ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
वाक्यान्वयात् ॥ १९ ॥
बृहदारण्यके मैत्रेयीब्राह्मणेऽधीयते — ‘ वा अरे पत्युः कामायइत्युपक्रम्य वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवत्यात्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदꣳ सर्वं विदितम्’ (बृ. उ. ४ । ५। ६) इतितत्रैतद्विचिकित्स्यतेकिं विज्ञानात्मैवायं द्रष्टव्यश्रोतव्यत्वादिरूपेणोपदिश्यते, आहोस्वित्परमात्मेतिकुतः पुनरेषा विचिकित्सा ? प्रियसंसूचितेनात्मना भोक्त्रोपक्रमाद्विज्ञानात्मोपदेश इति प्रतिभातितथा आत्मविज्ञानेन सर्वविज्ञानोपदेशात्परमात्मोपदेश इतिकिं तावत्प्राप्तम् ? विज्ञानात्मोपदेश इतिकस्मात् ? उपक्रमसामर्थ्यात्पतिजायापुत्रवित्तादिकं हि भोग्यभूतं सर्वं जगत् आत्मार्थतया प्रियं भवतीति प्रियसंसूचितं भोक्तारमात्मानमुपक्रम्यानन्तरमिदमात्मनो दर्शनाद्युपदिश्यमानं कस्यान्यस्यात्मनः स्यात्मध्येऽपि इदं महद्भूतमनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति प्रेत्य संज्ञास्ति’(बृ. उ. २। ४ । १२) इति प्रकृतस्यैव महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावेन ब्रुवन्विज्ञानात्मन एवेदं द्रष्टव्यत्वं दर्शयतितथाविज्ञातारमरे केन विजानीयात्’(बृ. उ. २। ४ । १४) इति कर्तृवचनेन शब्देनोपसंहरन्विज्ञानात्मानमेवेहोपदिष्टं दर्शयतितस्मादात्मविज्ञानेन सर्वविज्ञानवचनं भोक्त्रर्थत्वाद्भोग्यजातस्यौपचारिकं द्रष्टव्यमित्येवं प्राप्ते ब्रूमः

जीवेतरपरविषयत्वे प्रश्नादिना वाक्यस्योक्ते जीवपरभेदमाशङ्क्यात्मशब्दोपक्रान्तस्य ब्रह्मधर्मवत्तया मैत्रेयिब्राह्मणे निर्देशादौपाधिको भेदो वास्तवमैक्यमित्याह —

वाक्येति ।

विषयवाक्यमादत्ते —

बृहदिति ।

आत्मशेषत्वेन पत्यादेः सर्वस्य प्रियत्वादनन्यार्थतया निरुपाधिप्रियत्वेनानतिशयानन्दस्यात्मनो ज्ञातव्यत्वं मत्वाह —

न वा इति ।

आत्मनो दर्शनयोग्यतामुक्त्वा तद्दर्शनमनूद्य तद्धेतुत्वेनाङ्गाङ्गितया श्रवणादिनि दर्शयति —

आत्मेति ।

आत्मवेदने वेदितव्यान्तराभावात्कृतकृत्यतेत्याह —

आत्मन इति ।

उक्तवाक्यस्थमात्मानमधिकृत्य संशयमाह —

तत्रेति ।

प्रश्नपूर्वकं जीवब्रह्मलिङ्गदर्शनं संशयहेतुमाह —

कुत इति ।

प्रियसंसूचितेन पतिजायादिभिः प्रियैर्भौग्यैरनुमितेन भोक्त्रेत्यर्थः ।

विमृश्य पूर्वपक्षयति —

किं तावदिति ।

सत्युभयलिङ्गे विशेषदृष्टौ हेतुं पृच्छति —

कस्मादिति ।

ब्रह्मोपक्रमात्तत्परत्ववदत्रापि जीवोपक्रमात्तत्परतेत्याह —

उपक्रमेति ।

मैत्रेयीब्राह्मणस्य जीवमात्रत्वं निषिध्य ब्रह्मण्यन्वयोक्त्या गतिसामान्यदृढीकरणात्पादादिसङ्गतिः । पूर्वपक्षे ब्राह्मणस्य भोक्त्रर्थतया गतिसामान्यासिद्धौ ब्रह्मकारणत्वासिद्धिः, सिद्धान्ते तस्य प्रत्यग्ब्रह्मार्थत्वेन गतिसामान्यसिद्धेस्तत्सिद्धिरिति फलभेदः ।

उपक्रमसामर्थ्यमेव स्फुटयन्नुपक्रमं दर्शयति —

पतीति ।

जीवस्योपक्रान्तत्वेऽपि परस्य द्रष्टव्यत्वमाशङ्क्य तत्सामर्थ्यं कथयति । अनन्तरमिति । अन्यस्य दर्शनाद्युक्तावुपक्रमो भज्येतेत्यर्थः ।

इतश्च जीवस्यैव द्रष्टव्यतेत्याह —

मध्येऽपीति ।

इदं प्रत्यक्तत्वम् । महदनवच्छिन्नम् । भूतं परमार्थसत्यम् । अनन्तं नित्यम् । अपारं सर्वगतम् । विज्ञानघनो विज्ञानमात्रम् । तत्र जात्यन्तरासंमिश्रत्वमेवार्थः । स वै तेभ्यः कार्यकारणाकारपरिणतेभ्योऽविद्याभूतेभ्यो भूतेभ्यः साम्येनोत्थाय जीवत्वमनुभूय तान्येव भूतानि ज्ञानाद्विनश्यन्त्यनु पश्चाद्विनश्यति विशेषात्मत्वं त्यजति । नच तत्त्यागानन्तरमस्य रूपादिधीरस्तीत्यर्थः ।

ब्रह्मणो द्रष्टव्यत्वे तस्य जीवत्वेनोत्थानोक्तेरयोगात्तस्यैवात्र द्रष्टव्यतेति वाक्यार्थं सङ्गृह्णाति —

प्रकृतस्येति ।

ज्ञानकर्तृत्वोक्तेरुपक्रमादिवदुपसंहारस्यापि जीवपरत्वमाह —

तथेति ।

जीवपक्षे कथमेकविज्ञानेन सर्वविज्ञानमित्याशङ्क्योपक्रमादिना तदौपचारिकमित्याह —

तस्मादिति ।

भोक्तुर्भोग्यं प्रति प्राधान्यात्तज्ज्ञाने तद्धीरुपचरितेत्यर्थः ।

आदिमध्यावसानेभ्यो मैत्रेयीब्रह्मणस्य जीवेऽन्वयान्न ब्रह्मणि गतिसामान्यमित्येतदनूद्य सिद्धान्तमवतार्य बहिरेव प्रतिजानीते —

एवमिति ।