असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॥ १७ ॥
ननु क्वचिदसत्त्वमपि प्रागुत्पत्तेः कार्यस्य व्यपदिशति श्रुतिः —
‘असदेवेदमग्र आसीत्’ (छा. उ. ३ । १९ । १) इति,
‘असद्वा इदमग्र आसीत्’ (तै. उ. २ । ७ । १) इति च ।
तस्मादसद्व्यपदेशान्न प्रागुत्पत्तेः कार्यस्य सत्त्वमिति चेत् —
नेति ब्रूमः ।
न ह्ययमत्यन्तासत्त्वाभिप्रायेण प्रागुत्पत्तेः कार्यस्यासद्व्यपदेशः;
किं तर्हि ? —
व्याकृतनामरूपत्वाद्धर्मादव्याकृतनामरूपत्वं धर्मान्तरम्;
तेन धर्मान्तरेणायमसद्व्यपदेशः प्रागुत्पत्तेः सत एव कार्यस्य कारणरूपेणानन्यस्य ।
कथमेतदवगम्यते ?
वाक्यशेषात् ।
यदुपक्रमे सन्दिग्धार्थं वाक्यं तच्छेषान्निश्चीयते ।
इह च तावत् ‘
असदेवेदमग्र आसीत्’
इत्यसच्छब्देनोपक्रमे निर्दिष्टं यत् ,
तदेव पुनस्तच्छब्देन परामृश्य,
सदिति विशिनष्टि — ‘
तत्सदासीत्’
इति —
असतश्च पूर्वापरकालासम्बन्धात् आसीच्छब्दानुपपत्तेश्च ।
‘असद्वा इदमग्र आसीत्’ (तै. उ. २ । ७ । १) इत्यत्रापि ‘तदात्मानꣳ स्वयमकुरुत’ (तै. उ. २ । ७ । १) इति वाक्यशेषे विशेषणान्नात्यन्तासत्त्वम् ।
तस्माद्धर्मान्तरेणैवायमसद्व्यपदेशः प्रागुत्पत्तेः कार्यस्य ।
नामरूपव्याकृतं हि वस्तु सच्छब्दार्हं लोके प्रसिद्धम् ।
अतः प्राङ्नामरूपव्याकरणादसदिवासीदित्युपचर्यते ॥ १७ ॥