उक्तानुमानेषु जीवत्सु नोभयकारणतेति शङ्कते —
कस्मादिति ।
हेतुमादाय व्याचष्टे —
प्रतिज्ञेति ।
एवमिति ।
उभयकारणत्वे सतीति यावत् ।
तयोरनुपरोधं वक्तुं प्रतिज्ञामाह —
प्रतिज्ञेति ।
तद्वाक्यार्थमाह —
तत्रेति ।
तदनुपरोधं स्वमते दर्शयति —
तच्चेति ।
निमित्तकारणज्ञानादेव सर्वज्ञानं किं न स्यात् , तत्राह —
निमित्तेति ।
दृष्टान्तानुपरोधमाह —
दृष्टान्तोऽपीति ।
मृदि ज्ञातायां तद्विकारणस्य ज्ञेयत्वेनानवशेषे हेतुः —
वाचेति ।
घटादेर्वाचारम्भणत्वं वस्तुतोऽसत्वं साधयति —
नामेति ।
शून्यशेषत्वं निषेधति —
मृत्तिकेति ।
विपरीतदृष्टान्तोऽपि स्यादिति शङ्कां निरसितुं दृष्टान्तान्तराण्याह —
तथेति ।
गतिसामान्यार्थमाथर्वणगतौ प्रतिज्ञादृष्टान्तावाह —
तथेति ।
बृहदारण्यकेऽपि तौ निर्दिशति —
आत्मनीति ।
घटः प्रकाशते पटो वेत्यनुगतप्रकाशातिकेण घटादेरसिद्धेस्तत्रैव कल्पितत्वात्प्रकाशोऽनुगतोऽधिष्ठानं प्रकृतिरित्यनुगतः स दृष्टान्तो यथा तथोच्यते ।
बाह्यान् ।
दुन्दुभिशब्दसामान्यबहिर्भूतानिति यावत् । दुन्दुभेस्तच्छब्दसामान्यस्येत्यर्थः । दुन्दुभ्याघातस्य जनकस्य जन्यतया सम्बन्धी वा शब्दो विशेषशब्द इत्यर्थः ।
वेदान्तत्रयगतं न्यायं वेदान्तान्तरेष्वतिदिशति —
एवमिति ।
प्रतिज्ञाद्यनुपरोधलिङ्गादुपादानत्ववत्पञ्चमीश्रुत्यापि तद्धीरित्याह —
यत इति ।
यत इत्यादिश्रुतौ यत इतीयं पञ्चम्यपि प्रकृतिरूपापादानएव द्रष्टव्येति सम्बन्धः ।
जाड्याद्बद्ध एवेति निमित्तेऽपि पञ्चमीदृष्टेऽरुपादानत्वं कथं गमयेत् , तत्राह —
जनीति ।
जायमानस्य कार्यस्य प्रकृतिरुपादानमपादानसंज्ञं भवतीत्यपादाने पञ्चमीस्मरणान्न कारणमात्रे सा युक्तेत्यर्थः ।
यद्यपि सूत्रे प्रकृतिग्रहणं सर्वकारणसङ्ग्रहार्थमित्युक्तं तथापि तदनादृत्य ‘प्रकृतिश्च’ इतिसूत्रस्थप्रकृतिशब्दवदयमपीति मन्यते, तथापि कथं निमित्तत्वं, तदाह —
निमित्तत्वमिति ।
अधिष्ठात्रन्तराभावं व्यतिरेकदृष्टान्तेन साधयति —
यथेति ।
अन्यस्याधिष्ठातुरपेक्षणीयस्यासत्त्वे हेतुमाह —
प्रागिति ।
ब्रह्मणोऽन्यन्निमित्तं जगतो नेत्यत्रापि सूत्रावयवसामर्थ्यमाह —
अधिष्ठात्रन्तरेति ।
उक्तमेव व्यतिरेकेण स्फोरयति —
अधिष्ठातरीति ।
श्रुतिलिङ्गाभ्यां सिद्धमुपसंहरति —
तस्मादिति ॥ २३ ॥