ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥ ८ ॥
अत्राह — यदि स्थौल्यसावयवत्त्वाचेतनत्वपरिच्छिन्नत्वाशुद्ध्यादिधर्मकं कार्यं ब्रह्मकारणकमभ्युपगम्येत, तदापीतौ प्रलये प्रतिसंसृज्यमानं कार्यं कारणाविभागमापद्यमानं कारणमात्मीयेन धर्मेण दूषयेदिति — अपीतौ कारणस्यापि ब्रह्मणः कार्यस्येवाशुद्ध्यादिरूपप्रसङ्गात् सर्वज्ञं ब्रह्म जगत्कारणमित्यसमञ्जसमिदमौपनिषदं दर्शनम् । अपि च समस्तस्य विभागस्याविभागप्राप्तेः पुनरुत्पत्तौ नियमकारणाभावाद्भोक्तृभोग्यादिविभागेनोत्पत्तिर्न प्राप्नोतीत्यसमञ्जसम् । अपि च भोक्तॄणां परेण ब्रह्मणा अविभागं गतानां कर्मादिनिमित्तप्रलयेऽपि पुनरुत्पत्तावभ्युपगम्यमानायां मुक्तानामपि पुनरुत्पत्तिप्रसङ्गादसमञ्जसम् । अथेदं जगदपीतावपि विभक्तमेव परेण ब्रह्मणावतिष्ठेत, एवमप्यपीतिश्च न सम्भवति कारणाव्यतिरिक्तं च कार्यं न सम्भवतीत्यसमञ्जसमेवेति ॥ ८ ॥

पूर्वपक्षसूत्रं व्याकरोति -

अत्रेत्यादिना ।

जगतो ब्रह्मकारणत्वं सप्तम्यर्थः ।

तमेवोक्तिप्रकारं प्रकटयति -

यदीति ।

अशुद्ध्यादीत्यादिशब्देन रागद्वेषादिग्रहणम् । तदपीतावित्यत्र तत्पदं कार्येण सम्बध्यते ।

प्रतिसंसृज्यमानमित्यस्यार्थमाह -

कारणेति ।

यथा क्षीरे संसृज्यमानमुदकं स्वधर्मेण क्षीरं दूषयति, यथा वा लवणमुदके सम्बध्यमानमुदकं दूषयेत्तथा कार्यमपि कारणे युज्यमानं स्वधर्मेण कारणं दूषयतीत्याह -

कारणमिति ।

कार्यसमानधर्मवत्त्वे ब्रह्मणः स्वीकृते फलितमाह -

इत्यपीताविति ।

सूत्रस्य व्याख्यान्तरमाह -

अपि चेति ।

सर्वस्य कार्यस्य प्रलये कारणवदैकरूप्यप्रसङ्गात्पुनर्विभागेनोत्पत्तौ हेत्वभावात्तदप्राप्तिरित्यसामञ्जस्यमित्यर्थः ।

प्रकारान्तरेणासामञ्जस्यमाह -

अपि चेति ।

कर्मादीनां पुनरुत्पत्तिनिमित्तानां लये सत्यपीति यावत् । प्रलयावस्थायां कर्मादिप्रलये निमित्तमन्तरेणापि पुनर्भोक्तॄणामुत्पत्तौ तद्वदेव मुक्तानामपि पुनर्जन्मप्रसङ्गादसमञ्जसमिदं दर्शनमित्यर्थः ।

शङ्कापूर्वकं व्याख्यान्तरमाह -

अथेति ।

स्थिताविवेत्यपेरर्थः । ब्रह्मवादिनामित्थमनङ्गीकारं सूचयितुमेवमपीत्युक्तम् । यदि लयकालेऽपि कार्यं कारणाद्विभक्तं तदा स्थितिकालवल्लयाभावप्रसङ्गादसमञ्जसमेवेदं ब्रह्मकारणत्वमित्यर्थः ॥ ८ ॥