ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥ ५ ॥
ननु चेतनत्वमपि क्वचिदचेतनत्वाभिमतानां भूतेन्द्रियाणां श्रूयते — यथा ‘मृदब्रवीत्’ ‘आपोऽब्रुवन्’ (श. ब्रा. ६ । १ । ३ । २ । ४) इति ‘तत्तेज ऐक्षत’ (छा. उ. ६ । २ । ३),‘ता आप ऐक्षन्त’ (छा. उ. ६ । २ । ४) इति चैवमाद्या भूतविषया चेतनत्वश्रुतिः । इन्द्रियविषयापि — ‘ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुः’ (बृ. उ. ६ । १ । ७) इति, ‘ते ह वाचमूचुस्त्वं न उद्गायेति’ (बृ. उ. १ । ३ । २) इत्येवमाद्येन्द्रियविषयेति । अत उत्तरं पठति —

केवलश्रुत्यपेक्षया तदनुगृहीतार्थापत्तेर्बलीयस्त्वाद्विभागश्रुत्यर्थस्यौपचारिकत्वमेवेति शङ्कते -

नन्विति ।

यथाशब्दस्तथाशब्दमध्याहृत्येन्द्रियविषयाणि चेतनत्वश्रुतिरस्तीति सम्बध्यते । कासाविन्द्रियविषया श्रुतिरित्यपेक्षायामाह -

ते हेति ।

मृदादिश्रुतिरभिमानिदेवताविषयतया मुख्यार्था सती विभागश्रुतेरुपचरितार्थतां न कल्पयतीति परिहरति -

अत इति ।