ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ ४ ॥
ब्रह्मास्य जगतो निमित्तकारणं प्रकृतिश्चेत्यस्य पक्षस्याक्षेपः स्मृतिनिमित्तः परिहृतः; तर्कनिमित्त इदानीमाक्षेपः परिह्रियतेकुतः पुनरस्मिन्नवधारिते आगमार्थे तर्कनिमित्तस्याक्षेपस्यावकाशः ? ननु धर्म इव ब्रह्मण्यप्यनपेक्ष आगमो भवितुमर्हति; — भवेदयमवष्टम्भो यदि प्रमाणान्तरानवगाह्य आगममात्रप्रमेयोऽयमर्थः स्यादनुष्ठेयरूप इव धर्मःपरिनिष्पन्नरूपं तु ब्रह्मावगम्यतेपरिनिष्पन्ने वस्तुनि प्रमाणान्तराणामस्त्यवकाशो यथा पृथिव्यादिषुयथा श्रुतीनां परस्परविरोधे सत्येकवशेनेतरा नीयन्ते, एवं प्रमाणान्तरविरोधेऽपि तद्वशेनैव श्रुतिर्नीयेतदृष्टसाम्येन चादृष्टमर्थं समर्थयन्ती युक्तिरनुभवस्य सन्निकृष्यते, विप्रकृष्यते तु श्रुतिः ऐतिह्यमात्रेण स्वार्थाभिधानात्अनुभवावसानं ब्रह्मविज्ञानमविद्याया निवर्तकं मोक्षसाधनं दृष्टफलतयेष्यतेश्रुतिरपि — ‘श्रोतव्यो मन्तव्यःइति श्रवणव्यतिरेकेण मननं विदधती तर्कमप्यत्रादर्तव्यं दर्शयतिअतस्तर्कनिमित्तः पुनराक्षेपः क्रियते विलक्षणत्वादस्यइति

चेतनाद्ब्रह्मणो जगदुत्पत्तिं ब्रुवन्समन्वयो विषयः । स किमाकाशादि न चेतनप्रकृतिकं द्रव्यत्वाद्धटादिवदिति साङ्ख्ययोगन्यायेन विरुध्यते न वेति तदनाभासत्वाभासत्वाभ्यां सन्देहे पूर्वाधिकरणेनोत्तराधिकरणसन्दर्भस्य सङ्गतिमाह -

ब्रह्मेति ।

अत्र च समन्वयस्य यथोक्तन्यायविरोधसमाधेरेव श्रुत्यादिसङ्गतयः । फलं तु पूर्वोत्तरपक्षयोः समन्वयासिद्धिस्तत्सिद्धिश्चेति ।

पूर्वपक्षमाक्षिपति -

कुत इति ।

ब्रह्मणो मानान्तराविषयत्वेनातर्क्यत्वेन चानपेक्षाम्नायैकगम्यत्वात्तर्कागमयोरतुल्यार्थत्वेनाविरोधादागमार्थे तर्कनिमित्ताक्षेपस्य निरवकाशतेत्यर्थः ।

ननु तर्कोपकरणेतिकर्तव्यताया वेदान्तमीमांसायास्तर्कोपकरणत्वमुक्तं प्रथमसूत्रे, तथाच तर्कस्य वेदान्तैस्तुल्यार्थत्वमिष्टम् , करणोपकरणयोरेकार्थत्वावगमात् , तत्राह -

नन्विति ।

शक्तितात्पर्यावधारणे परं तर्कस्योपकरणत्वं नतु तस्य ब्रह्मविषयता । ‘नैषा तर्केण’ इति श्रुतेरित्यर्थः ।

सिद्धस्य ब्रह्मणः साध्याद्धर्माद्वैलक्षण्येनाध्यक्षादिविषयत्वसम्भवात्तर्कगम्यत्वमपि सम्भवति । अतस्तुल्यविषयत्वादागमार्थेऽपि तर्कनिमित्ताक्षेपस्यावकाशोऽस्तीति समाधत्ते -

भवेदित्यादिना ।

एकविषयत्वेन विरोधेऽपि किमिति मानान्तरमेव श्रुतिविरोधान्न बाध्यते, तत्र दृष्टान्तेनोत्तरमाह -

यथाचेति ।

यथा सावकाशा भूयस्योऽपि श्रुतयो निरवकाशैकश्रुतिविरोधे तदनुरोधेन नीयन्ते तथा निरवकाशैकतर्कविरोधे तदनुगुणतया भूयस्योऽपि श्रुतयो गुणकल्पनया व्याख्येयाः । सावकाशनिरवकाशयोर्निरवकाशस्य बलीयस्त्वादित्यर्थः ।

ब्रह्मण्याम्नायात्तर्कस्य बलीयस्त्वे हेत्वन्तरमाह -

दृष्टेति ।

ब्रह्मसाक्षात्कारस्य मोक्षोपायतया प्राधान्यात्तत्र शब्दादपि परोक्षगोचरादपरोक्षार्थसाधर्म्यगोचरस्तर्कोऽन्तरङ्गमिति तस्यैव बलवत्त्वमित्यर्थः । ऐतिह्यमात्रेण प्रवादपारम्पर्यमात्रेण । परोक्षतयेति यावत् । अनुभवस्य प्राधान्ये तर्कस्योक्तन्यायेन तस्मिन्नन्तरङ्गत्वादागमस्य च बहिरङ्गत्वात् ‘अन्तरङ्गबहिरङ्गयोरन्तरङ्गं बलवत्’ इति न्यायादुक्तं तर्कस्य बलवत्त्वम् ।

अनुभवप्राधान्यं तु नाद्यापि सिद्धमित्याशङ्क्याह -

अनुभवेति ।

ननु ब्रह्मज्ञानं वैदिकत्वाद्धर्मवददृष्टफलमेष्टव्यं, तत्कुतोऽस्यानुभवावसानाविद्यानिवर्तकत्वं, तत्राह -

मोक्षेति ।

अधिष्ठानसाक्षात्कारस्य शुक्त्यादिज्ञाने तदविद्यातत्कार्यनिवर्तकत्वदृष्टेर्ब्रह्मज्ञानस्यापि तर्कवशादसम्भावनादिनिरासद्वारा साक्षात्कारावसायिनस्तदविद्यानिवर्तकत्वेनैव मुक्तिहेतुतेति नादृष्टफलतेत्यर्थः ।

यत्तु ‘नैषा’ इत्यादिश्रुतेर्ब्रह्मणि न प्रवेशस्तर्कस्येति, तत्राह -

श्रुतिरपीति ।

विधिविरोधेऽर्थवादश्रुतिरदृढीभवतीति भावः ।

ब्रह्मणि तर्कप्रवेशे फलितमाह -

अत इति ।