न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ ४ ॥
ब्रह्मास्य जगतो निमित्तकारणं प्रकृतिश्चेत्यस्य पक्षस्याक्षेपः स्मृतिनिमित्तः परिहृतः; तर्कनिमित्त इदानीमाक्षेपः परिह्रियते । कुतः पुनरस्मिन्नवधारिते आगमार्थे तर्कनिमित्तस्याक्षेपस्यावकाशः ? ननु धर्म इव ब्रह्मण्यप्यनपेक्ष आगमो भवितुमर्हति; — भवेदयमवष्टम्भो यदि प्रमाणान्तरानवगाह्य आगममात्रप्रमेयोऽयमर्थः स्यादनुष्ठेयरूप इव धर्मः । परिनिष्पन्नरूपं तु ब्रह्मावगम्यते । परिनिष्पन्ने च वस्तुनि प्रमाणान्तराणामस्त्यवकाशो यथा पृथिव्यादिषु । यथा च श्रुतीनां परस्परविरोधे सत्येकवशेनेतरा नीयन्ते, एवं प्रमाणान्तरविरोधेऽपि तद्वशेनैव श्रुतिर्नीयेत । दृष्टसाम्येन चादृष्टमर्थं समर्थयन्ती युक्तिरनुभवस्य सन्निकृष्यते, विप्रकृष्यते तु श्रुतिः ऐतिह्यमात्रेण स्वार्थाभिधानात् । अनुभवावसानं च ब्रह्मविज्ञानमविद्याया निवर्तकं मोक्षसाधनं च दृष्टफलतयेष्यते । श्रुतिरपि — ‘श्रोतव्यो मन्तव्यः’ इति श्रवणव्यतिरेकेण मननं विदधती तर्कमप्यत्रादर्तव्यं दर्शयति । अतस्तर्कनिमित्तः पुनराक्षेपः क्रियते ‘न विलक्षणत्वादस्य’ इति ॥
यदुक्तम् चेतनं ब्रह्म जगतः कारणं प्रकृतिः इति,
तन्नोपपद्यते ।
कस्मात् ?
विलक्षणत्वादस्य विकारस्य प्रकृत्याः —
इदं हि ब्रह्मकार्यत्वेनाभिप्रेयमाणं जगद्ब्रह्मविलक्षणमचेतनमशुद्धं च दृश्यते ।
ब्रह्म च जगद्विलक्षणं चेतनं शुद्धं च श्रूयते ।
न च विलक्षणत्वे प्रकृतिविकारभावो दृष्टः ।
न हि रुचकादयो विकारा मृत्प्रकृतिका भवन्ति,
शरावादयो वा सुवर्णप्रकृतिकाः ।
मृदैव तु मृदन्विता विकाराः क्रियन्ते,
सुवर्णेन च सुवर्णान्विताः ।
तथेदमपि जगदचेतनं सुखदुःखमोहान्वितं सत् अचेतनस्यैव सुखदुःखमोहात्मकस्य कारणस्य कार्यं भवितुमर्हति,
न विलक्षणस्य ब्रह्मणः ।
ब्रह्मविलक्षणत्वं चास्य जगतोऽशुद्ध्यचेतनत्वदर्शनादवगन्तव्यम् ।
अशुद्धं हीदं जगत् ,
सुखदुःखमोहात्मकतया प्रीतिपरितापविषादादिहेतुत्वात्स्वर्गनरकाद्युच्चावचप्रपञ्चत्वाच्च ।
अचेतनं चेदं जगत् ,
चेतनं प्रति कार्यकरणभावेनोपकरणभावोपगमात् ।
न हि साम्ये सत्युपकार्योपकारकभावो भवति ।
न हि प्रदीपौ परस्परस्योपकुरुतः ।
ननु चेतनमपि कार्यकरणं स्वामिभृत्यन्यायेन भोक्तुरुपकरिष्यति ।
न,
स्वामिभृत्ययोरप्यचेतनांशस्यैव चेतनं प्रत्युपकारकत्वात् ।
यो ह्येकस्य चेतनस्य परिग्रहो बुद्ध्यादिरचेतनभागः स एवान्यस्य चेतनस्योपकरोति,
न तु स्वयमेव चेतनश्चेतनान्तरस्योपकरोत्यपकरोति वा ।
निरतिशया ह्यकर्तारश्चेतना इति साङ्ख्या मन्यन्ते ।
तस्मादचेतनं कार्यकरणम् ।
न च काष्ठलोष्टादीनां चेतनत्वे किञ्चित्प्रमाणमस्ति ।
प्रसिद्धश्चायं चेतनाचेतनविभागो लोके ।
तस्माद्ब्रह्मविलक्षणत्वान्नेदं जगत्तत्प्रकृतिकम् ।
योऽपि कश्चिदाचक्षीत —
श्रुत्वा जगतश्चेतनप्रकृतिकताम् ,
तद्बलेनैव समस्तं जगच्चेतनमवगमयिष्यामि,
प्रकृतिरूपस्य विकारेऽन्वयदर्शनात्;
अविभावनं तु चैतन्यस्य परिणामविशेषाद्भविष्यति ।
यथा स्पष्टचैतन्यानामप्यात्मनां स्वापमूर्छाद्यवस्थासु चैतन्यं न विभाव्यते,
एवं काष्ठलोष्टादीनामपि चैतन्यं न विभावयिष्यते ।
एतस्मादेव च विभावितत्वाविभावितत्वकृताद्विशेषाद्रूपादिभावाभावाभ्यां च कार्यकरणानामात्मनां च चेतनत्वाविशेषेऽपि गुणप्रधानभावो न विरोत्स्यते ।
यथा च पार्थिवत्वाविशेषेऽपि मांससूपौदनादीनां प्रत्यात्मवर्तिनो विशेषात्परस्परोपकारित्वं भवति,
एवमिहापि भविष्यति ।
प्रविभागप्रसिद्धिरप्यत एव न विरोत्स्यत इति —
तेनापि कथञ्चिच्चेतनाचेतनत्वलक्षणं विलक्षणत्वं परिह्रियेत;
शुद्ध्यशुद्धित्वलक्षणं तु विलक्षणत्वं नैव परिह्रियते ।
न चेतरदपि विलक्षणत्वं परिहर्तुं शक्यत इत्याह —
तथात्वं च शब्दादिति ।
अनवगम्यमानमेव हीदं लोके समस्तस्य वस्तुनश्चेतनत्वं चेतनप्रकृतिकत्वश्रवणाच्छब्दशरणतया केवलयोत्प्रेक्ष्यते ।
तच्च शब्देनैव विरुध्यते,
यतः शब्दादपि तथात्वमवगम्यते ।
तथात्वमिति प्रकृतिविलक्षणत्वं कथयति ।
शब्द एव ‘विज्ञानं चाविज्ञानं च’ (तै. उ. २ । ६ । १) इति कस्यचिद्विभागस्याचेतनतां श्रावयंश्चेतनाद्ब्रह्मणो विलक्षणमचेतनं जगच्छ्रावयति ॥ ४ ॥