ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यविमोक्षप्रसङ्गः ॥ ११ ॥
इतश्च नागमगम्येऽर्थे केवलेन तर्केण प्रत्यवस्थातव्यम्; यस्मान्निरागमाः पुरुषोत्प्रेक्षामात्रनिबन्धनास्तर्का अप्रतिष्ठिता भवन्ति, उत्प्रेक्षाया निरङ्कुशत्वात् । तथा हि — कैश्चिदभियुक्तैर्यत्नेनोत्प्रेक्षितास्तर्का अभियुक्ततरैरन्यैराभास्यमाना दृश्यन्ते । तैरप्युत्प्रेक्षिताः सन्तस्ततोऽन्यैराभास्यन्त इति न प्रतिष्ठितत्वं तर्काणां शक्यमाश्रयितुम् , पुरुषमतिवैरूप्यात् । अथ कस्यचित्प्रसिद्धमाहात्म्यस्य कपिलस्य अन्यस्य वा सम्मतस्तर्कः प्रतिष्ठित इत्याश्रीयेत — एवमप्यप्रतिष्ठितत्वमेव । प्रसिद्धमाहात्म्याभिमतानामपि तीर्थकराणां कपिलकणभुक्प्रभृतीनां परस्परविप्रतिपत्तिदर्शनात् । अथोच्येत — अन्यथा वयमनुमास्यामहे, यथा नाप्रतिष्ठादोषो भविष्यति । न हि प्रतिष्ठितस्तर्क एव नास्तीति शक्यते वक्तुम् । एतदपि हि तर्काणामप्रतिष्ठितत्वं तर्केणैव प्रतिष्ठाप्यते, केषाञ्चित्तर्काणामप्रतिष्ठितत्वदर्शनेनान्येषामपि तज्जातीयानां तर्काणामप्रतिष्ठितत्वकल्पनात् । सर्वतर्काप्रतिष्ठायां च लोकव्यवहारोच्छेदप्रसङ्गः । अतीतवर्तमानाध्वसाम्येन ह्यनागतेऽप्यध्वनि सुखदुःखप्राप्तिपरिहाराय प्रवर्तमानो लोको दृश्यते । श्रुत्यर्थविप्रतिपत्तौ चार्थाभासनिराकरणेन सम्यगर्थनिर्धारणं तर्केणैव वाक्यवृत्तिनिरूपणरूपेण क्रियते । मनुरपि चैवं मन्यते — ‘प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता’ इति ‘आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः’ (मनु. स्मृ. १२ । १०५,१०६) इति च ब्रुवन् । अयमेव च तर्कस्यालङ्कारः — यदप्रतिष्ठितत्वं नाम । एवं हि सावद्यतर्कपरित्यागेन निरवद्यस्तर्कः प्रतिपत्तव्यो भवति । न हि पूर्वजो मूढ आसीदित्यात्मनापि मूढेन भवितव्यमिति किञ्चिदस्ति प्रमाणम् । तस्मान्न तर्काप्रतिष्ठानं दोष इति चेत् — एवमप्यविमोक्षप्रसङ्गः । यद्यपि क्वचिद्विषये तर्कस्य प्रतिष्ठितत्वमुपलक्ष्यते, तथापि प्रकृते तावद्विषये प्रसज्यत एवाप्रतिष्ठितत्वदोषादनिर्मोक्षस्तर्कस्य । न हीदमतिगम्भीरं भावयाथात्म्यं मुक्तिनिबन्धनमागममन्तरेणोत्प्रेक्षितुमपि शक्यम् । रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षस्य गोचरः, लिङ्गाद्यभावाच्च नानुमानादीनामिति चावोचाम । अपि च सम्यग्ज्ञानान्मोक्ष इति सर्वेषां मोक्षवादिनामभ्युपगमः । तच्च सम्यग्ज्ञानमेकरूपम् , वस्तुतन्त्रत्वात् । एकरूपेण ह्यवस्थितो योऽर्थः स परमार्थः । लोके तद्विषयं ज्ञानं सम्यग्ज्ञानमित्युच्यते — यथाग्निरुष्ण इति । तत्रैवं सति सम्यग्ज्ञाने पुरुषाणां विप्रतिपत्तिरनुपपन्ना । तर्कज्ञानानां त्वन्योन्यविरोधात्प्रसिद्धा विप्रतिपत्तिः । यद्धि केनचित्तार्किकेणेदमेव सम्यग्ज्ञानमिति प्रतिष्ठापितम् , तदपरेण व्युत्थाप्यते । तेनापि प्रतिष्ठापितं ततोऽपरेण व्युत्थाप्यत इति च प्रसिद्धं लोके । कथमेकरूपानवस्थितविषयं तर्कप्रभवं सम्यग्ज्ञानं भवेत् । न च प्रधानवादी तर्कविदामुत्तम इति सर्वैस्तार्किकैः परिगृहीतः, येन तदीयं मतं सम्यग्ज्ञानमिति प्रतिपद्येमहि । न च शक्यन्तेऽतीतानागतवर्तमानास्तार्किका एकस्मिन्देशे काले च समाहर्तुम् , येन तन्मतिरेकरूपैकार्थविषया सम्यङ्मतिरिति स्यात् । वेदस्य तु नित्यत्वे विज्ञानोत्पत्तिहेतुत्वे च सति व्यवस्थितार्थविषयत्वोपपत्तेः, तज्जनितस्य ज्ञानस्य सम्यक्त्वमतीतानागतवर्तमानैः सर्वैरपि तार्किकैरपह्नोतुमशक्यम् । अतः सिद्धमस्यैवौपनिषदस्य ज्ञानस्य सम्यग्ज्ञानत्वम् । अतोऽन्यत्र सम्यग्ज्ञानत्वानुपपत्तेः संसाराविमोक्ष एव प्रसज्येत । अत आगमवशेन आगमानुसारितर्कवशेन च चेतनं ब्रह्म जगतः कारणं प्रकृतिश्चेति स्थितम् ॥ ११ ॥

सौत्रमपिपदं व्याकरोति -

इतश्चेति ।

तर्कस्य कैवल्यमनुग्राह्यागमराहित्यम् ।

इतःशब्दार्थमेव स्फुटयति -

यस्मादिति ।

आगममूलविकलानां कुतस्तर्काणां प्रादुर्भावः, तत्राह -

पुरुषेति ।

औत्प्रेक्षिकतर्काणामप्रतिष्ठितत्वे हेतुमाह -

उत्प्रेक्षाया इति ।

तर्काणामप्रतिष्ठितत्वं विवृणोति -

तथाहीति ।

पुरुषमतीनामनेकरूपत्वेऽपि कपिलादौ पुरुषविशेषे माहात्म्यस्य प्रसिद्धत्वात्तदीयस्तर्कोऽप्रतिष्ठितो न भवतीति शङ्कते -

अथेति ।

कपिलादेर्माहात्म्यप्रसिद्धिमभ्युपेत्यु परिहरति -

एवमपीति ।

अन्यथेत्यादिसूत्रावयवेन चोदयति -

अथोच्येतेति ।

यथा तर्कस्य नाप्रतिष्ठितत्वदोषस्तथा व्याप्तिमनुसन्धायासावुत्प्रक्ष्यते । तथा च विलक्षणत्वादीनां व्यभिचारिणामसाधकत्वेऽपि व्याप्तिमतस्तर्कस्य साधकत्वसिद्धिरित्यर्थः ।

सोऽपि तर्कस्तर्कत्वादप्रतिष्ठितः स्यादित्याशङ्क्य सर्वस्य वा तर्कस्याप्रतिष्ठितत्वं कस्यचिदेवेति विकल्प्याद्यं दूषयति -

नहीति ।

तत्र हेतुमाह -

एतदपीति ।

तदेव स्पष्टयति -

केषाञ्चिदिति ।

यस्तर्काणामप्रतिष्ठितत्वसाधकः स प्रतिष्ठितो न वा । प्रथमे कुतः सर्वतर्काप्रतिष्ठितत्वं, तदुपपादके तर्के तदभावात् । द्वितीयेऽपि कुतः सर्वतर्काप्रतिष्ठितत्वं, तत्प्रसाधकतर्कस्यैवाप्रतिष्ठितत्वादित्यर्थः ।

लोकव्यवहारहेतुत्वादपि प्रतिष्ठितत्वं तर्कस्यास्थेयमित्याह -

सर्वेति ।

तदेवोपपादयति -

अतीतेति ।

अध्वा प्रवृत्तिनिवृत्तिव्यवहारविषयस्तत्सामान्यं तत्सजातीयत्वम् । अनागतेऽध्वनि । अननुभूते व्यवहारविषय इति यावत् । अनुभूतेष्टानिष्टसाधनजातीयसन्दर्शनात्तस्यापि समीहितसाधनत्वमसमीहितसाधनत्वं वानुमाय लोकस्तत्र प्रवर्तते ततो वा निवर्तते । तदेवं लोकयात्रामुद्वहन्ननुमानाख्यस्तर्को नाप्रतिष्ठितो भवितुमर्हतीत्यर्थः ।

ननु लोकयात्रा यथाकथञ्चित्प्रतिष्ठितेनाप्रतिष्ठितेन वा तर्केण निर्वहति, तस्यादृष्टत्वादेव दुर्निवारत्वात् । वेदार्थनिर्णयानुपयोगित्वात्तु तर्कस्याप्रतिष्ठितत्वं वैदिकैरुच्यते, तत्राह -

श्रुत्यर्थेति ।

पूर्वोत्तरतन्त्रप्रणयनानुपपत्त्या तर्कस्यप्रतिष्ठितत्वमेष्टव्यम् । न हि प्रतिष्ठिततर्कावष्टम्भमन्तरेण तन्त्राभ्यां वाक्यार्थनिर्धारणसिद्धिरिति भावः । न केवलं लौकिकवैदिकव्यवहारानुपपत्तिरेव तर्कस्य प्रतिष्ठितत्वे मानं किन्तु मनुवचनमपीत्यह -

मनुरपीति ।

शास्त्रस्य नानाचार्यमुखप्राप्तसम्प्रदायसाहित्यं विविधागमत्वम् । धर्मस्य शुद्धिरधर्मान्निष्कृष्य निर्धारणम् । तत्र शास्त्रं निर्धारितशक्तितात्पर्यवदव्यवधानेनोपयुक्तं, प्रत्यक्षानुमाने तद्व्यवधानेनेति विभागः । अत्रानुमानं चेत्येतदुपजीव्यम् । आर्षो धर्मोपदेशो मन्वत्रिविष्णुहारीतयाज्ञवल्क्यादिप्रणीतं धर्मशास्त्रम् । वेदशास्त्राविरोधिनेति विशेषणाधर्मनिर्णये शुष्कतर्कानुप्रवेशो नेति सूचितम् । धर्मशब्दाच्चात्र साधारणाद्ब्रह्मापि गृहीतम् ।

सर्वस्य तर्कस्याप्रतिष्ठितत्वपक्षमेवं दूषयित्वा कस्यचिदप्रतिष्ठितत्वमङ्गीकरोति -

अयमेवेति ।

तदेवोपपादयति -

एवं हीति ।

तर्को हि विचारात्मकस्तर्कितपूर्वपक्षप्रतिक्षेपमुखेन तर्कितसिद्धान्ताभ्युपगममूलम् । स च पूर्वपक्षविषये तर्के प्रतिष्ठारहिते सति प्रवर्तते, तदप्रतिष्ठितत्वाभावे विफलतया विचाराप्रवृत्तेरित्यर्थः ।

पूर्वतर्कवदुत्तरतर्कस्यापि तर्कत्वादप्रतिष्ठितत्वमनुमेयमित्याशङ्क्याप्रतिष्ठितत्वे तर्कस्य मूलशैथिल्यादि प्रयोजकं न तर्कत्वमिति मत्वाह -

नहीति ।

अन्यथेत्यादिचोद्यविभजनमुपसंहरति -

तस्मादिति ।

सर्वतर्काप्रतिष्ठाया दुरुपपादनत्वात्किञ्चित्तर्काप्रतिष्ठाया गुणत्वादित्यर्थः ।

परिहारमवतारयति -

एवमपीति ।

प्रतिष्ठितोऽपि कश्चित्तर्कोऽस्तीति वा जगत्कारणविषयस्तर्कस्तथेति वा साध्यते । तत्राद्यमङ्गीकरोति -

यद्यपीति ।

द्वितीयं दूषयति -

तथापीति ।

जगत्कारणमपि कार्यलिङ्गकानुमानगोचरतया तर्कगम्यमित्याशङ्क्य कारणमात्रस्य तद्गम्यत्वेऽपि तद्गतैकत्वादिविशेषस्य नास्तितद्गम्यतेत्याह -

नहीति ।

अतिगम्भीरत्वमागमातिरेकिमानायोग्यत्वम् । भावयाथात्म्यं कारणगतमद्वितीयत्वम् । मुक्तिनिबन्धनं परमानन्दसच्चिदेकतानत्वम् । यदुक्तमतिगम्भीरत्वं तदेव प्रागुक्तं स्मारयन्नुपपादयति -

रूपादीति ।

एवमपीत्यादिभागं विधान्तरेण व्याकर्तुमारभते -

अपिचेति ।

तर्कप्रतिष्ठितत्ववादिनापि तार्किकं वा वैदिकं वा ज्ञानं मोक्षसाधनं विवक्षितमिति विकल्प्याद्यं दूषयितुं सम्प्रतिपन्नमर्थमाह -

सम्यगिति ।

तस्य तर्कसमुत्थत्वासम्भवं वक्तुमेकरूपत्वमाह -

तच्चेति ।

वस्तुतन्त्रत्वेऽपि स्थाणुपुरुषविषयज्ञानवदनेकरूपत्वमाशङ्क्याह -

एकरूपेणेति ।

नहि स्थाणुर्वा पुरुषो वेति ज्ञानं वस्तुतन्त्रं किन्तु पुरुषतन्त्रमिति भावः ।

ऐकरूप्येऽपि वस्तुतस्तस्य भ्रान्तिविकल्पितानि सन्त्येवानेकरूपाणीत्याशङ्क्याग्न्यौष्ण्यज्ञानवेदकरूपवस्तुविषयमेव सम्यग्ज्ञानमित्याह -

तद्विषयमिति ।

मोक्षसाधनसम्यग्ज्ञानस्योक्तप्रकारेणैकरूप्येऽपि किमायातमिति, तत्राह -

तत्रेति ।

अविप्रतिपन्नमपि सम्यग्ज्ञानं तर्कसमुत्थं भविष्यतीत्याशङ्क्याह -

तर्केति ।

विप्रतिपत्तिमेव तार्किके ज्ञाने प्रकटयति -

यद्धीति ।

व्युत्थापनं बाधनम् ।

सत्यां विप्रतिपत्तौ फलितमाह -

कथमिति ।

एकरूपेणानवस्थितोऽर्थो विषयो यस्य ज्ञानस्य तत्तथा ।

प्रधानब्रह्मवादिनः सर्वोत्कृष्टतया सर्वैरिष्टत्वात्तदुत्प्रेक्षिततर्कप्रसूतं ज्ञानं सम्यग्ज्ञानं भविष्यतीत्याशङ्क्याह -

नचेति ।

तैरपरिगृहीतत्वेऽपि तन्मतनिरासेन प्रधानवादिना स्वमतस्य स्थापितत्वात्तस्यैवादेयत्वं सर्वतार्किकसंमतमित्यशङ्क्याह -

न च शक्यन्त इति ।

एकरूपो योऽसावेकार्थः साङ्ख्यैरुक्तस्तद्विषयेति यावत् ।

तर्कोत्थज्ञानं मोक्षहेतुरिति पक्षं प्रतिक्षिप्य वैदिकज्ञानं तथेत्यङ्गीकर्तुं वेदार्थेऽपि वेदविदां विवादात्तज्जन्यमपि ज्ञानमेकरूपं न भवतीत्यशङ्क्याह -

वेदस्येति ।

स हि स्वसामर्थ्यादेकरूपार्थधीप्रसवहेतुः पुरुषमतिदोषात्त्वन्यथा प्रतिभासत इत्यर्थः ।

वैदिकस्य ज्ञानस्यासम्यग्ज्ञानत्वापादकत्वाभावे फलितमाह -

अत इति ।

वैदिकादेव सम्यग्ज्ञानान्मोक्षसम्भवात्पक्षान्तरेषु मोक्षहेतुसम्यग्ज्ञानाभावान्मोक्षासिद्धिरिति सूत्रावयवार्थमुपसंहरति -

अतोऽन्यत्रेति ।

तर्कावष्टम्भेन ब्रह्मणि प्रत्यवस्थानासम्भवं प्रसाध्य प्रकृतमधिकरणार्थमुपसंहरति -

अत आगमवशेनेति ॥ ११ ॥