ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥ २० ॥
अस्त्यत्र प्रतिज्ञा — ‘आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवति’ ‘इदꣳ सर्वं यदयमात्माइति तस्याः प्रतिज्ञायाः सिद्धिं सूचयत्येतल्लिङ्गम् , यत्प्रियसंसूचितस्यात्मनो द्रष्टव्यत्वादिसङ्कीर्तनम्यदि हि विज्ञानात्मा परमात्मनोऽन्यः स्यात् , ततः परमात्मविज्ञानेऽपि विज्ञानात्मा विज्ञात इत्येकविज्ञानेन सर्वविज्ञानं यत्प्रतिज्ञातम् , तद्धीयेततस्मात्प्रतिज्ञासिद्ध्यर्थं विज्ञानात्मपरमात्मनोरभेदांशेनोपक्रमणमित्याश्मरथ्य आचार्यो मन्यते ॥ २० ॥

प्रथममाश्मरथ्यमतमाह —

प्रतिज्ञेति ।

प्रतिज्ञासिद्ध्यर्थं प्रतिज्ञामाह —

अस्तीति ।

अत्रेति प्रकृतब्राह्मणवाक्योक्तिः ।

तदर्थं प्रतिज्ञान्तरमाह —

इदमिति ।

ऐक्यप्रतिज्ञया सर्वविज्ञाने विवक्षितेऽपि जीवोपक्रमस्य किं जातं, तदाह —

तस्या इति ।

तदेव व्यतिरेकद्वारा स्पष्टयति —

यदीति ।

‘प्रितज्ञासिद्धेर्लिङ्गम्’ इति व्याख्यायावशिष्टं व्याख्यास्यन्नुपसंहरति —

तस्मादिति ।

भेदोभेदवादद्योतनायाभेदांशेनेत्युक्तम् ॥ २० ॥