ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
स्वपक्षदोषाच्च ॥ १० ॥
स्वपक्षे चैते प्रतिवादिनः साधारणा दोषाः प्रादुःष्युःकथमित्युच्यतेयत्तावदभिहितम् , विलक्षणत्वान्नेदं जगद्ब्रह्मप्रकृतिकमिति प्रधानप्रकृतिकतायामपि समानमेतत् , शब्दादिहीनात्प्रधानाच्छब्दादिमतो जगत उत्पत्त्यभ्युपगमात्अत एव विलक्षणकार्योत्पत्त्यभ्युपगमात् समानः प्रागुत्पत्तेरसत्कार्यवादप्रसङ्गःतथापीतौ कार्यस्य कारणाविभागाभ्युपगमात्तद्वत्प्रसङ्गोऽपि समानःतथा मृदितसर्वविशेषेषु विकारेष्वपीतावविभागात्मतां गतेषु , इदमस्य पुरुषस्योपादानमिदमस्येति प्राक्प्रलयात्प्रतिपुरुषं ये नियता भेदाः, ते तथैव पुनरुत्पत्तौ नियन्तुं शक्यन्ते, कारणाभावात्विनैव कारणेन नियमेऽभ्युपगम्यमाने कारणाभावसाम्यान्मुक्तानामपि पुनर्बन्धप्रसङ्गःअथ केचिद्भेदा अपीतावविभागमापद्यन्ते केचिन्नेति चेत्ये नापद्यन्ते, तेषां प्रधानकार्यत्वं प्राप्नोति; इत्येवमेते दोषाः साधारणत्वान्नान्यतरस्मिन्पक्षे चोदयितव्या भवन्तीति अदोषतामेवैषां द्रढयतिअवश्याश्रयितव्यत्वात् ॥ १० ॥

सूत्राक्षराणि व्याचष्टे -

स्वपक्षे चेति ।

तथा च वादिनं प्रत्यनुद्भाव्यता तेषामिति शेषः ।

ब्रह्मवादिन्युक्तानां विलक्षणत्वादीनां प्रधानवादिनि प्रसङ्गाभावात्कुतः साधारण्यमिति शङ्कते -

कथमिति ।

प्रधानवादिनि दोषसाम्यमापादयितुमारभते -

उच्यत इति ।

उक्तप्रकारमेव प्रकटयन्विलक्षणत्वादित्यत्रोक्तमनूद्य साम्यमाह -

यत्तावदिति ।

‘असदिति चेत्’ इत्यत्रोक्तस्यापि दोषस्य साधारण्यमाह -

अत एवेति ।

अतःशब्दस्यैवार्थकथनं प्रागुत्पत्तेर्वर्तितुं पारयति, प्रलयप्रतिहतिप्रसङ्गात् । तेन प्रागसदेव कार्यं भवन्मतेऽपीत्यर्थः ।

अपीतिसूत्रोक्तमसामञ्जस्यं परमतेऽपि प्रसञ्जयति -

तथेति ।

यत्तु समस्तस्य विभागस्याविभागप्राप्तेः पुनरुत्पत्तौ नियामकाभावाद्भोक्तृणां भोगस्य च विभागेनोत्पत्तिर्न प्राप्नोतीति, अत्राह -

तथा मृदितेति ।

उपादानं सुखादिकारणं क्लेशकर्माशयादि ।

यत्तु भोक्तॄणां परेणाविभागं गतानामित्यादि, तत्राह -

विनैवेति ।

प्रतिपुरुषं प्रतिनियतान्भेदान्विहाय साधारणानामेव भेदानां प्रलयाभ्युपगमान्नातिप्रसक्तिरिति चोदयति -

अथेति ।

ये प्रतिपुरुषं प्रतिनियता भेदास्ते नित्याः स्युरनित्या वा । नित्यत्वे पुरुषेषु गुणेषु वान्तर्भावान्न प्रतिपुरुषं प्रतिनियमस्तदात्मत्वात्तत्साधारण्याच्च । अनित्यत्वे प्रधानकार्यत्वस्यावश्यकत्वात्तेषामपीतावविभागानापत्तिरयुक्तेति परिहरति -

ये नापद्यन्त इति ।

विलक्षणत्वादीनां साधारणत्वे फलितमाह -

इत्येवमिति ।

तर्हि दोषसाम्यान्नान्यतरपक्षस्यादेयतेत्याशङ्क्यास्मत्पक्षे परिहारस्योक्तत्वान्मैवमित्याह -

इत्यदोषतामिति ॥ १० ॥