ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
युक्तेः शब्दान्तराच्च ॥ १८ ॥

ननु कार्यस्यासतोऽर्थान्तरत्वे सत्त्वमास्थेयं, परस्परविरोधिनोर्विधान्तराभावात् । तथाच कार्यस्यानिर्वाच्यत्वाभ्युपगमभङ्गप्रसङ्गादपसिद्धान्तः स्यादित्याशङ्क्य कारणस्यैवाप्राकृतकारणत्वस्य सत्त्वं, कार्यस्य पुनरनिर्वाच्यत्वमेवेति प्रतिपादयितुं प्रक्रमते -

युक्तेरिति ।