ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॥ १३ ॥
अन्यथा पुनर्ब्रह्मकारणवादस्तर्कबलेनैवाक्षिप्यते । यद्यपि श्रुतिः प्रमाणं स्वविषये भवति, तथापि प्रमाणान्तरेण विषयापहारेऽन्यपरा भवितुमर्हति, यथा मन्त्रार्थवादौ । तर्कोऽपि स्वविषयादन्यत्राप्रतिष्ठितः स्यात् , यथा धर्माधर्मयोः । किमतो यद्येवम् ? अत इदमयुक्तम् , यत्प्रमाणान्तरप्रसिद्धार्थबाधनं श्रुतेः । कथं पुनः प्रमाणान्तरप्रसिद्धोऽर्थः श्रुत्या बाध्यत इति । अत्रोच्यते — प्रसिद्धो ह्ययं भोक्तृभोग्यविभागो लोके — भोक्ता चेतनः शारीरः, भोग्याः शब्दादयो विषया इति । यथा भोक्ता देवदत्तः, भोज्य ओदन इति । तस्य च विभागस्याभावः प्रसज्येत, यदि भोक्ता भोग्यभावमापद्येत भोग्यं वा भोक्तृभावमापद्येत । तयोश्चेतरेतरभावापत्तिः परमकारणाद्ब्रह्मणोऽनन्यत्वात्प्रसज्येत । न चास्य प्रसिद्धस्य विभागस्य बाधनं युक्तम् । यथा त्वद्यत्वे भोक्तृभोग्ययोर्विभागो दृष्टः, तथातीतानागतयोरपि कल्पयितव्यः । तस्मात्प्रसिद्धस्यास्य भोक्तृभोग्यविभागस्याभावप्रसङ्गादयुक्तमिदं ब्रह्मकारणतावधारणमिति चेत्कश्चिच्चोदयेत् , तं प्रति ब्रूयात् — स्याल्लोकवदिति । उपपद्यत एवायमस्मत्पक्षेऽपि विभागः, एवं लोके दृष्टत्वात् । तथा हि — समुद्रादुदकात्मनोऽनन्यत्वेऽपि तद्विकाराणां फेनवीचीतरङ्गबुद्बुदादीनामितरेतरविभाग इतरेतरसंश्लेषादिलक्षणश्च व्यवहार उपलभ्यते । न च समुद्रादुदकात्मनोऽनन्यत्वेऽपि तद्विकाराणां फेनतरङ्गादीनामितरेतरभावापत्तिर्भवति । न च तेषामितरेतरभावानापत्तावपि समुद्रात्मनोऽन्यत्वं भवति । एवमिहापि — न भोक्तृभोग्ययोरितरेतरभावापत्तिः, न च परस्माद्ब्रह्मणोऽन्यत्वं भविष्यति । यद्यपि भोक्ता न ब्रह्मणो विकारः ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । १) इति स्रष्टुरेवाविकृतस्य कार्यानुप्रवेशेन भोक्तृत्वश्रवणात् , तथापि कार्यमनुप्रविष्टस्यास्त्युपाधिनिमित्तो विभाग आकाशस्येव घटाद्युपाधिनिमित्तः — इत्यतः, परमकारणाद्ब्रह्मणोऽनन्यत्वेऽप्युपपद्यते भोक्तृभोग्यलक्षणो विभागः समुद्रतरङ्गादिन्यायेनेत्युक्तम् ॥ १३ ॥

अद्वितीयाद्ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः स किं द्वैतग्राहिप्रत्यक्षादिना विरुध्यते न वेति तस्य तत्त्वावेदकत्वानावेदकत्वाभ्यां सन्देहे जगत्कारणे तर्कस्याप्रतिष्ठितत्वेऽपि जगद्भेदे तस्य प्रतिष्ठितत्वसम्भवादद्वैतासिद्धिरित्यभिसन्धाय पूर्वपक्षयति -

अन्यथेति ।

समन्वयस्याध्यक्षादिविरोधसमानात्पादादिसङ्गतिसौलभ्यम् । फलं तु पूर्ववत्तर्कशब्दोऽमानविषयोऽवधारणमयोगव्यावृत्त्यर्थम् ।

आम्नायैकगम्ये मानान्तरनिमित्ताक्षेपस्यानवकाशत्वमाशङ्क्याह -

यद्यपीति ।

निर्णीतार्थश्रुतिविरोधे मानान्तरस्यैवाप्रामाण्यमनिर्णीतार्था तु श्रुतिर्मानान्तरविरोधे सत्युपचरितार्था स्यादित्यर्थः ।

मानान्तरेण श्रुतेर्विषयापहारे सत्यन्यपरतेत्यत्रोदाहरणमाह -

यथेति ।

यत्तु तर्कस्याप्रतिष्ठितत्वान्न श्रुत्यर्थे तन्निमित्तस्याक्षेपस्य सावकाशत्वमिति, तत्राह -

तर्कोऽपीति ।

श्रुतिवदित्यपेरर्थः ।

तर्कस्य स्वविषये प्रतिष्ठितत्वेऽपि श्रुत्या तुल्यविषयत्वाभावान्न तयोर्विरोधशङ्केति शङ्कते -

किमत इति ।

श्रुत्या सहैकविषयत्वाभावेऽपि स्वविषयस्थापनेनार्थात्तर्कस्य तद्विरोधे श्रुतिरमानं तदुत्तरकालत्वात्तत्प्रवृत्तेरिति मत्वाह -

अत इति ।

श्रुतेः स्वार्थबोधनोपक्षयादन्यबाधस्यानवकाशत्वान्न विरोध शङ्केति पुनः सिद्धान्ती शङ्कतेे -

कथमिति ।

अद्वैतं स्वार्थं बोधयन्त्येव श्रुतिरर्थाद्द्वैतमपबाधमाना तद्विषयाध्यक्षादिभिर्विरुध्येतेति पूर्ववाद्याह -

उच्यत इति ।

तत्रादावध्यक्षविरोधं श्रुतेरादर्शयति -

प्रसिद्धो हीति ।

लौकिकीं प्रसिद्धिमेव दृष्टान्तद्वारेणाभिनयति -

भोक्तेति ।

प्रसिद्धो विभागस्तथैवास्तां, श्रुतिश्च स्वार्थं बोधयिष्यति, का हानिरित्याशङ्क्याह -

तस्य चेति ।

भोक्तृभोग्ययोरेकता नास्माभिरुक्तेत्याशङ्क्याह -

तयोश्चेति ।

अस्तु तर्हि श्रुत्याद्वैतं बोधयन्त्या बाधोऽस्येति, नेत्याह -

न चेति ।

श्रुतेरुपचरितार्थत्वेन सावकाशत्वान्निरवकाशं प्रत्यक्षं बलवदिति भावः ।

अनुमानविरोधमधुना श्रुतेरुपन्यस्यति -

यथेति ।

विमतौ भोक्तृभोग्यविभागव्यवहारवन्तौ, कालत्वात् , वर्तमानकालवत् । यद्वा विमतो विभागोऽबाधितः, विभागत्वात् , इदानीन्तनविभागवदित्यर्थः ।

उक्ताध्यक्षानुमानविरोधादसिद्धिः समन्वयस्येत्युपसंहरति -

तस्मादिति ।

तामिमामाशङ्कामापाततो लोकसिद्धदृष्टान्तावष्टम्मेन प्रत्याचष्टे -

तंं प्रतीति ।

सूत्रावयवं व्याकरोति -

उपपद्यत इति ।

लोके दृष्टत्वमेव स्फुटयति -

तथाहीति ।

इतरेतरसंश्लेषादीत्यादिशब्देन विश्लेषपरिमाणविशेषादि गृह्यते ।

ननु फेनादीनां समुद्रादभेदे परस्परभावापत्तेर्नेतरेतरविभागादि सम्भवति । न खल्वेकस्मादभिन्नानां मिथो भिन्नत्वमेकस्यैवोपपद्यते, तत्राह -

नचेति ।

फेनादीनां मिथो भिन्नत्वेनैकस्मादभिन्नत्वमन्यथा समुद्रस्यापि तदभेदेन भेदप्रसङ्गादित्याशङ्क्याह -

नच तेषामिति ।

दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह -

एवमिति ।

इहेति । ब्रह्मवादोक्तिः ।

फेनादीनां समुद्रकार्यत्वात्तदभेदेऽपि जीवानां ब्रह्मकार्यतया तदभेदायोगादस्ति वैलक्षण्यमित्याशङ्क्याह -

यद्यपीति ।

तर्हि जीवब्रह्मणोरत्यन्ताभेदाद्भोक्तृविभागाभावाद्भोग्यस्यापि प्रतिनियमासिद्धेर्विभागावगाहिप्रमाणविरोधतादवस्थ्यमित्यशङ्क्याह -

तथापीति ।

दार्ष्टान्तिकमुपसंहरति -

इत्यत इति ।

समुद्रतरङ्गादिन्यायेन समुद्रादभेदेऽपि फेनतरङ्गादीनां मिथो भेददृष्टान्तेनेत्यर्थः ।

विभागोपपत्तौ तद्विषयाध्यक्षादेरविरुद्धतेति युक्तमेव जगतो ब्रह्मकारणत्वमुक्तमित्यधिकरणार्थं निगमयति -

उक्तमिति ॥ १३ ॥