श्रुतार्थापत्तिमेव स्फोरयितुं प्रथमं चशब्दव्याख्यानपूर्वकं श्रुतिमुदाहरति -
इतश्चेति ।
प्रागुत्पत्तेः सत्त्वं कारणस्यैवात्र श्रुतं न कार्यस्येत्याशङ्क्याह -
इदंशब्देति ।
यदिदानीं स्थूलकार्यं दृष्टं तस्य सृष्टेः प्राक्कारणसामानाधिकरण्यानुपपत्त्या तत्तादात्म्यावागमान्न वस्तुभेदोऽस्तीत्यर्थः ।
कार्यकारणयोरनन्यत्वे प्रमिते प्रमाणानुग्राहिकां युक्तिमपि समुच्चिनोति -
यच्चेति ।
कार्यस्य प्रागवस्थायां कारणात्मना सत्त्वेऽपि निष्पन्नं ततो भिन्नं स्यादित्याशङ्क्याह -
तस्मादिति ।
यथा सिकतास्वविद्यमानं तैलं न ततो जायते, तथात्मनोऽपि जगन्न जायेत यद्यात्मरूपेण प्रागवस्थायां नासीत् । जायते च । तस्मादात्मात्मना प्रागासीदिति निश्चयसिद्धिरित्यर्थः ।
कार्यकारणयोरनन्यत्वे युक्त्यन्तरं वक्तुं भूमिकां करोति -
यथा चेति ।
यथा घटः सदा घट एव न जातु पटो भवत्येवं सदपि कारणं सदा सदेव न कदाचिदसदिष्टं, तथा कार्यमपि सच्चेन्न कदाचिदसद्भवितुमर्हतीत्यर्थः ।
कार्यकारणयोर्भेदेनापि सत्त्वसम्भवादनन्यत्वं कथमित्याशङ्क्याह -
एकं चेति ।
सतोऽसतो वा सद्भेदकत्वाभावात्तदेकतेत्यर्थः ।
अभिन्नसत्त्वाभिन्नत्वान्मिथोऽपि कार्यकारणेन न भिद्येते सत्त्ववदिति फलितमाह -
अतोऽपीति ॥ १६ ॥
परिहारभागमवतारयति -
नेतीति ।
नञर्थमाह -
नहीति ।
तर्हि केनाभिप्रायेणायमसद्व्यपदेश इत्याशङ्क्य धर्मान्तरेणेति व्याचष्टे -
किं तर्हीति ।
तत्र प्रश्नपूर्वकं गमकं कथयति -
कथमिति ।
सूत्रावयवं व्याख्याति -
यदिति ।
‘ अक्ताः शर्करा उपदधाति’ इत्यत्र केनेति तैलघृतादौ सन्देहे ‘तेजो वै घृतम्’ इति वाक्यशेषाद्धृतेनेति निश्चितमित्यर्थः ।
सामान्यन्यायं प्रकृते दर्शयति -
इह चेति ।
‘असदेवेदम्’ इत्यादावसच्छब्देन तुच्छमुच्यते किंवा सदेवानभिव्यक्तनामरूपमिति सन्देहे ‘तत्सदासीत्’ इति वाक्यशेषात्तुच्छव्यावृत्तं सदेवानभिव्यक्तनामरूपमसच्छब्दितमिति निश्चीयते, तस्य तच्छब्देन परामृष्टस्य सच्छब्देन निर्देशादित्यर्थः ।
इतश्चात्र तुच्छमसच्छब्दवाच्यं न भवतीत्याह -
असतश्चेति ।
‘असद्वा इदम्’ इत्यत्र ‘तत्सदासीत्’ इति वाक्यशेषाभावात्कुतो निश्चयसिद्धिरित्याशङ्क्याह -
असद्वेति ।
वाक्यशेषस्य सत्कार्यविषयत्वे फलितमाह -
तस्मादिति ।
वृद्धव्यवहाराभावे कथमसच्छब्दस्य सति प्रयोग इत्याशङ्क्योपचारादित्याह -
नामेति ॥ १७ ॥