, तत्राह —

सूत्रं त्विति ।

योजनामभिनयति —

एकत्वेऽपीति ।

कल्पितभेदेन सूत्रयोजनाप्रकारसमाप्तावितिशब्दः ।

कल्पितभेदेन प्रश्नभेदे फलितमाह —

ततश्चेति ।

परमात्मकल्पनावत्प्रधानकल्पनापि किं न स्यात् , तत्राह —

प्रधानेति ।

वैषम्यं परस्मात्प्रदानस्येति शेषः ॥ ६ ॥