ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
भावे चोपलब्धेः ॥ १५ ॥
इतश्च कारणादनन्यत्वं कार्यस्य, यत्कारणं भाव एव कारणस्य कार्यमुपलभ्यते, नाभावेतद्यथासत्यां मृदि घट उपलभ्यते, सत्सु तन्तुषु पटः नियमेनान्यभावेऽन्यस्योपलब्धिर्दृष्टा ह्यश्वो गोरन्यः सन्गोर्भाव एवोपलभ्यते कुलालभाव एव घट उपलभ्यते, सत्यपि निमित्तनैमित्तिकभावेऽन्यत्वात्नन्वन्यस्य भावेऽप्यन्यस्योपलब्धिर्नियता दृश्यते, यथाग्निभावे धूमस्येतिनेत्युच्यते; उद्वापितेऽप्यग्नौ गोपालघुटिकादिधारितस्य धूमस्य दृश्यमानत्वात्अथ धूमं कयाचिदवस्थया विशिंष्यात्ईदृशो धूमो नासत्यग्नौ भवतीति, नैवमपि कश्चिद्दोषःतद्भावानुरक्तां हि बुद्धिं कार्यकारणयोरनन्यत्वे हेतुं वयं वदामः चासावग्निधूमयोर्विद्यतेभावाच्चोपलब्धेःइति वा सूत्रम् केवलं शब्दादेव कार्यकारणयोरनन्यत्वम् , प्रत्यक्षोपलब्धिभावाच्च तयोरनन्यत्वमित्यर्थःभवति हि प्रत्यक्षोपलब्धिः कार्यकारणयोरनन्यत्वेतद्यथातन्तुसंस्थाने पटे तन्तुव्यतिरेकेण पटो नाम कार्यं नैवोपलभ्यते, केवलास्तु तन्तव आतानवितानवन्तः प्रत्यक्षमुपलभ्यन्ते, तथा तन्तुष्वंशवः, अंशुषु तदवयवाःअनया प्रत्यक्षोपलब्ध्या लोहितशुक्लकृष्णानि त्रीणि रूपाणि, ततो वायुमात्रमाकाशमात्रं चेत्यनुमेयम् , ततः परं ब्रह्मैकमेवाद्वितीयम्तत्र सर्वप्रमाणानां निष्ठामवोचाम ॥ १५ ॥

विमतं कारणानतिरिक्तं, तद्भावभाननियतभावभानत्वात् , तत्स्वरूपवदित्यनुमानं सूत्रयोजनया दर्शयितुं चकारार्थमाह -

इतश्चेति ।

इतःशब्दार्थं स्फुटन्नवशिष्टं व्याचष्टे -

यत्कारणमिति ।

हेतुमुदाहरणारूढतया द्रढयति -

तद्यथेति ।

सत्यपि घटे पटोपलब्धिदर्शनात्कारणभावे कार्योपलब्धिर्नाभेदसाधनमित्याशङ्क्याह -

नचेति ।

अन्यस्य भावेऽन्यस्योपलब्धिनियतेत्यत्र दृष्टान्तमाह -

नहीति ।

ननु गवाश्वयोरकार्यकारणत्वादनियतोपलम्भेऽपि कार्यकारणयोरनन्यत्वमन्तरेणैव कार्यकारणत्वकृता नियतोपलब्धिरित्याशङ्क्याह -

नचेति ।

नियमेनोपलम्भेऽपि नानन्यत्वमिति व्यभिचारं शङ्कते -

नन्विति ।

धूममात्रस्याग्निना नियतोपलब्धिर्धूमविशेषस्य वेति विकल्प्याद्यं प्रत्याह -

नेत्युच्यत इति ।

द्वितीयं शङ्कते -

अथेति ।

ईदृशत्वं बहलोर्ध्वाग्रत्वादिविशिष्टत्वमसत्यग्नौ न भवति न भाति चेति द्रष्टव्यम् ।

धूमविशेषस्याग्निना नियतोपलब्धिमुपेत्य हेतुशिक्षया व्यभिचारं परिहरति -

नैवमिति ।

तद्भावानुविधायिभावत्वं तद्भानानुविधायिभानत्वं च कार्यस्य कारणादनन्यत्वे हेतुः । घूमविशेषस्य चाग्निभावानुविधायिभावत्वेऽपि न तद्भानानुविधायिभावत्वं तद्भानानुविधायिभानत्वं च कार्यस्य कारणादनन्यत्वे हेतुः । धूमविशेषस्य चाग्निभावानुविधायिभावत्वेऽपि न तद्भानानुविधायिभानत्वमग्निभानस्य धूमभानाधीनत्वात् । नच तद्भानानुविधायिभानत्वमेवास्तु हेतुः, प्रभाभानानुविधायिभाने चाक्षुषरूपे व्यभिचारात् । तस्माद्विशिष्टहेत्ववष्टम्भात्कार्यस्य कारणादनन्यत्वमुचितमिति भावः ।

एतदेव सूत्रं पाठान्तरेण व्याकुर्वन्कार्यस्य कारणादनन्यत्वे मानान्तरमाह -

भावाच्चेति ।

प्रत्यक्षोपलब्धिभेव प्रतिज्ञोदाहरणाभ्यां विवृणोति -

भवति हीति ।

तन्तुव्यतिरेकेणातानवितानाभ्यां पटो भातीत्याशङ्क्याह -

केवलास्त्विति ।

बहुत्वेऽपि तन्तूनामेकप्रावरणार्थक्रियावच्छेदादेकशब्दगोचरत्वं, बहूनामपि वर्णानामेकार्थबुद्धिहेतुत्ववदेकार्थक्रियाकारित्वं च तेषामविरुद्धमिति भावः ।

तन्तुव्यतिरिक्तपटाभाववदंशुव्यतिरिक्ततन्त्वभावोऽपि प्रत्यक्षः सिध्यतीत्याह -

तथेति ।

अंशवोऽपि स्वावयवव्यतिरेकेण न सन्तीति प्रत्यक्षमित्याह -

अंशुष्विति ।

ननु प्रत्यक्षे कार्यकारणभावे कार्यं कारणमात्रमिति शक्यं प्रत्यक्षयितुं, यत्र त्वसौ प्रत्यक्षो न भवति तत्र कथमिति, तत्राह -

अनयेति ।

विमतं स्वोपादानाव्यतिरिक्तं, कार्यत्वात् , पटवदित्यनुमानं मूलकारणपर्यन्तं धावतीत्यर्थः ।

प्रत्यक्षानुमानाभ्यां फलितमर्थमाह -

तत इति ।

ब्रह्मैव मूलकारणं परमार्थसदवान्तरकरणानि त्वनिर्वाच्यनीत्यर्थः ।

कारणत्वाविशेषात्तन्त्वादिवद्ब्रह्मणोऽपि कारणान्तरमनुमेयमित्याशङ्क्याह -

तत्रेति ।

सर्वजगद्भ्रमाधिष्ठानतया तस्याकल्पितत्वान्नाधिष्ठानान्तरापेक्षेति भावः ॥ १५ ॥