उक्तश्चेतने जगदुपादाने समन्वयो विषयः स किं साङ्ख्यस्मृत्या विरुध्यते न वेति तत्प्रामाण्याप्रामाण्याभ्यां सन्देहे पूर्वपक्षमाह -
यदुक्तमिति ।
हेतुत्वेन सूत्रपदमवतारयितुं पृच्छति -
कुत इति ।
सूत्रपदं हेतुमादाय व्याचष्टे -
स्मृतीति ।
तन्त्र्यन्ते व्युत्पाद्यन्ते तत्त्वान्यनेनेति तन्त्रं शास्त्रम् , तन्त्रमित्याख्या यस्याः सा तथेति यावत् ।
आप्तप्रणीतत्वेन प्रामाण्यं तस्याः सूचयति -
परमर्षीति ।
बौद्धादिस्मृतिसाम्यव्यावृत्त्यर्थं विशिनष्टि -
शिष्टेति ।
अन्याश्चेति ।
आसुरिपञ्चशिखादिप्रणीताः ।
एवं सतीति ।
ब्रह्म सर्वज्ञत्वादिविशेषणं जगत्कारणमित्युपगमे सतीत्यर्थः ।
सति विरोधे निरवकाशत्वाशङ्का, विरोधस्तु कथमित्याशङ्क्याह -
तासु हीति ।
उक्तरूपाया मायाशक्तेर्जगत्कारणत्वेन सिद्धान्तेऽपि स्वीकृतत्वान्नास्ति विरोधाशङ्केत्याशङ्क्याह -
स्वतन्त्रमिति ।
साङ्ख्यस्मृतीनां सावकाशत्वाय प्रधानवादोपादाने मन्वादिस्मृतीनां निरवकाशतेत्याशङ्क्य तात्पर्यविषयस्यानुष्ठेयस्याबाधात्तस्मिन्विषये तासामस्ति सावकाशत्वमित्याह -
मन्वादीति ।
क्रत्वर्थसमर्पकत्वेन मन्वादिस्मृतीनां सावकाशत्वमभिनयति -
अस्येति ।
न केवलं क्रत्वर्थप्रतिपादकतया सावकाशत्वं किन्तु पुरुषार्थप्रतिपादकतयापीत्याह -
तथेति ।
नन्वनुष्ठेये विषये कपिलादिस्मृतयोऽपि सावकाशाः सत्यो ब्रह्मकारणवादेऽपि न निरवकाशा भविष्यन्ति, नेत्याह -
नैवमिति ।
तत्र हेतुमाह -
मोक्षेति ।
परिशेषायातं फलितमाह -
यदीति ।
सावकाशनिरवकाशयोर्निरवकाशं बलवदिति न्यायसिद्धमर्थं कथयति -
तस्मादिति ।
पूर्वपक्षमाक्षिपति -
कथमिति ।
मानान्तरनिरपेक्षया श्रुत्या ब्रह्मणि जगत्कारणेऽवधारिते तदपेक्षस्मृत्यवष्टम्भेन तदाक्षेपो न युक्तः । सापेक्षनिरपेक्षयोर्निरपेक्षस्य बलवत्त्वादित्यर्थः ।
स्वतन्त्रप्रज्ञानां परतन्त्रप्रज्ञानां वा यथोक्ताक्षेपानुपपत्तिरिति विकल्प्याद्यमङ्गीकरोति -
भवेदिति ।
स्मृत्यपेक्षामन्तरेण पौर्वापर्यालोचनया श्रुतिवशादेव तदर्थप्रतिपत्तिसामर्थ्यं स्वतन्त्रप्रज्ञत्वम् । नहि तान्प्रति स्मृत्यवष्टम्भेनाक्षेप्तुं युक्तम् , श्रुत्यैव तेषां तदर्थप्रतिपत्तेरुपपत्तेरित्यर्थः ।
द्वितीयं प्रत्याह -
परतन्त्रेति ।
अस्मदादीनां विना स्मृत्यपेक्षां स्वातन्त्र्येण वेदार्थनिर्णये सामर्थ्याभावात्तदर्थमवश्यम्भाविन्यपूर्वसिद्धस्मृत्यपेक्षायां सर्वज्ञकपिलादिप्रणीतस्मृतिविरोधेन श्रुत्यर्थनिश्चयायोगात्तदर्थस्योपचारितत्वोपपत्तौ स्मृत्यवष्टम्भेनाक्षेपः सम्भवतीत्यर्थः ।
स्मृत्यवष्टम्भमन्तरेणापि केषाञ्चिद्वेदार्थनिर्णयः सिध्यति । नहि स्मृतिकर्तारः स्मृत्यन्तरापेक्षया तदर्थं निर्धारयन्तीत्यभिप्रायेण प्रायेणेत्युक्तम् । बौद्धादिस्मृत्यवष्टम्भव्यासेधार्थं प्रख्यातपदम् । तदवलम्बनफलमाह -
तद्बलेनेति ।
श्रुत्यर्थं प्रतिपित्सेरन्निति । उपचरितं तदर्थं प्रतिपद्येरन्नित्यर्थः ।
श्रुतीनामुपचरितार्थप्रतिपित्सा न युक्ता, मुख्येऽर्थे तासां शक्तितात्पर्ययोर्व्याख्यातत्वादित्याशङ्क्याह -
अस्मत्कृते चेति ।
तत्राविश्वासे हेतुमाह -
बहुमानादिति ।
अस्मदादिष्विव तेष्वपि बहुमानानुपपत्तिमाशङ्क्याह -
कपिलेति ।
तेषामप्रतिहतज्ञानत्वप्रतिपादिका स्मृतिः साङ्ख्यस्मृतिवदनिर्णीतप्रामाण्येत्याशङ्क्याह -
श्रुतिश्चेति ।
यस्तावदग्रे सर्गादौ जायमानं कपिलनामानमृषिं स्थितिकाले च प्रसूतं भूतभविष्यद्वर्तमानार्थज्ञानैर्बिभर्ति पुष्णाति तमीश्वरं पश्येदिति योजना ।
योगिप्रत्यक्षमूलतया साङ्ख्यस्मृतीनां श्रुत्यनपेक्षत्वात्तद्विरोधेऽपि नाप्रामाण्यमिति फलितमाह -
तस्मादिति ।
तर्कमूलत्वाच्च कपिलादिस्मृतीनां प्राबल्यमित्याह -
तर्केति ।
‘प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम्’ इत्यादिना ‘यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः’ इत्यन्तेन तर्कस्य निर्णायकत्वावगमात्तद्बलप्रवृत्तकपिलादिस्मृतीनां प्राबल्ये सिद्धे सिद्धमर्थमाह -
तस्मादिति ।
मूलद्वयसाहित्येन बलवत्त्वसम्भावनार्थोऽपिशब्दः ।