ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ १४ ॥
अभ्युपगम्य चेमं व्यावहारिकं भोक्तृभोग्यलक्षणं विभागम्स्याल्लोकवत्इति परिहारोऽभिहितः त्वयं विभागः परमार्थतोऽस्ति, यस्मात्तयोः कार्यकारणयोरनन्यत्वमवगम्यतेकार्यमाकाशादिकं बहुप्रपञ्चं जगत्कारणं परं ब्रह्मतस्मात्कारणात्परमार्थतोऽनन्यत्वं व्यतिरेकेणाभावः कार्यस्यावगम्यतेकुतः ? आरम्भणशब्दादिभ्यःआरम्भणशब्दस्तावदेकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय दृष्टान्तापेक्षायामुच्यतेयथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातꣳ स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) इतिएतदुक्तं भवतिएकेन मृत्पिण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृन्मयं घटशरावोदञ्चनादिकं मृदात्मकत्वाविशेषाद्विज्ञातं भवेत्यतो वाचारम्भणं विकारो नामधेयम्वाचैव केवलमस्तीत्यारभ्यतेविकारः घटः शराव उदञ्चनं चेति तु वस्तुवृत्तेन विकारो नाम कश्चिदस्तिनामधेयमात्रं ह्येतदनृतम्मृत्तिकेत्येव सत्यम्इति एष ब्रह्मणो दृष्टान्त आम्नातःतत्र श्रुताद्वाचारम्भणशब्दाद्दार्ष्टान्तिकेऽपि ब्रह्मव्यतिरेकेण कार्यजातस्याभाव इति गम्यतेपुनश्च तेजोबन्नानां ब्रह्मकार्यतामुक्त्वा तेजोबन्नकार्याणां तेजोबन्नव्यतिरेकेणाभावं ब्रवीतिअपागादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम्’ (छा. उ. ६ । ४ । १) इत्यादिनाआरम्भणशब्दादिभ्य इत्यादिशब्दात् ऐतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ आत्मा तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इदꣳ सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६)ब्रह्मैवेदं सर्वम्आत्मैवेदꣳ सर्वम्’ (छा. उ. ७ । २५ । २) नेह नानास्ति किञ्चन’ (बृ. उ. ४ । ४ । १९) इत्येवमाद्यप्यात्मैकत्वप्रतिपादनपरं वचनजातमुदाहर्तव्यम् चान्यथा एकविज्ञानेन सर्वविज्ञानं सम्पद्यतेतस्माद्यथा घटकरकाद्याकाशानां महाकाशादनन्यत्वम् , यथा मृगतृष्णिकोदकादीनामूषरादिभ्योऽनन्यत्वम् , दृष्टनष्टस्वरूपत्वात् स्वरूपेणानुपाख्यत्वात्एवमस्य भोग्यभोक्त्रादिप्रपञ्चजातस्य ब्रह्मव्यतिरेकेणाभाव इति द्रष्टव्यम्

अद्वितीयब्रह्मणो जगत्सर्गवादिनः समन्वयस्य पूर्ववद्भेदग्राहिप्रत्यक्षादिविरोधसन्देहे पूर्वाधिकरणेऽपि भेदग्राहिमानाविरोधोपपादनात्पुनरुक्तिमाशङ्क्य सङ्गतिं वदन्नगतार्थत्वमाह -

अभ्युपगम्येति ।

अङ्गीकृत्य हि भेदग्राहिप्रमाणस्य प्रामाण्यं भेदाभेदयो रूपभेदेन विरोधः समाहितः । सम्प्रति स्वीकृतं प्रामाण्यं तत्त्वावेदकत्वात्प्रच्याव्य व्यावहारिकत्वे व्यवस्थाप्यते । तथाच विषयभेदादपौनरुक्त्यम् । सङ्गतिफले तु पूर्ववदिति भावः ।

यथोक्तविभागस्य वस्तुतोऽसत्त्वे हेतुत्वेन तदनन्यत्वमिति सूत्रावयवं विभजते -

यस्मादिति ।

कार्ये विप्रतिपत्तिनिरासार्थं विशिनष्टि -

कार्यमिति ।

कारणेऽपि विप्रतिपत्तिं निराकर्तुं विशेषमादत्ते -

कारणमिति ।

कार्यकारणयोरनन्यत्वमित्युक्ते मिथोऽनन्यत्वं शङ्कितं व्यावर्तयति -

तस्मादिति ।

ननु कार्यप्रपञ्चस्य भेदाभेदाभ्यामनिर्वाच्यतामिच्छन्कारणात्परमार्थतोऽनन्यत्वं व्याचक्षाणः स्वोक्तिविरोधं कथं नाधिगच्छति, तत्राह -

व्यतिरेकेणेति ।

यस्मादेवमवगम्यते तस्मात्परमार्थतो विभागो नास्तीति तद्ग्राहि मानं व्यावहारिकमानत्वात्तात्त्विकमानस्य समन्वयस्याविरोधीत्यर्थः ।

कार्यस्य कारणातिरेकेणाभावे हेतुं पृच्छति -

कुत इति ।

बुभुत्सितहेतुविषयं सूत्रभागमवतारयति -

आरम्भणेति ।

तत्र भेदनिषेधहेतुमारम्भणशब्दं व्याकरोति -

आरम्भणशब्दस्तावदिति ।

घटादिविषयत्वादेषशब्दो जगद्विषयो न भवति, तत्कथं मिथ्यात्वं तेन सिध्यतीत्याशङ्क्य जगतो मिथ्यात्वसाधनार्थमादिष्टदृष्टान्तनिविष्टं वाचारम्भणत्वं दार्ष्टान्तिकेऽपि साम्यार्थमास्थेयमित्यभिप्रेत्याह -

एतदुक्तमिति ।

परमार्थतो विज्ञातमिति सम्बन्धः ।

कथमन्यस्मिन्विदितेऽन्यद्विज्ञातं स्यादित्याशङ्क्याह -

यत इति ।

कारणमपि विकारवदनृतमेव शब्दमात्रत्वाविशेषादित्याशङ्क्याह -

मृत्तिकेति ।

एवशब्देनेतिशब्दः सम्बध्यते ।

तथापि ब्रह्मणि किमायातं, तत्राह -

एष इति ।

दृष्टान्तस्य कारणातिरिक्तकार्याभावविषयत्वेऽपि दार्ष्टान्तिकस्य नैवमित्याशङ्क्य फलितमाह -

तत्रेति ।

संनिहितो दृष्टान्तः सप्तम्यर्थः ।

प्रकारान्तरेणारम्भणशब्दं व्याचष्टे -

पुनश्चेति ।

दृष्टान्तवशाद्दार्ष्टान्तिके ब्रह्मातिरेकिकार्याभावप्रतिपत्त्यनन्तरं चेत्यर्थः । ब्रह्मकार्याणां मिथ्यात्वं तत्कार्याणां मिथ्यात्वोक्त्यापि दर्शितमिति भावः ।

आदिशब्दं व्याख्याति -

आरम्भणेति ।

एवमादीत्यादिशब्दात् ‘तदात्मनं स्वयमकुरुत’ इत्यादि गृहीतम् । एकविज्ञानेन सर्वविज्ञानप्रिज्ञानुपपत्तिरपि भेदाभावे मानतया सौत्रेणादिशब्देन गृहीतेत्याह -

न चेति ।

यदि जगतो ब्रह्मैव तत्त्वं तदा तज्ज्ञानेन तत्त्वतो ज्ञायेत, यथा रज्जुतत्त्वज्ञानेन भुजङ्गादितत्त्वम् । तत्त्वज्ञानमेव च ज्ञानं ततोऽन्यस्य मिथ्याज्ञानत्वेनाज्ञानत्वादिति भावः ।

सिद्धान्तमुपसंहरति -

तस्मादिति ।

जीवप्रपञ्चयोर्ब्रह्मणोऽनन्यत्वे क्रमेण दृष्टान्तद्वयम् । तेषामूषरादिभ्योऽनन्यत्वे हेतुमाह -

दृष्टेति ।

कदाचिद्दृष्टं पुनर्नष्टम् । अनित्यमिति यावत् । तत्स्वभावत्वान्मृगतृष्णिकोदकादीनामूषरादिभ्यो भेदेन नास्तित्वम् । विमतमधिष्ठानातिरिक्तसत्ताशून्यं, सावधित्वात् , चिदात्मवदिति व्यतिरेकानुमानादित्यर्थः ।

दृष्टग्रहणसूचितं प्रतीतिकालेऽपि सत्ताराहित्यं तत्रैव हेत्वन्तरमाह -

स्वरूपेणेति ।