ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
न तु दृष्टान्तभावात् ॥ ९ ॥
नैवास्मदीये दर्शने किञ्चिदसामञ्जस्यमस्ति । यत्तावदभिहितम् — कारणमपिगच्छत्कार्यं कारणमात्मीयेन धर्मेण दूषयेदिति, तद्दूषणम् । कस्मात् ? दृष्टान्तभावात् — सन्ति हि दृष्टान्ताः, यथा कारणमपिगच्छत्कार्यं कारणमात्मीयेन धर्मेण न दूषयति । तद्यथा — शरावादयो मृत्प्रकृतिका विकारा विभागावस्थायामुच्चावचमध्यमप्रभेदाः सन्तः पुनः प्रकृतिमपिगच्छन्तो न तामात्मीयेन धर्मेण संसृजन्ति । रुचकादयश्च सुवर्णविकारा अपीतौ न सुवर्णमात्मीयेन धर्मेण संसृजन्ति । पृथिवीविकारश्चतुर्विधो भूतग्रामो न पृथिवीमपीतावात्मीयेन धर्मेण संसृजति । त्वत्पक्षस्य तु न कश्चिद्दृष्टान्तोऽस्ति । अपीतिरेव हि न सम्भवेत् , यदि कारणे कार्यं स्वधर्मेणैवावतिष्ठेत । अनन्यत्वेऽपि कार्यकारणयोः, कार्यस्य कारणात्मत्वम् , न तु कारणस्य कार्यात्मत्वम् — ‘आरम्भणशब्दादिभ्यः’ (ब्र. सू. २ । १ । १४) इति वक्ष्यामः । अत्यल्पं चेदमुच्यते — कार्यमपीतावात्मीयेन धर्मेण कारणं संसृजेदिति । स्थितावपि हि समानोऽयं प्रसङ्गः, कार्यकारणयोरनन्यत्वाभ्युपगमात् । ‘इदꣳ सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) ‘ब्रह्मैवेदममृतं पुरस्तात्’ (मु. उ. २ । २ । १२) ‘सर्वं खल्विदं ब्रह्म’ (छा. उ. ३ । १४ । १) इत्येवमाद्याभिर्हि श्रुतिभिरविशेषेण त्रिष्वपि कालेषु कार्यस्य कारणादनन्यत्वं श्राव्यते । तत्र यः परिहारः कार्यस्य तद्धर्माणां चाविद्याध्यारोपितत्वान्न तैः कारणं संसृज्यत इति, अपीतावपि स समानः । अस्ति चायमपरो दृष्टान्तः — यथा स्वयं प्रसारितया मायया मायावी त्रिष्वपि कालेषु न संस्पृश्यते, अवस्तुत्वात् , एवं परमात्मापि संसारमायया न संस्पृश्यत इति । यथा च स्वप्नदृगेकः स्वप्नदर्शनमायया न संस्पृश्यते, प्रबोधसम्प्रसादयोरनन्वागतत्वात् , एवमवस्थात्रयसाक्ष्येकोऽव्यभिचार्यवस्थात्रयेण व्यभिचारिणा न संस्पृश्यते । मायामात्रं ह्येतत् , यत्परमात्मनोऽवस्थात्रयात्मनावभासनम् , रज्ज्वा इव सर्पादिभावेनेति । अत्रोक्तं वेदान्तार्थसम्प्रदायविद्भिराचार्यैः — ‘अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा’ (मा. का. १ । १६) इति । तत्र यदुक्तमपीतौ कारणस्यापि कार्यस्येव स्थौल्यादिदोषप्रसङ्ग इति, एतदयुक्तम् । यत्पुनरेतदुक्तम् — समस्तस्य विभागस्याविभागप्राप्तेः पुनर्विभागेनोत्पत्तौ नियमकारणं नोपपद्यत इति, अयमप्यदोषः, दृष्टान्तभावादेव — यथा हि सुषुप्तिसमाध्यादावपि सत्यां स्वाभाविक्यामविभागप्राप्तौ मिथ्याज्ञानस्यानपोदितत्वात्पूर्ववत्पुनः प्रबोधे विभागो भवति, एवमिहापि भविष्यति । श्रुतिश्चात्र भवति — ‘इमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पद्यामह इति,’ (छा. उ. ६ । ९ । २) ‘त इह व्याघ्रो वा सिꣳहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दꣳशो वा मशको वा यद्यद्भवन्ति तदा भवन्ति’ (छा. उ. ६ । ९ । ३) इति । यथा ह्यविभागेऽपि परमात्मनि मिथ्याज्ञानप्रतिबद्धो विभागव्यवहारः स्वप्नवदव्याहतः स्थितौ दृश्यते, एवमपीतावपि मिथ्याज्ञानप्रतिबद्धैव विभागशक्तिरनुमास्यते । एतेन मुक्तानां पुनरुत्पत्तिप्रसङ्गः प्रत्युक्तः, सम्यग्ज्ञानेन मिथ्याज्ञानस्यापोदितत्वात् । यः पुनरयमन्तेऽपरो विकल्प उत्प्रेक्षितः — अथेदं जगदपीतावपि विभक्तमेव परेण ब्रह्मणावतिष्ठेतेति, सोऽप्यनभ्युपगमादेव प्रतिषिद्धः । तस्मात्समञ्जसमिदमौपनिषदं दर्शनम् ॥ ९ ॥

तत्र तुशब्दस्यावधारणार्थत्वमुपेत्य प्रतिज्ञाभागं विभजते -

नैवेति ।

तदेव दर्शयितुमादौ परोक्तमनुवदति -

यत्तावदिति ।

कारणमपिगच्छत् , तस्मिन्नविभागमापद्यमानमिति यावत् ।

तस्यादोषत्वं प्रतिज्ञाय प्रश्नपूर्वकं हेतुमवतार्य व्याचष्टे -

तददूषणमिति ।

दृष्टान्तानेव विभजते -

तद्यथेति ।

विभागावस्था स्थितिकालः । पुनरिति प्रलयकालोक्तिः । चतुर्विधो भूतग्रामो जरायुजाण्डजस्वेदजोद्भिज्जरूपो भूतसमुदायः । अनेकदृष्टान्तोपादानं बुद्धिसौकर्यार्थम् ।

परपक्षस्यापि कश्चिद्दृष्टान्तो भविष्यतीत्याशङ्क्याह -

त्वत्पक्षस्येति ।

क्षीरनीरादीनामकार्यकारणरूपत्वात्कारणे कार्यलये दृष्टान्तत्वासिद्धिरिति भावः ।

किञ्च लयकाले कार्यधर्मस्थितौ कार्यस्यापि धर्मिणः स्थितेर्लयासिद्धिः कारणाश्रयत्वेन च तदवस्थाने स्फटिकलौहित्यवत्तद्धीर्भ्रान्तिः स्यादित्याह -

अपीतिरेवेति ।

ननु प्रलयकाले कार्यधर्माश्चेन्नावतिष्ठेरन्न तर्हि कारणधर्मा अपि तिष्ठेयुस्तयोरभेदात् , तत्राह -

अनन्यत्वेऽपीति ।

अधिष्ठानमेवारोपितस्य तत्त्वं न विपरीतमित्यर्थः ।

किञ्च कार्यमात्मीयेन धर्मेण कारणं दूषयतीत्यत्रापीतिविशेषणमनर्थकमित्याह -

अत्यल्पं चेति ।

विशेषणवैयर्थ्ये हेतुमाह -

स्थिताविति ।

प्रसङ्गसाम्ये हेतुः -

कार्येति ।

अभ्युपगमस्य मानमूलतां दर्शयति -

इदमिति ।

इदमपि दूषणान्तरमेवेत्याशङ्क्याह -

तत्रेति ।

कार्यस्याविद्यया विद्यमानत्वात्तेन कारणस्य वस्तुतोऽसंस्पर्शे दृष्टान्तमाह -

अस्ति चेति ।

तत्र मायाविनो वस्तुत्वेऽपि तदीयमायाया अवस्तुत्वादिति हेतुमाह -

अवस्तुत्वादिति ।

दृष्टान्तनिविष्टमर्थं दार्ष्टान्तिके योजयति -

एवमिति ।

विधान्तरेण सूत्रयोजनासमाप्तावितिशब्दः ।

मायाविनो मायां प्रत्यनुपादानत्वान्नेदमनुरूपमुदाहरणमित्याशङ्क्याह -

यथा चेति ।

एकः अवस्थान्तरेऽपि स्वयमनुगच्छन्निति यावत् ।

तया तस्यासंस्पर्शे हेतुमाह -

प्रबोधेति ।

जागरिते सुषुप्ते चानुगच्छतस्तस्य तयानुगम्यमानत्वाभावादिति हेत्वर्थः । नहि स्वप्नदर्शनरूपा माया जागरादावनुवर्तमाना दृष्टेति भावः ।

चेतनोपादानत्वानुगुणं दृष्टान्तमुक्त्वा दार्ष्टन्तिकमाह -

एवमिति ।

अवस्थात्रयमुत्पत्तिस्थितिप्रलयरूपम् ।

स्वप्नदर्शनं मायामात्रमिति वस्तुतस्तेनास्पर्शेऽपि परमात्मनोऽवस्थात्रयेण संस्पर्शो दुर्वारस्तस्य वस्तुत्वादित्याशङ्क्याह -

मायामात्रमिति ।

अत्रापि सूत्रस्य विधान्तरेण योजनां विवक्षित्वेतिशब्दः ।

परमात्मनो वस्तुतोऽवस्थात्रयासम्बन्धे वृद्धसंमतिमाह -

अत्रेति ।

यदेत्याचार्यप्रतिबोधनावस्थोक्तिः । अजमित्युत्पत्त्यवस्थया स्पर्शशून्यत्वमनिद्रमिति लयावस्थयाऽस्वप्नमिति स्थित्यवस्थया चेति विवेक्तव्यम् । अद्वैतमिति पूर्णतोक्तिः ।

परस्यावस्थात्रयासम्बन्धे फलितमाह -

तत्रेति ।

उक्तमसामञ्जस्यान्तरमनुवदति -

यत्पुनरिति ।

न त्वित्यादिसूत्रेण परिहरति -

अयमपीति ।

दृष्टान्तभावमेव विभजते -

यथा हीति ।

मिथ्याज्ञानस्य मिथ्याभूतस्याज्ञानस्येति यावत् ।

दृष्टान्ते सम्प्रतिपत्त्यभावं मन्वानं प्रत्याह -

श्रुतिश्चेति ।

सुषुप्तिसमये सत्सम्पत्तेरज्ञानसद्भावस्य च श्रुतत्वेऽपि कथं सति सम्पन्नस्य पूर्ववत्पुनर्विभागेनोत्थानमित्याशङ्क्याह -

त इहेति ।

सुषुप्तादयस्तच्छब्देन परामृश्यन्ते -

इहेति

पूर्वबोधादेरुक्तिः । यद्यदिति कर्माद्यर्जितं जातिविशेषरूपमुक्तम् । तदा भवन्तीत्युत्तरप्रबोधादेरतीतवासनानुसारिणो ग्रहणम् ।

ननु न किञ्चिदवेदिषमित्युत्थितेन परामृश्यमानाज्ञानस्य सुषुप्ते सत्त्वात्पुनः प्रबोधे पूर्ववदुत्थानं युक्तम् । प्रलये तु तथाविधाज्ञानसद्भावे मानाभावात्कुतो विभागेनोत्पत्तिर्नियम्यते, तत्राह -

यथा हीति ।

तत्त्वज्ञानपर्यन्तं विभागव्यवहारस्याव्याहतत्वे दृष्टान्तमाह -

स्वप्नवदिति ।

सुषुप्त्यवस्थायां परस्मिन्नज्ञाते ब्रह्मणि समस्तस्य कार्यजातस्य लीनत्वेऽपि लयस्याविद्याशेषत्वात्पुनरुत्थितावुत्तरप्रबोधावस्थायां सौषुप्ताविद्यानिमित्तो विभागव्यवहारः स्वप्नावस्थायामिव यावत्तत्त्वज्ञानमबाधितोऽभ्युपगम्यते । तथा प्रलयावस्थायामपि विभागशक्तिर्विभक्तकार्यलयलक्षणा मिथ्याज्ञानशब्दिताविद्याप्रतिबद्धा तच्छेषैवानुमास्यते । विमतो लयः सावशेषः, तत्त्वज्ञानाधीनलयत्वात् , सौषुप्तलयवत् । तथा चाविद्याशक्तेर्नियतत्वादुत्पत्तिनियतिरित्यर्थः ।

असामञ्जस्यान्तरमुक्तमतिदेशेन शिथिलयति -

एतेनेति ।

अविद्याशक्तिवशादेव पुनर्विभागेनोत्पत्तिरित्युक्तन्यायेनेति यावत् ।

तथापि कथं तेषां पुनरुत्पत्तिप्रसङ्गो निवार्यते, कारणाभावे कार्याभावादित्याह -

सम्यगिति ।

परिचोदनापूर्वकमुक्तमसामञ्जस्यान्तरं निरस्यति -

यः पुनरिति ।

आशङ्कितासामञ्जस्यनिरसनफलमुपसंहरति -

तस्मादिति ॥ ९ ॥