सूत्राक्षराणि व्याचष्टे -
स्वपक्षे चेति ।
तथा च वादिनं प्रत्यनुद्भाव्यता तेषामिति शेषः ।
ब्रह्मवादिन्युक्तानां विलक्षणत्वादीनां प्रधानवादिनि प्रसङ्गाभावात्कुतः साधारण्यमिति शङ्कते -
कथमिति ।
प्रधानवादिनि दोषसाम्यमापादयितुमारभते -
उच्यत इति ।
उक्तप्रकारमेव प्रकटयन्विलक्षणत्वादित्यत्रोक्तमनूद्य साम्यमाह -
यत्तावदिति ।
‘असदिति चेत्’ इत्यत्रोक्तस्यापि दोषस्य साधारण्यमाह -
अत एवेति ।
अतःशब्दस्यैवार्थकथनं प्रागुत्पत्तेर्वर्तितुं पारयति, प्रलयप्रतिहतिप्रसङ्गात् । तेन प्रागसदेव कार्यं भवन्मतेऽपीत्यर्थः ।
अपीतिसूत्रोक्तमसामञ्जस्यं परमतेऽपि प्रसञ्जयति -
तथेति ।
यत्तु समस्तस्य विभागस्याविभागप्राप्तेः पुनरुत्पत्तौ नियामकाभावाद्भोक्तृणां भोगस्य च विभागेनोत्पत्तिर्न प्राप्नोतीति, अत्राह -
तथा मृदितेति ।
उपादानं सुखादिकारणं क्लेशकर्माशयादि ।
यत्तु भोक्तॄणां परेणाविभागं गतानामित्यादि, तत्राह -
विनैवेति ।
प्रतिपुरुषं प्रतिनियतान्भेदान्विहाय साधारणानामेव भेदानां प्रलयाभ्युपगमान्नातिप्रसक्तिरिति चोदयति -
अथेति ।
ये प्रतिपुरुषं प्रतिनियता भेदास्ते नित्याः स्युरनित्या वा । नित्यत्वे पुरुषेषु गुणेषु वान्तर्भावान्न प्रतिपुरुषं प्रतिनियमस्तदात्मत्वात्तत्साधारण्याच्च । अनित्यत्वे प्रधानकार्यत्वस्यावश्यकत्वात्तेषामपीतावविभागानापत्तिरयुक्तेति परिहरति -
ये नापद्यन्त इति ।
विलक्षणत्वादीनां साधारणत्वे फलितमाह -
इत्येवमिति ।
तर्हि दोषसाम्यान्नान्यतरपक्षस्यादेयतेत्याशङ्क्यास्मत्पक्षे परिहारस्योक्तत्वान्मैवमित्याह -
इत्यदोषतामिति ॥ १० ॥