विमतं कारणानतिरिक्तं, तद्भावभाननियतभावभानत्वात् , तत्स्वरूपवदित्यनुमानं सूत्रयोजनया दर्शयितुं चकारार्थमाह -
इतश्चेति ।
इतःशब्दार्थं स्फुटन्नवशिष्टं व्याचष्टे -
यत्कारणमिति ।
हेतुमुदाहरणारूढतया द्रढयति -
तद्यथेति ।
सत्यपि घटे पटोपलब्धिदर्शनात्कारणभावे कार्योपलब्धिर्नाभेदसाधनमित्याशङ्क्याह -
नचेति ।
अन्यस्य भावेऽन्यस्योपलब्धिनियतेत्यत्र दृष्टान्तमाह -
नहीति ।
ननु गवाश्वयोरकार्यकारणत्वादनियतोपलम्भेऽपि कार्यकारणयोरनन्यत्वमन्तरेणैव कार्यकारणत्वकृता नियतोपलब्धिरित्याशङ्क्याह -
नचेति ।
नियमेनोपलम्भेऽपि नानन्यत्वमिति व्यभिचारं शङ्कते -
नन्विति ।
धूममात्रस्याग्निना नियतोपलब्धिर्धूमविशेषस्य वेति विकल्प्याद्यं प्रत्याह -
नेत्युच्यत इति ।
द्वितीयं शङ्कते -
अथेति ।
ईदृशत्वं बहलोर्ध्वाग्रत्वादिविशिष्टत्वमसत्यग्नौ न भवति न भाति चेति द्रष्टव्यम् ।
धूमविशेषस्याग्निना नियतोपलब्धिमुपेत्य हेतुशिक्षया व्यभिचारं परिहरति -
नैवमिति ।
तद्भावानुविधायिभावत्वं तद्भानानुविधायिभानत्वं च कार्यस्य कारणादनन्यत्वे हेतुः । घूमविशेषस्य चाग्निभावानुविधायिभावत्वेऽपि न तद्भानानुविधायिभावत्वं तद्भानानुविधायिभानत्वं च कार्यस्य कारणादनन्यत्वे हेतुः । धूमविशेषस्य चाग्निभावानुविधायिभावत्वेऽपि न तद्भानानुविधायिभानत्वमग्निभानस्य धूमभानाधीनत्वात् । नच तद्भानानुविधायिभानत्वमेवास्तु हेतुः, प्रभाभानानुविधायिभाने चाक्षुषरूपे व्यभिचारात् । तस्माद्विशिष्टहेत्ववष्टम्भात्कार्यस्य कारणादनन्यत्वमुचितमिति भावः ।
एतदेव सूत्रं पाठान्तरेण व्याकुर्वन्कार्यस्य कारणादनन्यत्वे मानान्तरमाह -
भावाच्चेति ।
प्रत्यक्षोपलब्धिभेव प्रतिज्ञोदाहरणाभ्यां विवृणोति -
भवति हीति ।
तन्तुव्यतिरेकेणातानवितानाभ्यां पटो भातीत्याशङ्क्याह -
केवलास्त्विति ।
बहुत्वेऽपि तन्तूनामेकप्रावरणार्थक्रियावच्छेदादेकशब्दगोचरत्वं, बहूनामपि वर्णानामेकार्थबुद्धिहेतुत्ववदेकार्थक्रियाकारित्वं च तेषामविरुद्धमिति भावः ।
तन्तुव्यतिरिक्तपटाभाववदंशुव्यतिरिक्ततन्त्वभावोऽपि प्रत्यक्षः सिध्यतीत्याह -
तथेति ।
अंशवोऽपि स्वावयवव्यतिरेकेण न सन्तीति प्रत्यक्षमित्याह -
अंशुष्विति ।
ननु प्रत्यक्षे कार्यकारणभावे कार्यं कारणमात्रमिति शक्यं प्रत्यक्षयितुं, यत्र त्वसौ प्रत्यक्षो न भवति तत्र कथमिति, तत्राह -
अनयेति ।
विमतं स्वोपादानाव्यतिरिक्तं, कार्यत्वात् , पटवदित्यनुमानं मूलकारणपर्यन्तं धावतीत्यर्थः ।
प्रत्यक्षानुमानाभ्यां फलितमर्थमाह -
तत इति ।
ब्रह्मैव मूलकारणं परमार्थसदवान्तरकरणानि त्वनिर्वाच्यनीत्यर्थः ।
कारणत्वाविशेषात्तन्त्वादिवद्ब्रह्मणोऽपि कारणान्तरमनुमेयमित्याशङ्क्याह -
तत्रेति ।
सर्वजगद्भ्रमाधिष्ठानतया तस्याकल्पितत्वान्नाधिष्ठानान्तरापेक्षेति भावः ॥ १५ ॥