मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
प्रथमः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
सत्त्वाच्चावरस्य ॥ १६ ॥
इतश्च
कारणात्कार्यस्यानन्यत्वम्
,
यत्कारणं
प्रागुत्पत्तेः
कारणात्मनैव
कारणे
सत्त्वमवरकालीनस्य
कार्यस्य
श्रूयते
—
‘
सदेव
सोम्येदमग्र
आसीत्
’ (छा. उ. ६ । २ । १)
‘
आत्मा
वा
इदमेक
एवाग्र
आसीत्
’ (ऐ. आ. १ । १ । १)
इत्यादाविदंशब्दगृहीतस्य
कार्यस्य
कारणेन
सामानाधिकरण्यात्
।
यच्च
यदात्मना
यत्र
न
वर्तते
,
न
तत्तत
उत्पद्यते
,
यथा
सिकताभ्यस्तैलम्
।
तस्मात्प्रागुत्पत्तेरनन्यत्वादुत्पन्नमप्यनन्यदेव
कारणात्कार्यमित्यवगम्यते
।
यथा
च
कारणं
ब्रह्म
त्रिषु
कालेषु
सत्त्वं
न
व्यभिचरति
,
एवं
कार्यमपि
जगत्त्रिषु
कालेषु
सत्त्वं
न
व्यभिचरति
।
एकं
च
पुनः
सत्त्वम्
।
अतोऽप्यनन्यत्वं
कारणात्कार्यस्य
॥ १६ ॥
सत्त्वाच्चेति
;
कार्यस्य कारणादनन्यत्वे श्रुतार्थापत्तिं प्रमाणान्तरमाह -
सत्त्वाच्चेति ।