ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
भावे चोपलब्धेः ॥ १५ ॥
इतश्च कारणादनन्यत्वं कार्यस्य, यत्कारणं भाव एव कारणस्य कार्यमुपलभ्यते, नाभावेतद्यथासत्यां मृदि घट उपलभ्यते, सत्सु तन्तुषु पटः नियमेनान्यभावेऽन्यस्योपलब्धिर्दृष्टा ह्यश्वो गोरन्यः सन्गोर्भाव एवोपलभ्यते कुलालभाव एव घट उपलभ्यते, सत्यपि निमित्तनैमित्तिकभावेऽन्यत्वात्नन्वन्यस्य भावेऽप्यन्यस्योपलब्धिर्नियता दृश्यते, यथाग्निभावे धूमस्येतिनेत्युच्यते; उद्वापितेऽप्यग्नौ गोपालघुटिकादिधारितस्य धूमस्य दृश्यमानत्वात्अथ धूमं कयाचिदवस्थया विशिंष्यात्ईदृशो धूमो नासत्यग्नौ भवतीति, नैवमपि कश्चिद्दोषःतद्भावानुरक्तां हि बुद्धिं कार्यकारणयोरनन्यत्वे हेतुं वयं वदामः चासावग्निधूमयोर्विद्यतेभावाच्चोपलब्धेःइति वा सूत्रम् केवलं शब्दादेव कार्यकारणयोरनन्यत्वम् , प्रत्यक्षोपलब्धिभावाच्च तयोरनन्यत्वमित्यर्थःभवति हि प्रत्यक्षोपलब्धिः कार्यकारणयोरनन्यत्वेतद्यथातन्तुसंस्थाने पटे तन्तुव्यतिरेकेण पटो नाम कार्यं नैवोपलभ्यते, केवलास्तु तन्तव आतानवितानवन्तः प्रत्यक्षमुपलभ्यन्ते, तथा तन्तुष्वंशवः, अंशुषु तदवयवाःअनया प्रत्यक्षोपलब्ध्या लोहितशुक्लकृष्णानि त्रीणि रूपाणि, ततो वायुमात्रमाकाशमात्रं चेत्यनुमेयम् , ततः परं ब्रह्मैकमेवाद्वितीयम्तत्र सर्वप्रमाणानां निष्ठामवोचाम ॥ १५ ॥

तदनन्यत्वमित्यस्य श्रुत्यादिविरोधः समाहितः । सम्प्रति तदनन्यत्वे मानमनुमानमाह -

भावे चेति ।

कारणभावे भाने च कार्यस्य भावाद्भानाच्च तस्य कारणादनन्यत्वमित्यर्थः ।