ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
चमसवदविशेषात् ॥ ८ ॥
पुनरपि प्रधानवादी अशब्दत्वं प्रधानस्यासिद्धमित्याह । कस्मात् ? मन्त्रवर्णात् — ‘अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः’ (श्वे. उ. ४ । ५) इति । अत्र हि मन्त्रे लोहितशुक्लकृष्णशब्दैः रजःसत्त्वतमांस्यभिधीयन्ते । लोहितं रजः, रञ्जनात्मकत्वात् । शुक्लं सत्त्वम् , प्रकाशात्मकत्वात् । कृष्णं तमः, आवरणात्मकत्वात् । तेषां साम्यावस्था अवयवधर्मैर्व्यपदिश्यते — लोहितशुक्लकृष्णेति । न जायत इति च अजा स्यात् , ‘मूलप्रकृतिरविकृतिः’ इत्यभ्युपगमात् । नन्वजाशब्दश्छागायां रूढः । बाढम् । सा तु रूढिरिह नाश्रयितुं शक्या, विद्याप्रकरणात् । सा च बह्वीः प्रजास्त्रैगुण्यान्विता जनयति । तां प्रकृतिमज एकः पुरुषो जुषमाणः प्रीयमाणः सेवमानो वा अनुशेते — तामेवाविद्यया आत्मत्वेनोपगम्य सुखी दुःखी मूढोऽहमित्यविवेकितया संसरति । अन्यः पुनरजः पुरुष उत्पन्नविवेकज्ञानो विरक्तो जहात्येनं प्रकृतिं भुक्तभोगां कृतभोगापवर्गां परित्यजति — मुच्यत इत्यर्थः । तस्माच्छ्रुतिमूलैव प्रधानादिकल्पना कापिलानामित्येवं प्राप्ते ब्रूमः —

कारणवाचकाव्यक्तशब्देन कार्यं शरीरं लक्ष्यमित्युक्तम् । इदानीं धर्मवाचिलोहितादिपदैस्तद्धर्मीणि तेजोऽबन्नानि लक्ष्यन्त इत्युपेत्याजामन्त्रस्य प्रधानपरत्वं प्रत्याह —

चमसवदिति ।

अजाशब्दस्य छागतोऽपकृष्टस्य प्रधानमाययोस्तेजोऽबन्ने च गुणतो वृत्तियोगादजामन्त्रः प्रधानपरो वा तेजोऽबन्नाख्यावान्तरप्रकृतिमायारूपपरमप्रकृत्योरन्यतरपरो वेति संशये पूर्वपक्षयति —

पुनरिति ।

प्रधानस्याशब्दतायाः साधितत्वादस्थाने प्रत्यवस्थानमित्याह —

कस्मादिति ।

प्रधानस्यार्थतोऽप्रत्यभिज्ञानात्तस्याव्यक्तपदावाच्यत्वेऽपि त्रिगुणत्वादिनाऽजामन्त्रे तत्प्रत्यभिज्ञानात्तत्परतेति मत्वाह —

मन्त्रेति ।

अजामन्त्रस्याप्रधानपरत्वात्तदशब्दत्वोक्त्या समन्वयस्यैव दार्ढ्यात्पादादिसङ्गतयः । पूर्वपक्षे प्रधानस्य शब्दवत्त्वेन गतिसामान्यासिद्धिः, सिद्धान्ते तस्याशब्दत्वात्तत्सिद्धिरिति फलभेदः ।

मन्त्रवर्णमेवानुक्रामति —

अजामिति ।

प्रधानस्य रूपराहित्यादेतत्प्रतिपाद्यत्वं नास्तीत्याशङ्क्याह —

अत्रेति ।

रूढ्यभावे कथमभिधानं, गुणवृत्त्येत्याह —

लोहितमिति ।

कुसुम्भवदम्भोवन्मेघवच्च तेषां तथात्वेऽपि प्रधानस्य किमायातं, तदाह —

तेषामिति ।

अवयवधर्मैरवयवाः प्रधानस्य सत्त्वादयस्तेषां धर्माः शुक्लादयस्तैरित्यर्थः ।

लोहितादिशब्दानां रञ्जनीयत्वादिगुणयोगाद्रजआदिपरत्वे व्यवहितलक्षणा स्यात् , धर्मिणां तेजोऽबन्नानां ग्रहे नैवमित्याशङ्क्य तेषु जनिमत्त्वादाकृत्यभावाच्चाजाशब्दायोगान्न तल्लक्षणेत्याह —

नेति ।

‘रूढिर्योगमपहरति’ इति न्यायेन शङ्कते —

नन्विति ।

रूढ्ययोगे योगवृत्त्यादानं युक्तमित्याह —

बाढमिति ।

वाक्यशेषस्य प्रधानानुगुण्याच्च मन्त्रस्य तत्परतेत्याह —

सा चेति ।

त्रैगुण्यान्विताः सुखदुःखमोहान्विताः ।

आत्मभेदवादित्वाच्च मन्त्रस्य प्रधानपरतेत्याह —

तामिति ।

अनुशयनमेव विशदयति —

तामेवेति ।

चतुर्थं पादं व्याकरोति —

अन्य इति ।

भुक्तभोगामिति व्याचष्टे —

कृतेति ।

शब्दाद्युपलब्धिर्भोगः । गुणपुरुषान्यताधीरपवृज्यतेऽनेनेत्यपवर्गः ।

स्वरूपस्थितेरकृतकत्वात्पुनर्मुक्तिवचनाच्चाजामन्त्रस्य प्रधानवादानुकूल्ये फलितमाह —

तस्मादिति ।

पूर्वपक्षमनूद्य सिद्धान्तयति —

एवमिति ।