ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥ १ ॥
तस्य समाधिः — ‘नान्यस्मृत्यनवकाशदोषप्रसङ्गात्इतियदि स्मृत्यनवकाशदोषप्रसङ्गेनेश्वरकारणवाद आक्षिप्येत, एवमप्यन्या ईश्वरकारणवादिन्यः स्मृतयोऽनवकाशाः प्रसज्येरन्ता उदाहरिष्यामः — ‘यत्तत्सूक्ष्ममविज्ञेयम्इति परं ब्रह्म प्रकृत्य, ‘ ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यतेइति चोक्त्वा, तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम’(म॰भा॰ १२-३३४-२९,३०,३१) इत्याहतथान्यत्रापि अव्यक्तं पुरुषे ब्रह्मन्निर्गुणे सम्प्रलीयते’(म॰भा॰ १२-३३९-३१) इत्याहअतश्च संक्षेपमिमं शृणुध्वं नारायणः सर्वमिदं पुराणः सर्गकाले करोति सर्वं संहारकाले तदत्ति भूयः’(ब्र॰पु॰ १-१-१७४) इति पुराणेभगवद्गीतासु अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा’ (भ. गी. ७ । ६) इतिपरमात्मानमेव प्रकृत्यापस्तम्बः पठतितस्मात्कायाः प्रभवन्ति सर्वे मूलं शाश्वतिकः नित्यः’ (आ. ध. सू. १ । ८ । २३ । २) इतिएवमनेकशः स्मृतिष्वपीश्वरः कारणत्वेनोपादानत्वेन प्रकाश्यतेस्मृतिबलेन प्रत्यवतिष्ठमानस्य स्मृतिबलेनैवोत्तरं वक्ष्यामीत्यतोऽयमन्यस्मृत्यनवकाशदोषोपन्यासःदर्शितं तु श्रुतीनामीश्वरकारणवादं प्रति तात्पर्यम्विप्रतिपत्तौ स्मृतीनामवश्यकर्तव्येऽन्यतरपरिग्रहेऽन्यतरपरित्यागे श्रुत्यनुसारिण्यः स्मृतयः प्रमाणम्अनपेक्ष्या इतराःतदुक्तं प्रमाणलक्षणेविरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्’ (जै. सू. १ । ३ । ३) इति चातीन्द्रियानर्थान् श्रुतिमन्तरेण कश्चिदुपलभत इति शक्यं सम्भावयितुम् , निमित्ताभावात्शक्यं कपिलादीनां सिद्धानामप्रतिहतज्ञानत्वादिति चेत् , सिद्धेरपि सापेक्षत्वात्धर्मानुष्ठानापेक्षा हि सिद्धिः, धर्मश्चोदनालक्षणःततश्च पूर्वसिद्धायाश्चोदनाया अर्थो पश्चिमसिद्धपुरुषवचनवशेनातिशङ्कितुं शक्यतेसिद्धव्यपाश्रयकल्पनायामपि बहुत्वात्सिद्धानां प्रदर्शितेन प्रकारेण स्मृतिविप्रतिपत्तौ सत्यां श्रुतिव्यपाश्रयादन्यन्निर्णयकारणमस्तिपरतन्त्रप्रज्ञस्यापि नाकस्मात्स्मृतिविशेषविषयः पक्षपातो युक्तः, कस्यचित्क्वचित्पक्षपाते सति पुरुषमतिवैश्वरूप्येण तत्त्वाव्यवस्थानप्रसङ्गात्तस्मात्तस्यापि स्मृतिविप्रतिपत्त्युपन्यासेन श्रुत्यनुसाराननुसारविषयविवेचनेन सन्मार्गे प्रज्ञा सङ्ग्रहणीयाया तु श्रुतिः कपिलस्य ज्ञानातिशयं प्रदर्शयन्ती प्रदर्शिता तया श्रुतिविरुद्धमपि कापिलं मतं श्रद्धातुं शक्यम् , कपिलमिति श्रुतिसामान्यमात्रत्वात् , अन्यस्य कपिलस्य सगरपुत्राणां प्रतप्तुर्वासुदेवनाम्नः स्मरणात् , अन्यार्थदर्शनस्य प्राप्तिरहितस्यासाधकत्वात्भवति चान्या मनोर्माहात्म्यं प्रख्यापयन्ती श्रुतिःयद्वै किञ्च मनुरवदत्तद्भेषजम्’ (तै. सं. २ । २ । १० । २) इति; मनुना सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनिसम्पश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति’ (मनु. स्मृ. १२ । ९१) इति सर्वात्मत्वदर्शनं प्रशंसता कापिलं मतं निन्द्यत इति गम्यतेकपिलो हि सर्वात्मत्वदर्शनमनुमन्यते, आत्मभेदाभ्युपगमात्महाभारतेऽपि बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु’(म॰भा॰ १२-३५०-१) इति विचार्य, ‘बहवः पुरुषा राजन्साङ्ख्ययोगविचारिणाम्इति परपक्षमुपन्यस्य तद्व्युदासेनबहूनां पुरुषाणां हि यथैका योनिरुच्यते’,‘ तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम्’(म॰भा॰ १२-३५०-२६,२७) इत्युपक्रम्यममान्तरात्मा तव ये चान्ये देहसंस्थिताःसर्वेषां साक्षिभूतोऽसौ ग्राह्यः केनचित्क्वचित् ॥’,‘विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकःएकश्चरति भूतेषु स्वैरचारी यथासुखम्’(म॰भा॰ १२-३५१-४,५)इति सर्वात्मतैव निर्धारिताश्रुतिश्च सर्वात्मतायां भवतियस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतःतत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इत्येवंविधाअतश्च सिद्धमात्मभेदकल्पनयापि कपिलस्य तन्त्रं वेदविरुद्धं वेदानुसारिमनुवचनविरुद्धं , केवलं स्वतन्त्रप्रकृतिकल्पनयैवेतिवेदस्य हि निरपेक्षं स्वार्थे प्रामाण्यम् , रवेरिव रूपविषयेपुरुषवचसां तु मूलान्तरापेक्षं वक्तृस्मृतिव्यवहितं चेति विप्रकर्षःतस्माद्वेदविरुद्धे विषये स्मृत्यनवकाशप्रसङ्गो दोषः ॥ १ ॥
तस्येति ; यदीति ; एवमपीति ; ता इति ; यत्तदिति ; स हीति ; तस्मादिति ; तथान्यत्रेति ; अतश्चेति ; पुराण इति ; स सर्गेति ; भगवद्गीतास्विति ; परमात्मानमिति ; एवमिति ; अनेकश इति ; स्मृतीति ; दर्शितं त्विति ; विप्रतिपत्तौ चेति ; तदुक्तमिति ; विरोधे त्विति ; न चेति ; शक्यमिति ; न सिद्धेरपीति ; धर्मेति ; स चेति ; ततश्चेति ; अतिशङ्कितुम् ; सिद्धेति ; परतन्त्रेति ; तस्मादिति ; तस्यापीति ; या त्विति ; कपिलमितीति ; अन्यस्येति ; अन्यार्थेति ; भवति चेति ; मनुना चेति ; कपिलो हीति ; महाभारतेऽपीति ; बहव इति ; बहव इत्यादिना ; बहूनामिति ; ममेति ; सर्वेषामिति ; न ग्राह्य इति ; विश्वेति ; एक इति ; श्रुतिश्चेति ; अतश्चेति ; वेदस्येति ; तस्मादिति ॥ १ ॥ ;

साङ्ख्यस्मृतिविरोधं समन्वयस्य पूर्वपक्षमुक्त्वा सिद्धान्तयति -

तस्येति ।

ब्रह्मकारणवादे साङ्ख्यस्मृतिविरोधवत्प्रधानकारणवादेऽपि स्मृत्यन्तरविरोधान्न ब्रह्मवादिनं प्रत्येतदुद्भावनमुचितमिति व्याचष्टे -

यदीति ।

श्रुत्यर्थे स्मृत्यबष्टम्भेनाक्षेपस्यावकाशो नास्तीत्यरुचिं सूचयति -

एवमपीति ।

यासां स्मृतीनां प्रधानवादे निरवकाशत्वं ता दर्शयति -

ता इति ।

‘तस्मादव्यक्तम्’ इत्यत्र तच्छब्देन चेतनमेव कारणं परामृष्टमित्युपदेष्टुं चेतनस्य प्रकृतित्वमाह -

यत्तदिति ।

सूक्ष्मत्वमतीन्द्रियत्वम् । अविज्ञेयत्वं प्रमाणान्तरावगाह्यत्वम् । तर्हि सर्वप्रमाणागोचरत्वान्नास्त्येव तदित्याशङ्क्य सर्वभूतानां सत्तास्फूर्तिप्रदत्वेन स्वतःसिद्धस्य दुरपह्नवत्वं मन्वानो ब्रूते -

स हीति ।

कार्यलिङ्गकमनुमानमपि तत्र सम्भावनाहेतुरित्याशयवानाह -

तस्मादिति ।

अव्यक्तशब्देनाव्याकृतकार्यं भूतसूक्ष्ममत्र विवक्षितम् , अव्याकृतस्यानादित्वेनोत्पत्त्यनभ्युपगमान्निमित्तकारणत्वमेवात्र चेतनस्योक्तमिति सेश्वरसाङ्ख्यमतम् ।

अनादिनोऽपि चाव्यक्तस्य सम्भवत्येवेश्वराधीनत्वमित्याशङ्क्याह -

तथान्यत्रेति ।

अत्र त्वव्यक्तमिति भूतसूक्ष्मलयाधिकरणमव्याकृतं गृहीतम् । इतिहाससमर्पितेऽर्थे पौराणिकीं संमतिमाह -

अतश्चेति ।

अन्तर्यामिव्यतिरिक्तवस्तुनो दुर्वचनत्वमतःशब्दार्थः ।

सर्वात्मत्वे कथमस्य नापक्षयः, सर्वत्रापक्षयोपलम्भादित्याशङ्क्याह -

पुराण इति ।

सर्वस्य तदन्तर्भावेऽपि तस्य सर्वस्मिन्ननन्तर्भावादिति हेतुमभिप्रेत्य सर्वात्मत्वं साधयति -

स सर्गेति ।

उक्तेऽर्थे भागवतीं स्मृतिं संवादयति -

भगवद्गीतास्विति ।

प्रभवत्यस्मादिति प्रभवो जन्महेतुः । प्रलीयतेऽस्मिन्निति प्रलयस्तद्धेतुः । तत्रैव कल्पसूत्रकारसंमतिमाह -

परमात्मानमिति ।

तस्मादित्यात्मलाभान्न परमित्यादौ प्रकृतं परमात्मानं परामृशति । सर्वे काया ब्रह्मादयः स्तम्बपर्यन्ता देहास्तस्मात्प्रभवन्तीति निमित्तत्वमुक्तम् । स मूलमित्युपादानत्वं विपरीतं वा । शश्वद्भवः शाश्वतिकोऽनादिः । स नित्यो नाशशून्य इत्यर्थः ।

उदाहृतस्मृतीनां तात्पर्यमाह -

एवमिति ।

तात्पर्यलिङ्गमभ्यासं दर्शयति -

अनेकश इति ।

ननु श्रुतिविरोधोपन्यासे सम्भाविते किमिति स्मृतिविरोधः सिद्धान्तिनोपन्यस्यते, तत्राह -

स्मृतीति ।

तर्हि स्मृतीनां परस्परविरोधे तत्त्वनिर्णयानुपपत्तिरित्याशङ्क्याह -

दर्शितं त्विति ।

ततश्च मन्वादिस्मृतीनां श्रुतिमूलत्वेन प्राबल्यात्तदनुसारेण तत्त्वनिर्णयसिद्धिरित्यर्थः ।

नन्वनुमितश्रुतिमूलतया कपिलादिस्मृतीनामपि मन्वादिस्मृतिभिः समानबलत्वादनिर्णयतादवस्थ्ये विकल्पः स्यादिति, नेत्याह -

विप्रतिपत्तौ चेति ।

क्रियायामिव वस्तुनि विकल्पायोगाद्विरुद्धस्मृत्युपलब्धावन्यतरत्यागेनान्यतरस्वीकारध्रौव्ये क्लृप्तश्रुतिमूलाः स्मृतयो मानत्वेनापेक्ष्यन्ते, कल्प्यश्रुतिमूलास्तु दुर्बलत्वादुपेक्ष्यन्ते, तथाच तत्त्वनिर्णयोपपत्तिरित्यर्थः ।

ननु यत्र स्मृत्योर्विरोधस्तत्र तन्मूलयोः श्रुत्योर्विरोधपर्यवसानात्तयोश्च तुल्यबलतया व्यवस्थास्थेयेति, तत्राह -

तदुक्तमिति ।

‘औदुम्बरीं स्पृष्ट्वोद्गायेत् ‘ इति प्रत्यक्षश्रुतिविरुद्धा ‘सर्वा वेष्टयितव्या’ इति स्मृतिर्मानं न वेति सन्देहे, वेदार्थानुष्ठातॄणां स्मृतिभिर्मूलश्रुत्यनुमानात्प्रत्यक्षानुमितश्रुत्योश्च तुल्यबलत्वादुदितानुदितहोमवद्विकल्पसम्भवान्मानमिति प्राप्ते प्रत्याह -

विरोधे त्विति ।

श्रुतिविरोधे स्मृतीनां प्रामाण्यमनपेक्षमपेक्षावर्जितम् । हेयमिति यावत् । यतोऽसति विरोधे मूलश्रुत्यनुमानं, प्रत्यक्षश्रुतिविरुद्धे त्वर्थे कुतः स्मृत्या श्रुत्यनुमानं, अर्थापहारेण मानस्याप्यपहारात् । अतो मूलाभावादप्रमाणं सर्ववेष्टनस्मृतिः । तथा कपिलादिस्मृतिरपीत्यर्थः ।

ननु कपिलादिस्मृतेर्न श्रुतिमूलत्वेन प्रामाण्यमिष्यते किन्तु प्रत्यक्षमूलत्वेनेत्याशङ्क्यायोगिप्रत्यक्षं योगिप्रत्यक्षं वा तन्मूलमिति विकल्प्याद्यं दूषयति -

न चेति ।

द्वितीयं शङ्कते -

शक्यमिति ।

अतीन्द्रियार्थोपलम्भनं सम्भावयितुमिति शेषः ।

किं तेषां साधनसाध्या सिद्धिराजानतो वेति विकल्प्याद्ये श्रुतिमन्तरेणातीन्द्रियार्थोपलब्धिर्न सिध्यतीत्याह -

न । सिद्धेरपीति ।

योगमाहात्म्यरूपा सिद्धिः, तस्याः साधनसापेक्षत्ववदतीन्द्रियार्थोपलब्धिरपि कपिलादीनां श्रुत्यपेक्षति वक्तुमपीत्युक्तम् । सिद्धेः सापेक्षत्वं स्फुटयति -

धर्मेति ।

तथापि कथमतीन्द्रियार्थोपलब्धेः श्रुत्यपेक्षेति, तत्राह -

स चेति ।

चोदनासूत्रप्रामाण्याद्धर्मस्य चोदनालक्षणत्वेऽपि कपिलादिवचनानुसारेण श्रुतेरर्थनिर्णये कानुपपत्तिरिति, तत्राह -

ततश्चेति ।

कपिलादीनां विनिश्चितवेदप्रामाण्यानां तदर्थानुष्ठानवतां तत्प्रभावलब्धसिद्धीनां तद्विरुद्धार्थाभिधानासम्भवात्तद्वचनात्प्रागेवावधृतप्रामाण्यस्य वेदस्य तदनुरोधेनोपचरितार्थत्वकल्पनमनुचितमिति भावः ।

अतिशङ्कितुम् ।

मुख्यां वृत्तिमतीत्योपचरितवृत्त्या शङ्कितुमिति यावत् ।

न द्वितीयः, कपिलादीनामीश्वरवदाजानसिद्धेरसिद्धत्वात्सिद्धत्वेऽपि तेषां बहुत्वात्तदुक्तिमाश्रित्य श्रुत्यर्थकल्पनायां तदैकमत्यस्यामानत्वादन्यस्मृत्यनवकाशन्यायेन स्मृतीनामेव मिथो विवादे श्रुत्यवष्टम्भं विना तास्वपि विश्वासाभावान्न तदनुसारेण श्रुत्यर्थनिर्धारणसिद्धिरित्याह -

सिद्धेति ।

यत्तु परतन्त्रप्रज्ञत्वादस्माकमनिश्चितवेदार्थानां विरोधेन स्मृतेरप्रामाण्यमनाशङ्कनीयमपि तु स्मृत्यनुसारेण वेदार्थो निश्चयितव्यः, अन्यथा परतन्त्रप्रज्ञानां वेदार्थानिश्चयप्रसङ्गादिति, तत्राह -

परतन्त्रेति ।

कथं तर्हि परिहृत्याव्यवस्थां तत्त्वं निर्णेतव्यं, तत्राह -

तस्मादिति ।

तस्यापीति ।

तेन परतन्त्रप्रज्ञेनापीत्यर्थः । सन्मार्गः श्रुत्यनुसारिस्मृत्युक्तोऽर्थस्तत्र प्रज्ञासङ्ग्रहस्तस्मिन्नेव बुद्धिस्थैर्यमित्यर्थः ।

ननु कपिलस्याप्रतिहतज्ञानत्वश्रवणात्तदुक्तस्मृत्यप्रामाण्याङ्गीकारे श्रुतिरेव विरुध्येतेत्याशङ्क्याह -

या त्विति ।

कपिलशब्दश्रुत्यविरोधाय सावकाशानवकाशन्यायेन श्रुतिस्मृत्योर्व्यवस्थास्थेयेत्याशङ्क्याह -

कपिलमितीति ।

शब्दसामान्यादेव साङ्ख्यप्रणेता कपिलः श्रौत इति भ्रान्तिविवेकिनामित्यर्थः ।

श्रुतौ तर्हि कपिलशब्दस्य कोऽर्थः स्यादित्याशङ्क्याह -

अन्यस्येति ।

वैदिको हि कपिलो वासुदेवनामा पितुरादेशादश्वमेधपशुमन्विष्य परिसरे पश्यतामिन्द्रचेष्टितमदृष्टवतां षष्टिसहस्रसङ्ख्याजुषामात्मोपरोधिना सगरसुतानां सहसैव भस्मीभावहेतुः साङ्ख्यप्रणेतुरवैदिकादन्यः स्मर्यते । यत्र यत्र वैदिकत्वे सति वासुदेवांशत्वं तत्र तत्र सर्वात्मतोपदेष्ट्टत्वं दृष्टमिह तु तद्विरुद्धार्थोपदेष्ट्टुस्ततोऽन्यत्वमिति भावः । किञ्च परमात्मप्रतिपत्तिपरमिदं वाक्यं, यो ज्ञानैरग्रे प्रसूतं कपिलं बिभर्ति तं पश्येदिति दर्शनात् ।

नच तस्यानुग्राहकन्यायाभावे कपिलज्ञानातिशयावेदकत्वमित्याह -

अन्यार्थेति ।

कपिलस्य द्वैतवादिनः श्रौतत्वं निरस्य सर्वात्मत्ववादिनो मनोः श्रौतत्वमाह -

भवति चेति ।

मनोरपि कपिलेनैकवाक्यत्वं शङ्कित्वोक्तम् -

मनुना चेति ।

सर्वात्मत्वप्रशंसायामपि कथं कापिलं मतं निन्दितमित्याशङ्क्य तद्दर्शयितुं तदीयं मतमाह -

कपिलो हीति ।

पूर्वं कापिलमतस्य कारणविषये व्यासादिवचनविरोधो दर्शितः । सम्प्रति सर्वात्मत्वविषयेऽपि व्यासवचनविरोधमाह -

महाभारतेऽपीति ।

सर्वात्मतैव निर्धारितेत्युत्तरत्र सम्बन्धः ।

पुरुषा जीवाः, ते किं स्वभावेनैव बहवः किंवैक एव परमात्मा बहूनां दृश्यानां स्वभाव इति पृच्छति -

बहव इति ।

पूर्वपक्षमनुभाष्य तन्निरासेन सिद्धान्तमाह -

बहव इत्यादिना ।

यथा पुरुषाणां तदाकाराणां बहूनां देहानामेका पृथिवी योनिरधिष्ठानमुच्यते, तथा तमेकं पुरुषं परमात्मानं बहुलत्वेन प्रतिप्रन्नानां जीवानां वास्तवं स्वभावं विश्वं परिपूर्णं सर्वज्ञत्वादिगुणयुक्तं कथयिष्यामीत्याह -

बहूनामिति ।

सर्वज्ञत्वादिगुणकस्य तद्विरुद्धप्रत्यगात्मैक्यमयुक्तमित्याशङ्क्य विरोधस्य प्रातीतिकत्वं मत्वोक्तम् -

ममेति ।

सर्वान्तरात्मत्वे परस्मिन्नपि संसारित्वप्रसक्तिरित्याशङ्क्य वस्तुतस्तदभावमाह -

सर्वेषामिति ।

किमिति तर्हि प्रत्यात्ममात्मभूतः परमात्मा नोपलभ्यते, तत्राह -

न ग्राह्य इति ।

तस्यासत्त्वं शङ्कित्वोक्तम् -

विश्वेति ।

विश्वे मूर्धानोऽस्यैव सर्वत्र प्रतिबिम्बितत्वात् । तथा विश्वभुजादौ योज्यम् -

परमात्मनः सर्वात्मत्वेनोक्तस्य निरपेक्षतया स्वतन्त्रस्य परमसुखरूपतामाह -

एक इति ।

कापिलमतस्य वेदानुसारिस्मृतिविरोधमुक्त्वा साक्षादेव वेदविरोधमाह -

श्रुतिश्चेति ।

यस्मिन्काले पुरुषस्य विजानतः स्वरूपतयाधिगतब्रह्मण एव सर्वत्र प्रतिबिम्बितत्वाद्भूतानि सर्वाण्यात्मैवाभूत्तस्मिन्काले शोकमोहोपलक्षितः सर्वोऽपि सकारणः संसारो विदुषो नास्तीति श्रुत्यर्थः ।

श्रुतिस्मृतिविरोधे परमतस्यानादेयत्वं सिद्धमित्युपसंहरति -

अतश्चेति ।

इतिशब्दः सिद्धमित्यनेन सम्बध्यते ।

वेदविरोधे स्मृतेरेव किमित्यप्रामाण्यं, विपरीतं किं न स्यादित्याशङ्क्याह -

वेदस्येति ।

ईश्वरकार्यत्वेऽपि तद्धीपूर्वकत्वाभावाद्वेदस्यापौरुषेयत्वेनानपेक्षत्वात् , कपिलादिस्मृतीनां तु तदर्थस्मृतिपूर्वकत्वात्तदर्थस्मृतीनां च तदर्थानुभवपूर्वकत्वादुक्तप्रामाण्यनिश्चयाय स्मृत्यनुभवौ यावत्कल्प्येते, तावदेव स्वतःसिद्धप्रामाण्यवेदवाक्यात्तदर्थो निश्चित इति झटिति प्रवृत्तवेदवाक्योत्थं ज्ञानमसञ्जातविरोधि स्मृतिविरोधे तत्प्रामाण्यस्य बाधकमिति भावः । विप्रकर्षो विशेषः । श्रुतिस्मृत्योरिति यावत् ।

सिद्धे विशेषे फलितमाह -

तस्मादिति ॥ १ ॥