ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
प्राणादयो वाक्यशेषात् ॥ १२ ॥
यस्मिन्पञ्च पञ्चजनाःइत्यत उत्तरस्मिन्मन्त्रे ब्रह्मस्वरूपनिरूपणाय प्राणादयः पञ्च निर्दिष्टाः — ‘प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुःइतितेऽत्र वाक्यशेषगताः सन्निधानात्पञ्चजना विवक्ष्यन्तेकथं पुनः प्राणादिषु जनशब्दप्रयोगः ? तत्त्वेषु वा कथं जनशब्दप्रयोगः ? समाने तु प्रसिद्ध्यतिक्रमे वाक्यशेषवशात्प्राणादय एव ग्रहीतव्या भवन्तिजनसम्बन्धाच्च प्राणादयो जनशब्दभाजो भवन्तिजनवचनश्च पुरुषशब्दः प्राणेषु प्रयुक्तःते वा एते पञ्च ब्रह्मपुरुषाः’ (छा. उ. ३ । १३ । ६) इत्यत्रप्राणो पिता प्राणो माता’ (छा. उ. ७ । १५ । १) इत्यादि ब्राह्मणम्समासबलाच्च समुदायस्य रूढत्वमविरुद्धम्कथं पुनरसति प्रथमप्रयोगे रूढिः शक्याश्रयितुम् ? शक्या उद्भिदादिवदित्याहप्रसिद्धार्थसन्निधाने ह्यप्रसिद्धार्थः शब्दः प्रयुज्यमानः समभिव्याहारात्तद्विषयो नियम्यते; यथाउद्भिदा यजेत’ ‘यूपं छिनत्ति’ ‘वेदिं करोतिइतितथा अयमपि पञ्चजनशब्दः समासान्वाख्यानादवगतसंज्ञाभावः संज्ञ्याकाङ्क्षी वाक्यशेषसमभिव्याहृतेषु प्राणादिषु वर्तिष्यतेकैश्चित्तु देवाः पितरो गन्धर्वा असुरा रक्षांसि पञ्च पञ्चजना व्याख्याताःअन्यैश्च चत्वारो वर्णा निषादपञ्चमाः परिगृहीताःक्वचिच्च यत्पाञ्चजन्यया विशा’ (ऋ. सं. ८ । ६३ । ७) इति प्रजापरः प्रयोगः पञ्चजनशब्दस्य दृश्यतेतत्परिग्रहेऽपीह कश्चिद्विरोधःआचार्यस्तु पञ्चविंशतेस्तत्त्वानामिह प्रतीतिरस्तीत्येवंपरतयाप्राणादयो वाक्यशेषात्इति जगाद ॥ १२ ॥

तद्व्याकुर्वन्निर्णायकमाह —

यस्मिन्निति ।

अप्यर्थे श्रुतावुतशब्दः । येऽपि प्राणादीनां प्राणनादिसाधकमात्मानं विदुस्ते ब्रह्म निश्चितवन्त इति योजना ।

पञ्चजनशब्दो लोके प्राणादिष्वगृहीतसङ्गतिस्तान्कथमाचक्षीतेति शङ्कते —

कथमिति ।

यथा सत्येत्युक्ते सत्यभामा गम्यते तथा जनशब्दो भाष्ये पञ्चजनविषयः ।

किं पञ्चजनशब्दस्य सङ्ख्यीयतत्त्वविषयत्वं, प्राणाद्यविषयत्वं वा । नाद्यः, तेष्वपि शक्यग्रहणसाम्यादित्याह —

तत्त्वेष्विति ।

द्वितीयं प्रत्याह —

समाने त्विति ।

कया तर्हि वृत्या पञ्चजनशब्देन प्राणादिधीः, लक्षणयेत्याह —

जनेति ।

किञ्च पञ्चजनपर्यायस्य पुरुषशब्दस्य प्राणेषु प्रयुक्तपूर्वत्वाद्युक्ता तेषां पञ्चजनशब्दतेत्याह —

जनेति ।

किञ्च पञ्चजनपर्यायस्य पुरुषशब्दस्य प्राणे प्रयुक्तत्वं व्यनक्ति —

ते वा इति ।

ते खल्वेते हृदयच्छिद्रेषु पूर्वदक्षिणपश्चिमोत्तरोर्ध्वेषु पञ्चसु पञ्चप्राणादयो ब्रह्मणो हार्दस्य पुरुषस्य द्वारपाला इत्यत्र प्राणादिषु पुरुषशब्दोऽस्तीत्यर्थः ।

प्राणस्य सर्वात्मत्वादपि तदात्मकानां तेषां युक्ता पञ्चजनशब्दतेत्याह —

प्राणो हेति ।

अवयवप्रसिद्धिसम्भवे समुदायप्रसिद्धिरयुक्ता । सम्भवति पञ्चविंशत्यां तत्त्वेष्ववयवप्रसिद्धिः । पञ्च च ते जनाश्चेति व्युत्पत्तेः ।

तत्त्वानां च जायमानाजायमानानां छत्रिन्यायेन जनशब्दितानां पञ्चसङ्ख्यावतां पञ्चसङ्ख्यावत्त्वे पञ्चविंशतित्वसिद्धिरित्याशङ्क्याह —

समासेति ।

रूढिमाक्षिपति —

कथमिति ।

जनशब्दितमनुष्येषु पञ्चजनशब्जस्य दृष्टत्वात्प्रथमप्रयोगाभावासिद्धावपि तदभावमुपेत्य दृष्टान्तमाह —

शक्येति ।

सङ्ग्रहवाक्यं विवृणोति —

प्रसिदद्धेति ।

तत्रोद्भिदघिकरणमुदाहरति —

यथेति ।

‘उद्भिदा यजेत पशुकामः’ इत्यत्रोद्भित्पदं विधेयगुणार्पकं वा कर्मनाम वेति संशये, खनित्रादावुद्भिच्छब्दस्य प्रसिद्धेः, नामत्वे च यजतितुल्यार्थत्वेनानर्थक्यात् , ज्योतिष्टोमे गुणविधिरिति प्राप्ते, यजेतेति यागेन भावयेदित्यर्थकल्पनात् , उद्भिदेति करणार्थपदस्य तत्सामानाधिकरण्यात्तदेकार्थत्वात् , उद्भिद्वतेति कल्पने मत्वर्थलक्षणापातात् , उद्भिदा यागं भावयेद्यागेन पशुमिति वैयधिकरण्ये च यागस्य फलं प्रति साधनत्वं गुणं प्रति साध्यत्वमिति वैरूप्यात् , विध्यावृत्त्या वाक्यभेदाच्च, उद्भिनत्ति साधयति पशुमिति यागेऽपि प्रसिद्धियोगात् , अत्र नामत्वसिद्धौ चान्यत्र ‘समे दर्शपूर्णमासाभ्यां यजेत्’ इत्यादौ नामवद्यागानुवादेन गुणफलविधिसम्भवात् , ज्योतिष्टोमे वा प्रकृते गुणविध्ययोगात् , कर्मनामैव संनिहितयज्यनुरोधादुद्भित्पदमिति राद्धान्तितमित्यर्थः ।

सङ्ग्रहवाक्यस्थादिशब्दोपात्तमुदाहरणद्बयमाह —

यूपमिति ।

छिनत्तीतिप्रसिद्धार्थपदसमभिव्याहाराद्यूपपदस्य तदर्थश्छेदनयोग्यो दारुविशेषो गम्यते । वेदिं करोतीति च करोतिसमभिव्याहाराद्वेद्यर्थः संस्कारयोग्यः स्थण्डिलविशेषः सिद्ध इत्यर्थः ।

दृष्टान्तत्रयार्थं दार्ष्टान्तिके योजयति —

तथेति ।

आचार्यदेशीयानां मतद्वयमाह —

कैश्चिदित्यादिना ।

शूद्रायां ब्राह्मणाज्जातो निषादः ।

श्रुत्यन्तरानुसारेण सम्भावितं पक्षान्तरमाह —

क्वचिच्चेति ।

पाञ्चजन्यया प्रजया विशतीति विशा पुरुषरूपया यदिन्द्राह्वाननिमित्तं घोषा असृक्षत सृष्टास्तद्युक्तं घोषातिरेकेण तदाह्वानायोगादित्यत्र प्रजापरः प्रयोगो दृष्टः । ततोऽत्र पञ्चसङ्ख्याया उपलक्षणत्वात्पञ्चजनशब्देन सर्वप्रजाग्रहणमित्यर्थः ।

उक्तपक्षान्यतमग्रहेऽपि साङ्ख्यनिरासयोगात्प्रधानस्याशब्दत्वसिद्धेरस्माकं न विशेषपक्षपातोऽस्तीत्याह —

तदिति ।

आचार्यवचनं विरुध्यते तस्य प्राणादिविषयत्वादित्याशङ्क्य व्याख्यान्तराभावधिया तन्न प्रवृत्तमित्याह —

आचार्यस्त्विति ॥ १२ ॥