तत्र तुशब्दस्यावधारणार्थत्वमुपेत्य प्रतिज्ञाभागं विभजते -
नैवेति ।
तदेव दर्शयितुमादौ परोक्तमनुवदति -
यत्तावदिति ।
कारणमपिगच्छत् , तस्मिन्नविभागमापद्यमानमिति यावत् ।
तस्यादोषत्वं प्रतिज्ञाय प्रश्नपूर्वकं हेतुमवतार्य व्याचष्टे -
तददूषणमिति ।
दृष्टान्तानेव विभजते -
तद्यथेति ।
विभागावस्था स्थितिकालः । पुनरिति प्रलयकालोक्तिः । चतुर्विधो भूतग्रामो जरायुजाण्डजस्वेदजोद्भिज्जरूपो भूतसमुदायः । अनेकदृष्टान्तोपादानं बुद्धिसौकर्यार्थम् ।
परपक्षस्यापि कश्चिद्दृष्टान्तो भविष्यतीत्याशङ्क्याह -
त्वत्पक्षस्येति ।
क्षीरनीरादीनामकार्यकारणरूपत्वात्कारणे कार्यलये दृष्टान्तत्वासिद्धिरिति भावः ।
किञ्च लयकाले कार्यधर्मस्थितौ कार्यस्यापि धर्मिणः स्थितेर्लयासिद्धिः कारणाश्रयत्वेन च तदवस्थाने स्फटिकलौहित्यवत्तद्धीर्भ्रान्तिः स्यादित्याह -
अपीतिरेवेति ।
ननु प्रलयकाले कार्यधर्माश्चेन्नावतिष्ठेरन्न तर्हि कारणधर्मा अपि तिष्ठेयुस्तयोरभेदात् , तत्राह -
अनन्यत्वेऽपीति ।
अधिष्ठानमेवारोपितस्य तत्त्वं न विपरीतमित्यर्थः ।
किञ्च कार्यमात्मीयेन धर्मेण कारणं दूषयतीत्यत्रापीतिविशेषणमनर्थकमित्याह -
अत्यल्पं चेति ।
विशेषणवैयर्थ्ये हेतुमाह -
स्थिताविति ।
प्रसङ्गसाम्ये हेतुः -
कार्येति ।
अभ्युपगमस्य मानमूलतां दर्शयति -
इदमिति ।
इदमपि दूषणान्तरमेवेत्याशङ्क्याह -
तत्रेति ।
कार्यस्याविद्यया विद्यमानत्वात्तेन कारणस्य वस्तुतोऽसंस्पर्शे दृष्टान्तमाह -
अस्ति चेति ।
तत्र मायाविनो वस्तुत्वेऽपि तदीयमायाया अवस्तुत्वादिति हेतुमाह -
अवस्तुत्वादिति ।
दृष्टान्तनिविष्टमर्थं दार्ष्टान्तिके योजयति -
एवमिति ।
विधान्तरेण सूत्रयोजनासमाप्तावितिशब्दः ।
मायाविनो मायां प्रत्यनुपादानत्वान्नेदमनुरूपमुदाहरणमित्याशङ्क्याह -
यथा चेति ।
एकः अवस्थान्तरेऽपि स्वयमनुगच्छन्निति यावत् ।
तया तस्यासंस्पर्शे हेतुमाह -
प्रबोधेति ।
जागरिते सुषुप्ते चानुगच्छतस्तस्य तयानुगम्यमानत्वाभावादिति हेत्वर्थः । नहि स्वप्नदर्शनरूपा माया जागरादावनुवर्तमाना दृष्टेति भावः ।
चेतनोपादानत्वानुगुणं दृष्टान्तमुक्त्वा दार्ष्टन्तिकमाह -
एवमिति ।
अवस्थात्रयमुत्पत्तिस्थितिप्रलयरूपम् ।
स्वप्नदर्शनं मायामात्रमिति वस्तुतस्तेनास्पर्शेऽपि परमात्मनोऽवस्थात्रयेण संस्पर्शो दुर्वारस्तस्य वस्तुत्वादित्याशङ्क्याह -
मायामात्रमिति ।
अत्रापि सूत्रस्य विधान्तरेण योजनां विवक्षित्वेतिशब्दः ।
परमात्मनो वस्तुतोऽवस्थात्रयासम्बन्धे वृद्धसंमतिमाह -
अत्रेति ।
यदेत्याचार्यप्रतिबोधनावस्थोक्तिः । अजमित्युत्पत्त्यवस्थया स्पर्शशून्यत्वमनिद्रमिति लयावस्थयाऽस्वप्नमिति स्थित्यवस्थया चेति विवेक्तव्यम् । अद्वैतमिति पूर्णतोक्तिः ।
परस्यावस्थात्रयासम्बन्धे फलितमाह -
तत्रेति ।
उक्तमसामञ्जस्यान्तरमनुवदति -
यत्पुनरिति ।
न त्वित्यादिसूत्रेण परिहरति -
अयमपीति ।
दृष्टान्तभावमेव विभजते -
यथा हीति ।
मिथ्याज्ञानस्य मिथ्याभूतस्याज्ञानस्येति यावत् ।
दृष्टान्ते सम्प्रतिपत्त्यभावं मन्वानं प्रत्याह -
श्रुतिश्चेति ।
सुषुप्तिसमये सत्सम्पत्तेरज्ञानसद्भावस्य च श्रुतत्वेऽपि कथं सति सम्पन्नस्य पूर्ववत्पुनर्विभागेनोत्थानमित्याशङ्क्याह -
त इहेति ।
सुषुप्तादयस्तच्छब्देन परामृश्यन्ते -
इहेति
पूर्वबोधादेरुक्तिः । यद्यदिति कर्माद्यर्जितं जातिविशेषरूपमुक्तम् । तदा भवन्तीत्युत्तरप्रबोधादेरतीतवासनानुसारिणो ग्रहणम् ।
ननु न किञ्चिदवेदिषमित्युत्थितेन परामृश्यमानाज्ञानस्य सुषुप्ते सत्त्वात्पुनः प्रबोधे पूर्ववदुत्थानं युक्तम् । प्रलये तु तथाविधाज्ञानसद्भावे मानाभावात्कुतो विभागेनोत्पत्तिर्नियम्यते, तत्राह -
यथा हीति ।
तत्त्वज्ञानपर्यन्तं विभागव्यवहारस्याव्याहतत्वे दृष्टान्तमाह -
स्वप्नवदिति ।
सुषुप्त्यवस्थायां परस्मिन्नज्ञाते ब्रह्मणि समस्तस्य कार्यजातस्य लीनत्वेऽपि लयस्याविद्याशेषत्वात्पुनरुत्थितावुत्तरप्रबोधावस्थायां सौषुप्ताविद्यानिमित्तो विभागव्यवहारः स्वप्नावस्थायामिव यावत्तत्त्वज्ञानमबाधितोऽभ्युपगम्यते । तथा प्रलयावस्थायामपि विभागशक्तिर्विभक्तकार्यलयलक्षणा मिथ्याज्ञानशब्दिताविद्याप्रतिबद्धा तच्छेषैवानुमास्यते । विमतो लयः सावशेषः, तत्त्वज्ञानाधीनलयत्वात् , सौषुप्तलयवत् । तथा चाविद्याशक्तेर्नियतत्वादुत्पत्तिनियतिरित्यर्थः ।
असामञ्जस्यान्तरमुक्तमतिदेशेन शिथिलयति -
एतेनेति ।
अविद्याशक्तिवशादेव पुनर्विभागेनोत्पत्तिरित्युक्तन्यायेनेति यावत् ।
तथापि कथं तेषां पुनरुत्पत्तिप्रसङ्गो निवार्यते, कारणाभावे कार्याभावादित्याह -
सम्यगिति ।
परिचोदनापूर्वकमुक्तमसामञ्जस्यान्तरं निरस्यति -
यः पुनरिति ।
आशङ्कितासामञ्जस्यनिरसनफलमुपसंहरति -
तस्मादिति ॥ ९ ॥