ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १२ ॥
वैदिकस्य दर्शनस्य प्रत्यासन्नत्वाद्गुरुतरतर्कबलोपेतत्वाद्वेदानुसारिभिश्च कैश्चिच्छिष्टैः केनचिदंशेन परिगृहीतत्वात्प्रधानकारणवादं तावद्व्यपाश्रित्य यस्तर्कनिमित्त आक्षेपो वेदान्तवाक्येषूद्भावितः, परिहृतःइदानीमण्वादिवादव्यपाश्रयेणापि कैश्चिन्मन्दमतिभिर्वेदान्तवाक्येषु पुनस्तर्कनिमित्त आक्षेप आशङ्क्येत इत्यतः प्रधानमल्लनिबर्हणन्यायेनातिदिशतिपरिगृह्यन्त इति परिग्रहाः परिग्रहाः अपरिग्रहाःशिष्टानामपरिग्रहाः शिष्टापरिग्रहाःएतेन प्रकृतेन प्रधानकारणवादनिराकरणकारणेनशिष्टैर्मनुव्यासप्रभृतिभिः केनचिदप्यंशेनापरिगृहीता येऽण्वादिकारणवादाः, तेऽपि प्रतिषिद्धतया व्याख्याता निराकृता द्रष्टव्याःतुल्यत्वान्निराकरणकारणस्य नात्र पुनराशङ्कितव्यं किञ्चिदस्तितुल्यमत्रापि परमगम्भीरस्य जगत्कारणस्य तर्कानवगाह्यत्वम् , तर्कस्य चाप्रतिष्ठितत्वम् , अन्यथानुमानेऽप्यविमोक्षः, आगमविरोधश्चइत्येवंजातीयकं निराकरणकारणम् ॥ १२ ॥

अतिदेशत्वादुपदेशवत्पादादिसङ्गतिचतुष्टयं फलभेदश्च । चेतनाद्ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः । स किमीश्वरो न द्रव्योपादानं, व्यापित्वात् , दिगादिवदित्यादिना तार्किकन्यायेन तदनाभासत्वाभासत्वाभ्यां विरुध्यते न वेति सन्देहे पूर्वोत्तराधिकरणयोरुपदेशातिदेशभावेन सम्बन्धे कारणमाह -

वैदिकस्येति ।

कार्यकारणयोरभेदस्यात्मनः स्वप्रकाशत्वासङ्गत्वयोः सम्यग्दर्शनस्यासहायस्य मुक्तिहेतुतेत्येवमादीनामभ्युपगमात्प्रत्यासन्नत्वम् । परिमाणसमन्वयादिर्गुरुतरस्तर्कः । देवलप्रभृतयः शिष्टाः ।

केनचिदंशेन ।

कार्यकारणयोरनन्यत्वादिनेति यावत् ।

अण्वादीति ।

आदिपदेन स्वभावाभाववादौ गृहीतौ ।

तर्कनिमित्त आक्षेप इति ।

अयमर्थः - विमतं कार्यद्रव्यं नेश्वरोपादानकं, गुणत्वानधिकरणत्वात् ईश्वरवत् । ईश्वरो न कार्यद्रव्योपादानं, कार्यद्रव्ये समानजातीयविशेषगुणारम्भकविशेषगुणानधिकरणत्वाद्व्यापित्वाद्वा, दिगादिवत् ।

ब्रह्मचैतन्यं जगत्समवायिकारणविशेषगुणो न भवति, कार्ये समानजातीयविशेषगुणानारम्भकत्वात् , यथा तन्तुगतं शौक्ल्यं न घटसमवायिकारणविशेषगुण इत्येवंविधानुमानविरोधं समन्वयस्य कश्चिच्चोदयेदिति तामेतामाशङ्कां निराकर्तुमिदं सूत्रमित्याह -

इत्यत इति ।

सूत्राक्षराणि व्याचष्टे -

परिगृह्यन्त इति ।

शिष्टापरिग्रहशब्दस्य समासमुक्त्वा वाक्यार्थमाह -

शिष्टैरिति ।

अतिदेशेन निराकरणे हेतुमाह -

तुल्यत्वादिति ।

पूर्वोक्तानुमानेष्वदूषितेषु कथमिष्टसिद्धिरित्याशङ्क्याह -

नात्रेति ।

समन्वयः सप्तम्यर्थः । गुणत्वानधिकरणत्वादित्यत्रानुपादानत्वस्यैवोपाधित्वादीश्वरो द्रव्योपादानवृत्तिद्रव्यत्वावान्तरजातिमानश्रावणविशेषगुणवत्त्वात्पृथिवीवदिति परमतेन व्यापित्वादेः सत्प्रतिपक्षत्वात्कार्ये समानजातीयगुणान्तरानारम्भकत्वस्यातिलोहितवृश्चिकसमवायिकारणगोमयविशेषगुणश्यामत्वे व्यभिचारत् । विमतमीश्वरोपादानकं, उपादानवत्त्वात् , ईश्वरनिष्ठसंयोगवदित्यनुमानान्न प्रकृते समन्वये किञ्चिदाशङ्कितव्यमिति भावः ।

यदुक्तं तुल्यत्वान्निराकरणकारणस्येति तदेव व्यनक्ति -

तुल्यमिति ।

वैशेषिकादिपक्षानुसारि चोद्यं सप्तम्यर्थः । तुल्यमत्रापि निराकरणकारणमिति सम्बन्धः ।

तदेवं प्रागुक्तं सङ्क्षिपति -

परमगम्भीरस्येत्यादिना ॥ १२ ॥