मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
प्रथमः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॥ १७ ॥
ननु
क्वचिदसत्त्वमपि
प्रागुत्पत्तेः
कार्यस्य
व्यपदिशति
श्रुतिः
—
‘
असदेवेदमग्र
आसीत्
’ (छा. उ. ३ । १९ । १)
इति
,
‘
असद्वा
इदमग्र
आसीत्
’ (तै. उ. २ । ७ । १)
इति
च
।
तस्मादसद्व्यपदेशान्न
प्रागुत्पत्तेः
कार्यस्य
सत्त्वमिति
चेत्
—
नेति
ब्रूमः
।
न
ह्ययमत्यन्तासत्त्वाभिप्रायेण
प्रागुत्पत्तेः
कार्यस्यासद्व्यपदेशः
;
किं
तर्हि
? —
व्याकृतनामरूपत्वाद्धर्मादव्याकृतनामरूपत्वं
धर्मान्तरम्
;
तेन
धर्मान्तरेणायमसद्व्यपदेशः
प्रागुत्पत्तेः
सत
एव
कार्यस्य
कारणरूपेणानन्यस्य
।
कथमेतदवगम्यते
?
वाक्यशेषात्
।
यदुपक्रमे
सन्दिग्धार्थं
वाक्यं
तच्छेषान्निश्चीयते
।
इह
च
तावत्
‘
असदेवेदमग्र
आसीत्
’
इत्यसच्छब्देनोपक्रमे
निर्दिष्टं
यत्
,
तदेव
पुनस्तच्छब्देन
परामृश्य
,
सदिति
विशिनष्टि
— ‘
तत्सदासीत्
’
इति
—
असतश्च
पूर्वापर
कालासम्बन्धात्
आसीच्छब्दानुपपत्तेश्च
।
‘
असद्वा
इदमग्र
आसीत्
’ (तै. उ. २ । ७ । १)
इत्यत्रापि
‘
तदात्मानꣳ
स्वयमकुरुत
’ (तै. उ. २ । ७ । १)
इति
वाक्यशेषे
विशेषणान्नात्यन्तासत्त्वम्
।
तस्माद्धर्मान्तरेणैवायमसद्व्यपदेशः
प्रागुत्पत्तेः
कार्यस्य
।
नामरूपव्याकृतं
हि
वस्तु
सच्छब्दार्हं
लोके
प्रसिद्धम्
।
अतः
प्राङ्नामरूपव्याकरणादसदिवासीदित्युपचर्यते
॥ १७ ॥
असदिति
;
प्रागुत्पत्तेः सत्त्वं कारणात्मना कार्यस्येत्युक्तमाक्षिप्य समाधत्ते -
असदिति ।