ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
दृश्यते तु ॥ ६ ॥
तुशब्दः पक्षं व्यावर्तयति । यदुक्तम् विलक्षणत्वान्नेदं जगद्ब्रह्मप्रकृतिकम् इति, नायमेकान्तः; दृश्यते हि लोके — चेतनत्वेन प्रसिद्धेभ्यः पुरुषादिभ्यो विलक्षणानां केशनखादीनामुत्पत्तिः, अचेतनत्वेन च प्रसिद्धेभ्यो गोमयादिभ्यो वृश्चिकादीनाम् । नन्वचेतनान्येव पुरुषादिशरीराण्यचेतनानां केशनखादीनां कारणानि, अचेतनान्येव च वृश्चिकादिशरीराण्यचेतनानां गोमयादीनां कार्याणीति । उच्यते — एवमपि किञ्चिदचेतनं चेतनस्यायतनभावमुपगच्छति किञ्चिन्नेत्यस्त्येव वैलक्षण्यम् । महांश्चायं पारिणामिकः स्वभावविप्रकर्षः पुरुषादीनां केशनखादीनां च स्वरूपादिभेदात् , तथा गोमयादीनां वृश्चिकादीनां च । अत्यन्तसारूप्ये च प्रकृतिविकारभाव एव प्रलीयेत । अथोच्येत — अस्ति कश्चित्पार्थिवत्वादिस्वभावः पुरुषादीनां केशनखादिष्वनुवर्तमानो गोमयादीनां च वृश्चिकादिष्विति । ब्रह्मणोऽपि तर्हि सत्तालक्षणः स्वभाव आकाशादिष्वनुवर्तमानो दृश्यते । विलक्षणत्वेन च कारणेन ब्रह्मप्रकृतिकत्वं जगतो दूषयता किमशेषस्य ब्रह्मस्वभावस्याननुवर्तनं विलक्षणत्वमभिप्रेयते, उत यस्य कस्यचित् , अथ चैतन्यस्येति वक्तव्यम् । प्रथमे विकल्पे समस्तप्रकृतिविकारभावोच्छेदप्रसङ्गः । न ह्यसत्यतिशये प्रकृतिविकार इति भवति । द्वितीये चासिद्धत्वम् । दृश्यते हि सत्तालक्षणो ब्रह्मस्वभाव आकाशादिष्वनुवर्तमान इत्युक्तम् । तृतीये तु दृष्टान्ताभावः । किं हि यच्चैतन्येनानन्वितं तदब्रह्मप्रकृतिकं दृष्टमिति ब्रह्मकारणवादिनं प्रत्युदाह्रियेत, समस्तस्य वस्तुजातस्य ब्रह्मप्रकृतिकत्वाभ्युपगमात् । आगमविरोधस्तु प्रसिद्ध एव, चेतनं ब्रह्म जगतः कारणं प्रकृतिश्चेत्यागमतात्पर्यस्य प्रसाधितत्वात् । यत्तूक्तं परिनिष्पन्नत्वाद्ब्रह्मणि प्रमाणान्तराणि सम्भवेयुरिति, तदपि मनोरथमात्रम् । रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षस्य गोचरः । लिङ्गाद्यभावाच्च नानुमानादीनाम् । आगममात्रसमधिगम्य एव त्वयमर्थो धर्मवत् । तथा च श्रुतिः — ‘नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ’ (क. उ. १ । २ । ९) इति । ‘को अद्धा वेद क इह प्रवोचत्’ ‘इयं विसृष्टिर्यत आबभूव’ (ऋ. सं. १० । १२९ । ७) इति चैते ऋचौ सिद्धानामपीश्वराणां दुर्बोधतां जगत्कारणस्य दर्शयतः । स्मृतिरपि भवति — ‘अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्’ इति, ‘अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते’ (भ. गी. २ । २५) इति च, ‘न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहमादिर्हि देवानां महर्षीणां च सर्वशः’ (भ. गी. १० । २) इति चैवंजातीयका । यदपि श्रवणव्यतिरेकेण मननं विदधच्छब्द एव तर्कमप्यादर्तव्यं दर्शयतीत्युक्तम् , नानेन मिषेण शुष्कतर्कस्यात्रात्मलाभः सम्भवति । श्रुत्यनुगृहीत एव ह्यत्र तर्कोऽनुभवाङ्गत्वेनाश्रीयते — स्वप्नान्तबुद्धान्तयोरुभयोरितरेतरव्यभिचारादात्मनोऽनन्वागतत्वम् , सम्प्रसादे च प्रपञ्चपरित्यागेन सदात्मना सम्पत्तेर्निष्प्रपञ्चसदात्मत्वम् , प्रपञ्चस्य ब्रह्मप्रभवत्वात्कार्यकारणानन्यत्वन्यायेन ब्रह्माव्यतिरेकः — इत्येवंजातीयकः; ‘तर्काप्रतिष्ठानादि’ (ब्र. सू. २ । १ । ११) ति च केवलस्य तर्कस्य विप्रलम्भकत्वं दर्शयिष्यति । योऽपि चेतनकारणश्रवणबलेनैव समस्तस्य जगतश्चेतनतामुत्प्रेक्षेत, तस्यापि ‘विज्ञानं चाविज्ञानं च’ (तै. उ. २ । ६ । १) इति चेतनाचेतनविभागश्रवणं विभावनाविभावनाभ्यां चैतन्यस्य शक्यत एव योजयितुम् । परस्यैव त्विदमपि विभागश्रवणं न युज्यते । कथम् ? परमकारणस्य ह्यत्र समस्तजगदात्मना समवस्थानं श्राव्यते — ‘विज्ञानं चाविज्ञानं चाभवत्’ इति । तत्र यथा चेतनस्याचेतनभावो नोपपद्यते विलक्षणत्वात् , एवमचेतनस्यापि चेतनभावो नोपपद्यते । प्रत्युक्तत्वात्तु विलक्षणत्वस्य यथा श्रुत्येव चेतनं कारणं ग्रहीतव्यं भवति ॥ ६ ॥

सिद्धान्तसूत्रं विभजते -

तुशब्द इति ।

व्यावर्त्यपक्षमनूद्य तद्व्यावृत्तिप्रकारमेव विवृणोति -

यदुक्तमिति ।

वैलक्षण्ये प्रकृतिविकृतिभावासिद्धिरिति नियमभङ्गे हुतेमाह -

दृश्यते हीति ।

दृष्टान्ते वैलक्षण्यमसिद्धमिति शङ्कते -

नन्विति ।

तत्राचेतनानां कार्यकारणभावमभ्युपेत्यैव वैलक्षण्यं साधयति -

उच्यत इति ।

ईदृशं वैलक्षण्यमविवक्षितं कारणगतासाधारणधर्माननुगतिरूपं तु तदिष्टमित्याशङ्क्याह -

महांश्चेति ।

पारिणामिकः । तत्तत्केशादिगतपरिणामात्मक इति यावत् । रूपादीत्यादिशब्देन परिमाणादि परिगृह्यते । किञ्च वैलक्षण्यात्प्रकृतिविकृतित्वं प्रत्याचक्षाणः सालक्षण्यात्तदिच्छति तच्च कारणधर्माणां सर्वेषामनुगमो वा कस्यचिदेव वा कारणस्वभावस्येति विकल्प्याद्ये दोषमाह -

अत्यन्तेति ।

द्वितीयमुत्थापयति -

अथेति ।

तर्हि जगद्ब्रह्मणोरपि किञ्चित्स्वभावानुगतिरूपसारूप्यसम्भवान्न प्रकृतिविकृतित्वप्रत्याख्यानमित्याह -

ब्रह्मणोऽपीति ।

प्रकृतिविकृतित्वहेतुं सालक्षण्यं विकल्प्य दूषयित्वा तदभावहेतुं वैलक्षण्यं विकल्पयति -

विलक्षणत्वेनेति ।

आद्यमप्रयोजकत्वेन प्रत्याचष्टे -

प्रथम इति ।

अस्तु समस्तस्य ब्रह्मस्वभावस्य जगत्यननुवर्तनमस्तु च जगतो ब्रह्मप्रकृतिकत्वं का हानिः । नच जगतो ब्रह्मप्रकृतिकत्वे समस्ततत्स्वभावस्य जगत्यनुवर्तनानुपत्तिः, सर्वस्यापि कार्ये सर्वकारणरूपानुवृत्तावसति विशेषे प्रकृतिविकृतित्वासिद्धेरित्युक्तमुपपादयति -

नहीति ।

मध्यमकल्पमसिध्या निरस्यति -

द्वितीये चेति ।

अन्तिममसाधारणत्वेन निराकरोति -

तृतीये त्विति ।

दृष्टान्ताभावमेव स्पष्टयति -

किं हीति ।

आकाशादेर्दृष्टान्तत्वमाशङ्क्याह -

समस्तस्येति ।

पक्षत्रयेऽपि साधारणं कालातीतत्वमाह -

आगमेति ।

ब्रह्मणो मानान्तरगम्यत्वमङ्गीकृत्योक्तं तदपि नास्तीत्युक्तानुवादपूर्वकमाह -

यत्त्विति ।

यथा कार्यत्वाविशेषेऽपि ‘आरोग्यकामः पथ्यमश्नीयात्’ ‘स्वर्गकामो यजेत’ इत्यत्रैकस्य मानान्तरयोग्यत्वं नेतरस्येति स्वीकृतं तथा भूतत्वाविशेषेऽपि पृथिव्यादेर्मानान्तरगम्यत्वं ब्रह्मणस्त्वाम्नायैकगम्यतेति मन्वानः सन्नाह -

आगममात्रेति ।

ब्रह्मणो मानान्तरायोग्यत्वे मानमाह -

तथाचेति ।

ब्रह्मविषया मतिरेषा तर्केण नापनेया नापनीया । न प्रापणीयेत्यर्थः । यद्वा कुतर्केण नापनेया निरस्या न भवति किं त्वन्येनैवाचार्येण वेदविदा प्रोक्ता सुज्ञानाय फलावसायिसाक्षात्काराय भवति । हे प्रेष्ठ प्रियतमेति नचिकेतसं प्रति मृत्योर्वचनम् । क इह ब्रह्म व्यवहारभूमावद्धा साक्षाद्वेद । को वा तत्प्रावोचत । छान्दसो दैर्घ्यलोपः छन्दसि कालानियमात् । ब्रह्म प्रब्रूयादित्यर्थः । यतो यस्मात्परस्मादात्मनः सकाशादियं विसृष्टिर्विविधा सृष्टिर्बभूव स एव स्वरूपं वेद नान्य इति मन्त्रप्रतीकयोरर्थः ।

प्रतीकतो दर्शितयोर्मन्त्रयोस्तात्पर्यमाह -

एते इति ।

ब्रह्मणस्तर्काद्यगोचरत्वे पौराणिकसंमतिमाह -

अचिन्त्या इति ।

भावानामचिन्त्यत्वेन तर्कागोचरत्वेऽपि ब्रह्मणि किमायातमित्याशङ्क्य भगवद्वाक्यमुदाहरति -

अव्यक्तोऽयमिति ।

कथमविकार्योऽयमित्याशङ्क्य जन्ममरणयोर्मानाभावादित्याह -

न म इति ।

तेषामीश्वरप्रभवाप्रमितिकर्तृत्वे हेतुमाह -

अहमिति ।

श्रुतिस्मृतिभ्यां ब्रह्मणस्तर्काविषयत्वे सिद्धे कथं श्रवणातिरिक्तमननविधानमित्याशङ्कामनुवदति -

यदपीति ।

मननविधानसामर्थ्यात्तर्कमात्रस्य ब्रह्मण्यनुप्रवेशो विवक्षितः श्रुत्यनुगृहीतस्य वेति विकल्प्याद्यं दूषयति -

नानेनेति ।

मिषेण । मननविधिव्याजेनेति यावत् ।

अनुग्राह्यमानहीनतया निरालम्बनत्वं तर्कस्य शुष्कत्वम् । तत्र हेतुं वदन्द्वितीयमङ्गीकरोति -

श्रुतीति ।

श्रुत्यनुग्राहको हि तर्कस्तद्विषयासम्भावनादिप्रतिबन्धप्रध्वंसेन ब्रह्मण्यनुभवाङ्गम् । तदननुगृहीतस्तु निरालम्बनत्वान्नात्रोपयुज्यते । तथाच तर्कमात्रस्यात्राप्रवेशात्तर्कविशेषस्य च श्रुतिद्वाराऽनुप्रवेशाविरोधात्तर्कागोचरत्वं मननविधानं चेत्यर्थः ।

श्रुत्याकाङ्क्षितं तर्कमेव मननविधिविषयमुदाहरति -

स्वप्नान्तेति ।

स्वप्नजागरितयोर्मिथो व्यभिचारादात्मनः स्वभावतस्तद्वत्त्वाभावादवस्थाद्वयेन तस्य स्वतोऽसम्पृक्तत्वम् । अतो जीवस्यावस्थावत्त्वेन नाब्रह्मत्वमित्यर्थः ।

तथापि देहादितादात्म्येनात्मनो भानान्न निष्प्रपञ्चब्रह्मतेत्याशङ्क्याह -

सम्प्रसादे चेति ।

‘सता सोम्य तदा सम्प्रन्नो भवति’ इति श्रुतेः सुषुप्ते निष्प्रपञ्चसदात्मत्वावगमादात्मनस्तथाविधब्रह्मत्वसिद्धिरित्यर्थः ।

द्वैतग्राहिप्रत्यक्षादिविरोधात्कथमात्मनोऽद्वितीयब्रह्मत्वमित्याशङ्क्य तज्जत्वादिहेतुना ब्रह्मातिरिक्तवस्त्वभावसिद्धेरध्यक्षादीनामतत्त्वावेदकप्रामाण्यादविरोधाद्युक्तमात्मनोऽद्वितीयब्रह्मत्वमित्याह -

प्रपञ्चस्येति ।

ब्रह्मणि सावकाशं तर्कं दर्शयित्वा श्रुत्यननुगृहीततर्कस्य तस्मिन्ननवकाशत्वं सूत्रकृतोऽपि संमतमित्याह -

तर्केति ।

विप्रलम्भकत्वमर्थविशेषाव्यवस्थापकत्वम् ।

ब्रह्मणि निरालम्बनस्य तर्कस्याप्रवृत्तेः, श्रुत्यनुगृहीतस्य प्रवृत्तावपि जगन्न ब्रह्मकार्यं चैतन्येनाननुगतत्वादित्यस्य श्रुत्यनुगृहीतत्वाभावात्तद्विरोधिनो न प्रवृत्तिरित्युक्तम् । इदानीं घटः प्रकाशत इति प्रत्यक्षेण श्रुतार्थापत्त्या च जगतश्चैतन्यानुगमावगमादसिद्धं चैतन्येनाननुगतत्वमित्याह -

योऽपीति ।

श्रुतार्थापत्तेः श्रुतिविरोधे नास्ति मानतेत्युक्तमाशङ्क्याह -

तस्यापीति ।

सावकाशानवकाशन्यायेन सावकाशा विभागश्रुतिरनवकाशार्थापत्त्या विभावनाविभावनविषयतया व्यवस्थापनीयेत्यर्थः ।

स्वमते विभागश्रुतिविरोधं समाधाय प्रधानवादे तद्विरोधमाह -

परस्येति ।

घटः स्फुरतीति प्रत्यक्षसङ्ग्रहार्थमपीत्युक्तम् ।

सत्त्वरजस्तमसामज्ञानात्मकत्वात्पुरुषस्य चातदात्मकत्वादस्मन्मते विभागश्रुतेर्नानुपपत्तिरिति शङ्कते -

कथमिति ।

उक्तरीत्या विभागासम्भवं वक्तुं श्रुत्यभिमतमर्थमाह -

परमकारणस्येति ।

प्रधानस्यैव मूलकारणत्वादशेषजगदात्मनाऽवस्थानमित्याशङ्क्याह -

तत्रेति ।

विभागश्रवणे सतीति यावत् ।

तर्हि त्वन्मतेऽपि चेतनस्याचेतनभावानुपपत्तिस्तुल्येत्याशङ्क्य चेतनस्यापि कारणस्य स्वापादाविवानाविर्भावितचैतन्यत्वमुक्तमित्याह -

प्रत्युक्तत्वादिति ।

यद्वा वैलक्षण्ये कार्यकारणत्वं नेत्युपेत्योक्तम् । वस्तुतस्त्वचेतनस्यापि चेतनकार्यत्वमविरुद्धम् , गोमयवृश्चिकादौ हेतोर्व्यभिचारस्योक्तत्वादित्याह -

प्रत्युक्त्त्वादिति ॥ ६ ॥