ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
न तु दृष्टान्तभावात् ॥ ९ ॥
नैवास्मदीये दर्शने किञ्चिदसामञ्जस्यमस्तियत्तावदभिहितम्कारणमपिगच्छत्कार्यं कारणमात्मीयेन धर्मेण दूषयेदिति, तद्दूषणम्कस्मात् ? दृष्टान्तभावात्सन्ति हि दृष्टान्ताः, यथा कारणमपिगच्छत्कार्यं कारणमात्मीयेन धर्मेण दूषयतितद्यथाशरावादयो मृत्प्रकृतिका विकारा विभागावस्थायामुच्चावचमध्यमप्रभेदाः सन्तः पुनः प्रकृतिमपिगच्छन्तो तामात्मीयेन धर्मेण संसृजन्तिरुचकादयश्च सुवर्णविकारा अपीतौ सुवर्णमात्मीयेन धर्मेण संसृजन्तिपृथिवीविकारश्चतुर्विधो भूतग्रामो पृथिवीमपीतावात्मीयेन धर्मेण संसृजतित्वत्पक्षस्य तु कश्चिद्दृष्टान्तोऽस्तिअपीतिरेव हि सम्भवेत् , यदि कारणे कार्यं स्वधर्मेणैवावतिष्ठेतअनन्यत्वेऽपि कार्यकारणयोः, कार्यस्य कारणात्मत्वम् , तु कारणस्य कार्यात्मत्वम्आरम्भणशब्दादिभ्यः’ (ब्र. सू. २ । १ । १४) इति वक्ष्यामःअत्यल्पं चेदमुच्यतेकार्यमपीतावात्मीयेन धर्मेण कारणं संसृजेदितिस्थितावपि हि समानोऽयं प्रसङ्गः, कार्यकारणयोरनन्यत्वाभ्युपगमात्इदꣳ सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) ब्रह्मैवेदममृतं पुरस्तात्’ (मु. उ. २ । २ । १२) सर्वं खल्विदं ब्रह्म’ (छा. उ. ३ । १४ । १) इत्येवमाद्याभिर्हि श्रुतिभिरविशेषेण त्रिष्वपि कालेषु कार्यस्य कारणादनन्यत्वं श्राव्यतेतत्र यः परिहारः कार्यस्य तद्धर्माणां चाविद्याध्यारोपितत्वान्न तैः कारणं संसृज्यत इति, अपीतावपि समानःअस्ति चायमपरो दृष्टान्तःयथा स्वयं प्रसारितया मायया मायावी त्रिष्वपि कालेषु संस्पृश्यते, अवस्तुत्वात् , एवं परमात्मापि संसारमायया संस्पृश्यत इतियथा स्वप्नदृगेकः स्वप्नदर्शनमायया संस्पृश्यते, प्रबोधसम्प्रसादयोरनन्वागतत्वात् , एवमवस्थात्रयसाक्ष्येकोऽव्यभिचार्यवस्थात्रयेण व्यभिचारिणा संस्पृश्यतेमायामात्रं ह्येतत् , यत्परमात्मनोऽवस्थात्रयात्मनावभासनम् , रज्ज्वा इव सर्पादिभावेनेतिअत्रोक्तं वेदान्तार्थसम्प्रदायविद्भिराचार्यैःअनादिमायया सुप्तो यदा जीवः प्रबुध्यतेअजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा’ (मा. का. १ । १६) इतितत्र यदुक्तमपीतौ कारणस्यापि कार्यस्येव स्थौल्यादिदोषप्रसङ्ग इति, एतदयुक्तम्यत्पुनरेतदुक्तम्समस्तस्य विभागस्याविभागप्राप्तेः पुनर्विभागेनोत्पत्तौ नियमकारणं नोपपद्यत इति, अयमप्यदोषः, दृष्टान्तभावादेवयथा हि सुषुप्तिसमाध्यादावपि सत्यां स्वाभाविक्यामविभागप्राप्तौ मिथ्याज्ञानस्यानपोदितत्वात्पूर्ववत्पुनः प्रबोधे विभागो भवति, एवमिहापि भविष्यतिश्रुतिश्चात्र भवतिइमाः सर्वाः प्रजाः सति सम्पद्य विदुः सति सम्पद्यामह इति,’ (छा. उ. ६ । ९ । २) इह व्याघ्रो वा सिꣳहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दꣳशो वा मशको वा यद्यद्भवन्ति तदा भवन्ति’ (छा. उ. ६ । ९ । ३) इतियथा ह्यविभागेऽपि परमात्मनि मिथ्याज्ञानप्रतिबद्धो विभागव्यवहारः स्वप्नवदव्याहतः स्थितौ दृश्यते, एवमपीतावपि मिथ्याज्ञानप्रतिबद्धैव विभागशक्तिरनुमास्यतेएतेन मुक्तानां पुनरुत्पत्तिप्रसङ्गः प्रत्युक्तः, सम्यग्ज्ञानेन मिथ्याज्ञानस्यापोदितत्वात्यः पुनरयमन्तेऽपरो विकल्प उत्प्रेक्षितःअथेदं जगदपीतावपि विभक्तमेव परेण ब्रह्मणावतिष्ठेतेति, सोऽप्यनभ्युपगमादेव प्रतिषिद्धःतस्मात्समञ्जसमिदमौपनिषदं दर्शनम् ॥ ९ ॥

तत्र तुशब्दस्यावधारणार्थत्वमुपेत्य प्रतिज्ञाभागं विभजते -

नैवेति ।

तदेव दर्शयितुमादौ परोक्तमनुवदति -

यत्तावदिति ।

कारणमपिगच्छत् , तस्मिन्नविभागमापद्यमानमिति यावत् ।

तस्यादोषत्वं प्रतिज्ञाय प्रश्नपूर्वकं हेतुमवतार्य व्याचष्टे -

तददूषणमिति ।

दृष्टान्तानेव विभजते -

तद्यथेति ।

विभागावस्था स्थितिकालः । पुनरिति प्रलयकालोक्तिः । चतुर्विधो भूतग्रामो जरायुजाण्डजस्वेदजोद्भिज्जरूपो भूतसमुदायः । अनेकदृष्टान्तोपादानं बुद्धिसौकर्यार्थम् ।

परपक्षस्यापि कश्चिद्दृष्टान्तो भविष्यतीत्याशङ्क्याह -

त्वत्पक्षस्येति ।

क्षीरनीरादीनामकार्यकारणरूपत्वात्कारणे कार्यलये दृष्टान्तत्वासिद्धिरिति भावः ।

किञ्च लयकाले कार्यधर्मस्थितौ कार्यस्यापि धर्मिणः स्थितेर्लयासिद्धिः कारणाश्रयत्वेन च तदवस्थाने स्फटिकलौहित्यवत्तद्धीर्भ्रान्तिः स्यादित्याह -

अपीतिरेवेति ।

ननु प्रलयकाले कार्यधर्माश्चेन्नावतिष्ठेरन्न तर्हि कारणधर्मा अपि तिष्ठेयुस्तयोरभेदात् , तत्राह -

अनन्यत्वेऽपीति ।

अधिष्ठानमेवारोपितस्य तत्त्वं न विपरीतमित्यर्थः ।

किञ्च कार्यमात्मीयेन धर्मेण कारणं दूषयतीत्यत्रापीतिविशेषणमनर्थकमित्याह -

अत्यल्पं चेति ।

विशेषणवैयर्थ्ये हेतुमाह -

स्थिताविति ।

प्रसङ्गसाम्ये हेतुः -

कार्येति ।

अभ्युपगमस्य मानमूलतां दर्शयति -

इदमिति ।

इदमपि दूषणान्तरमेवेत्याशङ्क्याह -

तत्रेति ।

कार्यस्याविद्यया विद्यमानत्वात्तेन कारणस्य वस्तुतोऽसंस्पर्शे दृष्टान्तमाह -

अस्ति चेति ।

तत्र मायाविनो वस्तुत्वेऽपि तदीयमायाया अवस्तुत्वादिति हेतुमाह -

अवस्तुत्वादिति ।

दृष्टान्तनिविष्टमर्थं दार्ष्टान्तिके योजयति -

एवमिति ।

विधान्तरेण सूत्रयोजनासमाप्तावितिशब्दः ।

मायाविनो मायां प्रत्यनुपादानत्वान्नेदमनुरूपमुदाहरणमित्याशङ्क्याह -

यथा चेति ।

एकः अवस्थान्तरेऽपि स्वयमनुगच्छन्निति यावत् ।

तया तस्यासंस्पर्शे हेतुमाह -

प्रबोधेति ।

जागरिते सुषुप्ते चानुगच्छतस्तस्य तयानुगम्यमानत्वाभावादिति हेत्वर्थः । नहि स्वप्नदर्शनरूपा माया जागरादावनुवर्तमाना दृष्टेति भावः ।

चेतनोपादानत्वानुगुणं दृष्टान्तमुक्त्वा दार्ष्टन्तिकमाह -

एवमिति ।

अवस्थात्रयमुत्पत्तिस्थितिप्रलयरूपम् ।

स्वप्नदर्शनं मायामात्रमिति वस्तुतस्तेनास्पर्शेऽपि परमात्मनोऽवस्थात्रयेण संस्पर्शो दुर्वारस्तस्य वस्तुत्वादित्याशङ्क्याह -

मायामात्रमिति ।

अत्रापि सूत्रस्य विधान्तरेण योजनां विवक्षित्वेतिशब्दः ।

परमात्मनो वस्तुतोऽवस्थात्रयासम्बन्धे वृद्धसंमतिमाह -

अत्रेति ।

यदेत्याचार्यप्रतिबोधनावस्थोक्तिः । अजमित्युत्पत्त्यवस्थया स्पर्शशून्यत्वमनिद्रमिति लयावस्थयाऽस्वप्नमिति स्थित्यवस्थया चेति विवेक्तव्यम् । अद्वैतमिति पूर्णतोक्तिः ।

परस्यावस्थात्रयासम्बन्धे फलितमाह -

तत्रेति ।

उक्तमसामञ्जस्यान्तरमनुवदति -

यत्पुनरिति ।

न त्वित्यादिसूत्रेण परिहरति -

अयमपीति ।

दृष्टान्तभावमेव विभजते -

यथा हीति ।

मिथ्याज्ञानस्य मिथ्याभूतस्याज्ञानस्येति यावत् ।

दृष्टान्ते सम्प्रतिपत्त्यभावं मन्वानं प्रत्याह -

श्रुतिश्चेति ।

सुषुप्तिसमये सत्सम्पत्तेरज्ञानसद्भावस्य च श्रुतत्वेऽपि कथं सति सम्पन्नस्य पूर्ववत्पुनर्विभागेनोत्थानमित्याशङ्क्याह -

त इहेति ।

सुषुप्तादयस्तच्छब्देन परामृश्यन्ते -

इहेति

पूर्वबोधादेरुक्तिः । यद्यदिति कर्माद्यर्जितं जातिविशेषरूपमुक्तम् । तदा भवन्तीत्युत्तरप्रबोधादेरतीतवासनानुसारिणो ग्रहणम् ।

ननु न किञ्चिदवेदिषमित्युत्थितेन परामृश्यमानाज्ञानस्य सुषुप्ते सत्त्वात्पुनः प्रबोधे पूर्ववदुत्थानं युक्तम् । प्रलये तु तथाविधाज्ञानसद्भावे मानाभावात्कुतो विभागेनोत्पत्तिर्नियम्यते, तत्राह -

यथा हीति ।

तत्त्वज्ञानपर्यन्तं विभागव्यवहारस्याव्याहतत्वे दृष्टान्तमाह -

स्वप्नवदिति ।

सुषुप्त्यवस्थायां परस्मिन्नज्ञाते ब्रह्मणि समस्तस्य कार्यजातस्य लीनत्वेऽपि लयस्याविद्याशेषत्वात्पुनरुत्थितावुत्तरप्रबोधावस्थायां सौषुप्ताविद्यानिमित्तो विभागव्यवहारः स्वप्नावस्थायामिव यावत्तत्त्वज्ञानमबाधितोऽभ्युपगम्यते । तथा प्रलयावस्थायामपि विभागशक्तिर्विभक्तकार्यलयलक्षणा मिथ्याज्ञानशब्दिताविद्याप्रतिबद्धा तच्छेषैवानुमास्यते । विमतो लयः सावशेषः, तत्त्वज्ञानाधीनलयत्वात् , सौषुप्तलयवत् । तथा चाविद्याशक्तेर्नियतत्वादुत्पत्तिनियतिरित्यर्थः ।

असामञ्जस्यान्तरमुक्तमतिदेशेन शिथिलयति -

एतेनेति ।

अविद्याशक्तिवशादेव पुनर्विभागेनोत्पत्तिरित्युक्तन्यायेनेति यावत् ।

तथापि कथं तेषां पुनरुत्पत्तिप्रसङ्गो निवार्यते, कारणाभावे कार्याभावादित्याह -

सम्यगिति ।

परिचोदनापूर्वकमुक्तमसामञ्जस्यान्तरं निरस्यति -

यः पुनरिति ।

आशङ्कितासामञ्जस्यनिरसनफलमुपसंहरति -

तस्मादिति ॥ ९ ॥