मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
प्रथमः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
असदिति चेन्न प्रतिषेधमात्रत्वात् ॥ ७ ॥
यदि
चेतनं
शुद्धं
शब्दादिहीनं
च
ब्रह्म
तद्विपरीतस्याचेतनस्याशुद्धस्य
शब्दादिमतश्च
कार्यस्य
कारणमिष्येत
,
असत्तर्हि
कार्यं
प्रागुत्पत्तेरिति
प्रसज्येत
।
अनिष्टं
चैतत्सत्कार्यवादिनस्तवेति
चेत्
—
नैष
दोषः
,
प्रतिषेधमात्रत्वात्
।
प्रतिषेधमात्रं
हीदम्
।
नास्य
प्रतिषेधस्य
प्रतिषेध्यमस्ति
।
न
ह्ययं
प्रतिषेधः
प्रागुत्पत्तेः
सत्त्वं
कार्यस्य
प्रतिषेद्धुं
शक्नोति
।
कथम्
?
यथैव
हीदानीमपीदं
कार्यं
कारणात्मना
सत्
,
एवं
प्रागुत्पत्तेरपीति
गम्यते
।
न
हीदानीमपीदं
कार्यं
कारणात्मानमन्तरेण
स्वतन्त्रमेवास्ति
—
‘
सर्वं
तं
परादाद्योऽन्यत्रात्मनः
सर्वं
वेद
’ (बृ. उ. २ । ४ । ६)
इत्यादिश्रवणात्
।
कारणात्मना
तु
सत्त्वं
कार्यस्य
प्रागुत्पत्तेरविशिष्टम्
।
ननु
शब्दादिहीनं
ब्रह्म
जगतः
कारणम्
।
बाढम्
—
न
तु
शब्दादिमत्कार्यं
कारणात्मना
हीनं
प्रागुत्पत्तेरिदानीं
वा
अस्ति
।
तेन
न
शक्यते
वक्तुं
प्रागुत्पत्तेरसत्कार्यमिति
।
विस्तरेण
चैतत्का
र्यकारणानन्यत्ववादे
वक्ष्यामः
॥ ७ ॥
असदिति चेदिति
;
असत्कार्यवादापत्तिमाशङ्क्य परिहरति -
असदिति चेदिति ।