ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
प्रथमेऽध्यायेसर्वज्ञः सर्वेश्वरो जगतः उत्पत्तिकारणम् , मृत्सुवर्णादय इव घटरुचकादीनाम्उत्पन्नस्य जगतो नियन्तृत्वेन स्थितिकारणम् , मायावीव मायायाःप्रसारितस्य जगतः पुनः स्वात्मन्येवोपसंहारकारणम् , अवनिरिव चतुर्विधस्य भूतग्रामस्य एव सर्वेषां आत्माइत्येतद्वेदान्तवाक्यसमन्वयप्रतिपादनेन प्रतिपादितम्प्रधानादिकारणवादाश्चाशब्दत्वेन निराकृताःइदानीं स्वपक्षे स्मृतिन्यायविरोधपरिहारः प्रधानादिवादानां न्यायाभासोपबृंहितत्वं प्रतिवेदान्तं सृष्ट्यादिप्रक्रियाया अविगीतत्वमित्यस्यार्थजातस्य प्रतिपादनाय द्वितीयोऽध्याय आरभ्यतेतत्र प्रथमं तावत्स्मृतिविरोधमुपन्यस्य परिहरति

पूर्वोत्तराध्याययोर्विषयविषयिभावसम्बन्धं वक्तुं पूर्वाध्यायार्थं सङ्क्षेपतोऽनुवदति -

प्रथम इति ।

जन्मादिसूत्रमारभ्योत्पत्त्यादिकारणं ब्रह्मेति तत्र तत्रोक्तं पूर्वाध्यायार्थमनुभाष्यात्मभेदवादिसाङ्ख्यस्मृतिविरोधोद्भावनानुकूलत्वेन ‘शास्त्रदृष्ट्या’ इत्यादिप्रदेशेषु दर्शितमद्वितीयत्वमनुवदति -

स एवेति ।

किम्प्रमाणकमेतदित्याशङ्क्योक्तम् -

एतदिति ।

चतुर्थपादार्थमुत्तरार्थमनुद्रवति

- प्रधानादीति ।

वृत्तमनुभाष्योत्तराध्यायार्थं पादशः सङ्गृह्णाति -

इदानीमिति ।

न्यायाभासोपबृंहितत्वं भ्रान्तिमूलत्वम् । तृतीयचतुर्थपादयोरर्थमाह -

प्रतिवेदान्तं चेति ।

सृष्ट्यादीत्यादिशब्दः सङ्ख्याक्रमसङ्ग्रहार्थः । तत्र तृतीये भूतभोक्तृविषयसृष्ट्यादिवाक्यानामविगानं, चतुर्थे प्राणादिविषयसृष्ट्यादिवाक्यानामिति विभागः । उक्तसमन्वयस्याध्यक्षादिविरोधे तन्निरसनमनेनेति विषयविषयित्वं सम्बन्धः । तत्र पूर्वस्य विषयत्वादस्य विषयित्वान्निर्विषयविचारायोगाद्विषयसिद्ध्युत्तरकालत्वात्तद्विषयविचारस्येति पूर्वोत्तरत्वमनयोरुचितमिति भावः ।

अध्यायमवतार्य तदवयवमाद्याधिकरणमवतारयति -

तत्रेति ।

समन्वये स्मृतिविरोधसमाधानार्थत्वादधिकरणस्य श्रुत्यादिसङ्गतयः । पूर्वपक्षे स्मृतिविरोधे समन्वयासिद्धिः सिद्धान्ते तदविरोधे तत्सिद्धिः ।